🪷 Mahābhārata · Sabhā-Parva · Chapter 59

The Book of the Assembly Hall · Parva 2 · 12 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 12 Shlokas

MBh 2.59.1
[दूृ] एहि कषत्तर दरौपदीम आनयस्व; परियां भार्यां संमतां पाण्डवानाम संमार्जतां वेश्म परैतु शीघ्रम; आनन्दॊ नः सह दासीभिर अस्तु
MBh 2.59.2
[व] दुर्विभाव्यं भवति तवादृशेन; न मन्दसंबुध्यसि पाशबद्धः परपाते तवं लम्बमानॊ न वेत्सि; वयाघ्रान मृगः कॊपयसे ऽतिबाल्यात
MBh 2.59.3
आशीविषाः शिरसि ते पूर्णकॊशा महाविषाः मा कॊपिष्ठाः सुमन्दात्मन मा गमस तवं यमक्षयम
MBh 2.59.4
न हि दासीत्वम आपन्ना कृष्णा भवति भारत अनीशेन हि राज्ञैषा पणे नयस्तेति मे मतिः
MBh 2.59.5
अयं धत्ते वेणुर इवात्मघाती; फलं राजा धृतराष्ट्रस्य पुत्रः दयूतं हि वैराय महाभयाय; पक्वॊ न बुध्यत्य अयम अन्तकाले
MBh 2.59.6
नारुं तुदः सयान न नृशंसवादी; न हीनतः परम अभ्याददीत ययास्य वाचा पर उद्विजेत; न तां वदेद रुशतीं पापलॊक्याम
MBh 2.59.7
समुच्चरन्त्य अतिवादा हि वक्त्राद; यैर आहतः शॊचति रात्र्यहानि परस्य नामर्मसु ते पतन्ति; तान पण्डितॊ नावसृजेत परेषाम
MBh 2.59.8
अजॊ हि शस्त्रम अखनत किलैकः; शस्त्रे विपन्ने पद्भिर अपास्य भूमिम निकृन्तनं सवस्य कण्ठस्य घॊरं; तद्वद वैरं मा खनीः पाण्डुपुत्रैः
MBh 2.59.9
न किं चिद ईड्यं परवदन्ति पापं; वनेचरं वा गृहमेधिनं वा तपस्विनं संपरिपूर्ण विद्यं; भषन्ति हैवं शवनराः सदैव
MBh 2.59.10
दवारं सुघॊरं नरकस्य जिह्मं; न बुध्यसे धृतराष्ट्रस्य पुत्र तवाम अन्वेतारॊ बहवः कुरूणां; दयूतॊदये सह दुःशासनेन
MBh 2.59.11
मज्जन्त्य अलाबूनि शिलाः पलवन्ते; मुह्यन्ति नावॊ ऽमभसि शश्वद एव मूढॊ राजा धृतराष्ट्रस्य पुत्रॊ; न मे वाचः पथ्यरूपाः शृणॊति
MBh 2.59.12
अन्तॊ नूनं भवितायं कुरूणां; सुदारुणः सर्वहरॊ विनाशः वाचः काव्याः सुहृदां पथ्यरूपा; न शरूयन्ते वर्धते लॊभ एव

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷