🪷 Mahābhārata · Sabhā-Parva · Chapter 60

The Book of the Assembly Hall · Parva 2 · 47 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 47 Shlokas

MBh 2.60.1
[वै] धिग अस्तु कषत्तारम इति बरुवाणॊ; दर्पेण मत्तॊ धृतराष्ट्रस्य पुत्रः अवैक्षत परातिकामीं सभायाम; उवाच चैनं परमार्यमध्ये
MBh 2.60.2
तवं परातिकामिन दरौपदीम आनयस्व; न ते भयं विद्यते पाण्डवेभ्यः कषत्ता हय अयं विवदत्य एव भीरुर; न चास्माकं वृद्धिकामः सदैव
MBh 2.60.3
एवम उक्तः परातिकामी ससूतः; परायाच छीघ्रं राजवचॊ निशम्य परविश्य च शवेव स सिंहगॊष्ठं; समासदन महिषीं पाण्डवानाम
MBh 2.60.4
[पर] युधिष्ठिरे दयूतमदेन मत्ते; दुर्यॊधनॊ दरौपदि तवाम अजैषीत सा परपद्य तवं धृतराष्ट्रस्य वेश्म; नयामि तवां कर्मणे याज्ञसेनि
MBh 2.60.5
[द] कथं तव एवं वदसि परातिकामिन; कॊ वै दीव्येद भार्ययया राजपुत्रः मूढॊ राजा दयूतमदेन मत्त; आहॊ नान्यत कैतवम अस्य किं चित
MBh 2.60.6
[प] यदा नाभूत कैतवम अन्यद अस्य; तदादेवीत पाण्डवॊ ऽजातशत्रुः नयस्ताः पूर्वं भरातरस तेन राज्ञा; सवयं चात्मा तवम अथॊ राजपुत्रि
MBh 2.60.7
[द] गच्छ तवं कितवं गत्वा सभायां पृच्छ सूतज किं नु पूर्वं पराजैषीर आत्मानं मां नु भारत एतज जञात्वा तवम आगच्छ ततॊ मां नयसूतज
MBh 2.60.8
[व] सभां गत्वा स चॊवाच दरौपद्यास तद वचस तदा कस्येशॊ नः पराजैषीर इति तवाम आह दरौपदी किं नु पूर्वं पराजैषीर आत्मानम अथ वापि माम
MBh 2.60.9
युधिष्ठिरस तु निश्चेष्टॊ गतसत्त्व इवाभवत न तं सूतं परत्युवाच वचनं साध्व असाधु वा
MBh 2.60.10
[दुर] इहैत्य कृष्णा पाञ्चाली परश्नम एतं परभाषताम इहैव सर्वे शृण्वन्तु तस्या अस्य च यद वचः
MBh 2.60.11
[व] स गत्वा राजभवनं दुर्यॊधन वशानुगः उवाच दरौपदीं सूतः परातिकामी वयथन्न इव
MBh 2.60.12
सभ्यास तव अमी राजपुत्र्य आह्वयन्ति; मन्ये पराप्तः संक्षयः कौरवाणाम न वै समृद्धिं पालयते लघीयान; यत तवं सभाम एष्यसि राजपुत्रि
MBh 2.60.13
[दरौ] एवं नूनं वयदधात संविधाता; सपर्शाव उभौ सपृशतॊ वीर बालौ धर्मं तव एकं परमं पराह लॊके; स नः शमं धास्यति गॊप्यमानः
MBh 2.60.14
[वै] युधिष्ठिरस तु तच छरुत्वा दुर्यॊधन चिकीर्षितम दरौपद्या संमतं दूतं पराहिणॊद भरतर्षभ
MBh 2.60.15
एकवस्त्रा अधॊ नीवी रॊदमाना रजस्वला सभाम आगम्य पाञ्चाली शवशुरस्याग्रतॊ ऽभवत
MBh 2.60.16
ततस तेषां मुखम आलॊक्य राजा; दुर्यॊधनः सूतम उवाच हृष्टः इहैवैताम आनय परातिकामिन; परत्यक्षम अस्याः कुरवॊ बरुवन्तु
MBh 2.60.17
ततः सूतस तस्य वशानुगामी; भीतश च कॊपाद दरुपदात्मजायाः विहाय मानं पुनर एव सभ्यान; उवाच कृष्णां किम अहं बरवीमि
MBh 2.60.18
[दुर] दुःशासनैष मम सूतपुत्रॊ; वृकॊदराद उद्विजते ऽलपचेताः सवयं परगृह्यानय याज्ञसेनीं; किं ते करिष्यन्त्य अवशाः सपत्नाः
MBh 2.60.19
ततः समुत्थाय स राजपुत्रः; शरुत्वा भरातुः कॊपविरक्त दृष्टिः परविश्य तद वेश्म महारथानाम; इत्य अब्रवीद दरौपदीं राजपुत्रीम
MBh 2.60.20
एह्य एहि पाञ्चालि जितासि कृष्णे; दुर्यॊधनं पश्य विमुक्तलज्जा कुरून भजस्वायत पद्मनेत्रे; धर्मेण लब्धासि सभां परैहि
MBh 2.60.21
ततः समुत्थाय सुदुर्मनाः सा; विवर्णम आमृज्य मुखं करेण आर्ता परदुद्राव यतः सत्रियस ता; वृद्धस्य राज्ञः कुरुपुंगवस्य
MBh 2.60.22
ततॊ जवेनाभिससार रॊषाद; दुःशासनस ताम अभिगर्जमानः दीर्घेषु नीलेष्व अथ चॊर्मि मत्सु; जग्राह केशेषु नरेन्द्रपत्नीम
MBh 2.60.23
ये राजसूयावभृथे जलेन; महाक्रतौ मन्त्रपूतेन सिक्ताः ते पाण्डवानां परिभूय वीर्यं; बलात परमृष्टा धृतराष्ट्र जेन
MBh 2.60.24
स तां परामृश्य सभा समीपम; आनीय कृष्णाम अतिकृष्ण केशीम दुःशासनॊ नाथवतीम अनाथवच; चकर्ष वायुः कदलीम इवार्ताम
MBh 2.60.25
सा कृष्यमाणा नमिताङ्गयस्तिः; शनैर उवाचाद्य रजस्वलास्मि एकं च वासॊ मम मन्दबुद्धे; सभां नेतुं नार्हसि माम अनार्य
MBh 2.60.26
ततॊ ऽबरवीत तां परसभं निगृह्य; केशेषु कृष्णेषु तदा स कृष्णाम कृष्णं च जिष्णुं च हरिं नरं च; तराणाय विक्रॊश नयामि हि तवाम
MBh 2.60.27
रजस्वला वा भव याज्ञसेनि; एकाम्बरा वाप्य अथ वा विवस्त्रा दयूते जिता चासि कृतासि दासी; दासीषु कामश च यथॊपजॊषम
MBh 2.60.28
परकीर्णकेशी पतितार्ध वस्त्रा; दुःशासनेन वयवधूयमाना हरीमत्य अमर्षेण च दह्यमाना; शनैर इदं वाक्यम उवाच कृष्णा
MBh 2.60.29
इमे सभायाम उपदिष्ट शास्त्राः; करियावन्तः सर्व एवेन्द्र कल्पाः गुरु सथाना गुरवश चैव सर्वे; तेषाम अग्रे नॊत्सहे सथातुम एवम
MBh 2.60.30
नृशंसकर्मंस तवम अनार्य वृत्त; मा मां विवस्त्रां कृधि मा विकार्षीः न मर्षयेयुस तव राजपुत्राः; सेन्द्रापि देवा यदि ते सहायाः
MBh 2.60.31
धर्मे सथितॊ धर्मसुतश च राजा; धर्मश च सूक्ष्मॊ निपुणॊपलभ्यः वाचापि भर्तुः परमाणु मात्रं; नेच्छसि दॊषं सवगुणान विषृज्य
MBh 2.60.32
इदं तव अनार्यं कुरुवीरमध्ये; रजस्वलां यत परिकर्षसे माम न चापि कश चित कुरुते ऽतर पूजां; धरुवं तवेदं मतम अन्वपद्यन
MBh 2.60.33
धिग अस्तु नष्टः खलु भारतानां; धर्मस तथा कषत्रविदां च वृत्तम यत्राभ्यतीतां कुरु धर्मवेलां; परेक्षन्ति सर्वे कुरवः सभायाम
MBh 2.60.34
दरॊणस्य भीष्मस्य च नास्ति सत्त्वं; धरुवं तथैवास्य महात्मनॊ ऽपि राज्ञस तथा हीमम अधर्मम उग्रं; न लक्षयन्ते कुरुवृद्ध मुख्याः
MBh 2.60.35
तथा बरुवन्ती करुणं सुमध्यमा; काक्षेण भर्तॄन कुपितान अपश्यत सा पाण्डवान कॊपपरीत देहान; संदीपयाम आस कटाक्ष पातैः
MBh 2.60.36
हृतेन राज्येन तथा धनेन; रत्नैश च मुख्यैर न तथा बभूव यथार्तया कॊपसमीरितेन; कृष्णा कटाक्षेण बभूव दुःखम
MBh 2.60.37
दुःशासनश चापि समीक्ष्य कृष्णाम; अवेक्षमाणां कृपणान पतींस तान आधूय वेगेन विसंज्ञकल्पाम; उवाच दासीति हसन्न इवॊग्रः
MBh 2.60.38
कर्णस तु तद वाक्यम अतीव हृष्टः; संपूजयाम आस हसन सशब्दम गान्धारराजः सुबलस्य पुत्रस; तथैव दुःशासनम अभ्यनन्दत
MBh 2.60.39
सभ्यास तु ये तत्र बभूवुर अन्ये; ताभ्याम ऋते धार्तराष्ट्रेण चैव तेषाम अभूद दुःखम अतीव कृष्णां; दृष्ट्वा सभायां परिकृष्यमाणाम
MBh 2.60.40
[भीस्म] न धर्मसौक्ष्म्यात सुभगे विवक्तुं; शक्नॊमि ते परश्नम इमं यथावत अस्वॊ हय अशक्तः पणितुं परस्वं; सत्रियश च भर्तुर वशतां समीक्ष्य
MBh 2.60.41
तयजेत सर्वां पृथिवीं समृद्धां; युधिष्ठिरः सत्यम अथॊ न जह्यात उक्तं जितॊ ऽसमीति च पाण्डवेन; तस्मान न शक्नॊमि विवेक्तुम एतत
MBh 2.60.42
दयूते ऽदवितीयः शकुनिर नरेषु; कुन्तीसुतस तेन निसृष्टकामः न मन्यते तां निकृतिं महात्मा; तस्मान न ते परश्नम इमं बरवीमि
MBh 2.60.43
[द] आहूय राजा कुशलैः सभायां; दुष्टात्मभिर नैकृतिकैर अनार्यैः दयूतप्रियैर नातिकृत परयत्नः; कस्माद अयं नाम निसृष्टकामः
MBh 2.60.44
स शुद्धभावॊ निकृतिप्रवृत्तिम; अबुध्यमानः कुरुपाण्डवाग्र्यः संभूय सर्वैश च जितॊ ऽपि यस्मात; पश्चाच च यत कैतवम अभ्युपेतः
MBh 2.60.45
तिष्ठन्ति चेमे कुरवः सभायाम; ईशाः सुतानां च तथा सनुषाणाम समीक्ष्य सर्वे मम चापि वाक्यं; विब्रूत मे परश्नम इमं यथावत
MBh 2.60.46
[व] तथा बरुवन्तीं करुणं रुदन्तीम; अवेक्षमाणाम असकृत पतींस तान दुःशासनः परुषाण्य अप्रियाणि; वाक्यान्य उवाचामधुराणि चैव
MBh 2.60.47
तां कृष्यमाणां च रजस्वलां च; सरस्तॊत्तरीयाम अतदर्हमाणाम वृकॊदरः परेक्ष्य युधिष्ठिरं च; चकार कॊपं परमार्तरूपः

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷