🪷 Mahābhārata · Sabhā-Parva · Chapter 58

The Book of the Assembly Hall · Parva 2 · 43 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 43 Shlokas

MBh 2.58.1
शकुनिरुवाच बहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम्
MBh 2.58.2
युधिष्ठिर उवाच मम वित्तमसंख्येयं यदहं वेद सौबल अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि
MBh 2.58.3
अयुतं प्रयुतं चैव खर्वं पद्मं तथार्बुदम् शङ्खं चैव निखर्वं च समुद्रं चात्र पण्यताम् एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया
MBh 2.58.4
वैशंपायन उवाच एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः जितमित्येव शकुनिर्युधिष्ठिरमभाषत
MBh 2.58.5
युधिष्ठिर उवाच गवाश्वं बहुधेनूकमसंख्येयमजाविकम् यत्किंचिदनुवर्णानां प्राक्सिन्धोरपि सौबल एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया
MBh 2.58.6
वैशंपायन उवाच एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः जितमित्येव शकुनिर्युधिष्ठिरमभाषत
MBh 2.58.7
युधिष्ठिर उवाच पुरं जनपदो भूमिरब्राह्मणधनैः सह अब्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं मम एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
MBh 2.58.8
वैशंपायन उवाच एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः जितमित्येव शकुनिर्युधिष्ठिरमभाषत
MBh 2.58.9
युधिष्ठिर उवाच राजपुत्रा इमे राजञ्शोभन्ते येन भूषिताः कुण्डलानि च निष्काश्च सर्वं चाङ्गविभूषणम् एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया
MBh 2.58.10
वैशंपायन उवाच एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः जितमित्येव शकुनिर्युधिष्ठिरमभाषत
MBh 2.58.11
युधिष्ठिर उवाच श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः नकुलो ग्लह एको मे यच्चैतत्स्वगतं धनम्
MBh 2.58.12
शकुनिरुवाच प्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिर अस्माकं धनतां प्राप्तो भूयस्त्वं केन दीव्यसि
MBh 2.58.13
वैशंपायन उवाच एवमुक्त्वा तु शकुनिस्तानक्षान्प्रत्यपद्यत जितमित्येव शकुनिर्युधिष्ठिरमभाषत
MBh 2.58.14
युधिष्ठिर उवाच अयं धर्मान्सहदेवोऽनुशास्ति; लोके ह्यस्मिन्पण्डिताख्यां गतश्च अनर्हता राजपुत्रेण तेन; त्वया दीव्याम्यप्रियवत्प्रियेण
MBh 2.58.15
वैशंपायन उवाच एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः जितमित्येव शकुनिर्युधिष्ठिरमभाषत
MBh 2.58.16
शकुनिरुवाच माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया गरीयांसौ तु ते मन्ये भीमसेनधनंजयौ
MBh 2.58.17
युधिष्ठिर उवाच अधर्मं चरसे नूनं यो नावेक्षसि वै नयम् यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि
MBh 2.58.18
शकुनिरुवाच गर्ते मत्तः प्रपतति प्रमत्तः स्थाणुमृच्छति ज्येष्ठो राजन्वरिष्ठोऽसि नमस्ते भरतर्षभ
MBh 2.58.19
स्वप्ने न तानि पश्यन्ति जाग्रतो वा युधिष्ठिर कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव
MBh 2.58.20
युधिष्ठिर उवाच यो नः संख्ये नौरिव पारनेता; जेता रिपूणां राजपुत्रस्तरस्वी अनर्हता लोकवीरेण तेन; दीव्याम्यहं शकुने फल्गुनेन
MBh 2.58.21
वैशंपायन उवाच एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः जितमित्येव शकुनिर्युधिष्ठिरमभाषत
MBh 2.58.22
शकुनिरुवाच अयं मया पाण्डवानां धनुर्धरः; पराजितः पाण्डवः सव्यसाची भीमेन राजन्दयितेन दीव्य; यत्कैतव्यं पाण्डव तेऽवशिष्टम्
MBh 2.58.23
युधिष्ठिर उवाच यो नो नेता यो युधां नः प्रणेता; यथा वज्री दानवशत्रुरेकः तिर्यक्प्रेक्षी संहतभ्रूर्महात्मा; सिंहस्कन्धो यश्च सदात्यमर्षी
MBh 2.58.24
बलेन तुल्यो यस्य पुमान्न विद्यते; गदाभृतामग्र्य इहारिमर्दनः अनर्हता राजपुत्रेण तेन; दीव्याम्यहं भीमसेनेन राजन्
MBh 2.58.25
वैशंपायन उवाच एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः जितमित्येव शकुनिर्युधिष्ठिरमभाषत
MBh 2.58.26
शकुनिरुवाच बहु वित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान् आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम्
MBh 2.58.27
युधिष्ठिर उवाच अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथा कुर्यामस्ते जिताः कर्म स्वयमात्मन्युपप्लवे
MBh 2.58.28
वैशंपायन उवाच एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः जितमित्येव शकुनिर्युधिष्ठिरमभाषत
MBh 2.58.29
शकुनिरुवाच एतत्पापिष्ठमकरोर्यदात्मानं पराजितः शिष्टे सति धने राजन्पाप आत्मपराजयः
MBh 2.58.30
वैशंपायन उवाच एवमुक्त्वा मताक्षस्तान्ग्लहे सर्वानवस्थितान् पराजयल्लोकवीरानाक्षेपेण पृथक्पृथक्
MBh 2.58.31
शकुनिरुवाच अस्ति वै ते प्रिया देवी ग्लह एकोऽपराजितः पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर्जय
MBh 2.58.32
युधिष्ठिर उवाच नैव ह्रस्वा न महती नातिकृष्णा न रोहिणी सरागरक्तनेत्रा च तया दीव्याम्यहं त्वया
MBh 2.58.33
शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया शारदोत्पलसेविन्या रूपेण श्रीसमानया
MBh 2.58.34
तथैव स्यादानृशंस्यात्तथा स्याद्रूपसंपदा तथा स्याच्छीलसंपत्त्या यामिच्छेत्पुरुषः स्त्रियम्
MBh 2.58.35
चरमं संविशति या प्रथमं प्रतिबुध्यते आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम्
MBh 2.58.36
आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव च वेदीमध्या दीर्घकेशी ताम्राक्षी नातिरोमशा
MBh 2.58.37
तयैवंविधया राजन्पाञ्चाल्याहं सुमध्यया ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल
MBh 2.58.38
वैशंपायन उवाच एवमुक्ते तु वचने धर्मराजेन भारत धिग्धिगित्येव वृद्धानां सभ्यानां निःसृता गिरः
MBh 2.58.39
चुक्षुभे सा सभा राजन्राज्ञां संजज्ञिरे कथाः भीष्मद्रोणकृपादीनां स्वेदश्च समजायत
MBh 2.58.40
शिरो गृहीत्वा विदुरो गतसत्त्व इवाभवत् आस्ते ध्यायन्नधोवक्त्रो निःश्वसन्पन्नगो यथा
MBh 2.58.41
धृतराष्ट्रस्तु संहृष्टः पर्यपृच्छत्पुनः पुनः किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत
MBh 2.58.42
जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतज्जलम्
MBh 2.58.43
सौबलस्त्वविचार्यैव जितकाशी मदोत्कटः जितमित्येव तानक्षान्पुनरेवान्वपद्यत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 43 source-pinned Devanāgarī addresses to Sabhā-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 2.58local chapter route · Sabhā-ParvaSabhā-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷