🪷 Mahābhārata · Sabhā-Parva · Chapter 57

The Book of the Assembly Hall · Parva 2 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 21 Shlokas

MBh 2.57.1
दुर्योधन उवाच परेषामेव यशसा श्लाघसे त्वं; सदा छन्नः कुत्सयन्धार्तराष्ट्रान् जानीमस्त्वां विदुर यत्प्रियस्त्वं; बालानिवास्मानवमन्यसे त्वम्
MBh 2.57.2
सुविज्ञेयः पुरुषोऽन्यत्रकामो; निन्दाप्रशंसे हि तथा युनक्ति जिह्वा मनस्ते हृदयं निर्व्यनक्ति; ज्यायो निराह मनसः प्रातिकूल्यम्
MBh 2.57.3
उत्सङ्गेन व्याल इवाहृतोऽसि; मार्जारवत्पोषकं चोपहंसि भर्तृघ्नत्वान्न हि पापीय आहु;स्तस्मात्क्षत्तः किं न बिभेषि पापात्
MBh 2.57.4
जित्वा शत्रून्फलमाप्तं महन्नो; मास्मान्क्षत्तः परुषाणीह वोचः द्विषद्भिस्त्वं संप्रयोगाभिनन्दी; मुहुर्द्वेषं यासि नः संप्रमोहात्
MBh 2.57.5
अमित्रतां याति नरोऽक्षमं ब्रुव;न्निगूहते गुह्यममित्रसंस्तवे तदाश्रितापत्रपा किं न बाधते; यदिच्छसि त्वं तदिहाद्य भाषसे
MBh 2.57.6
मा नोऽवमंस्था विद्म मनस्तवेदं; शिक्षस्व बुद्धिं स्थविराणां सकाशात् यशो रक्षस्व विदुर संप्रणीतं; मा व्यापृतः परकार्येषु भूस्त्वम्
MBh 2.57.7
अहं कर्तेति विदुर मावमंस्था; मा नो नित्यं परुषाणीह वोचः न त्वां पृच्छामि विदुर यद्धितं मे; स्वस्ति क्षत्तर्मा तितिक्षून्क्षिणु त्वम्
MBh 2.57.8
एकः शास्ता न द्वितीयोऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता तेनानुशिष्टः प्रवणादिवाम्भो; यथा नियुक्तोऽस्मि तथा वहामि
MBh 2.57.9
भिनत्ति शिरसा शैलमहिं भोजयते च यः स एव तस्य कुरुते कार्याणामनुशासनम्
MBh 2.57.10
यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति मित्रतामनुवृत्तं तु समुपेक्षेत पण्डितः
MBh 2.57.11
प्रदीप्य यः प्रदीप्ताग्निं प्राक्त्वरन्नाभिधावति भस्मापि न स विन्देत शिष्टं क्वचन भारत
MBh 2.57.12
न वासयेत्पारवर्ग्यं द्विषन्तं; विशेषतः क्षत्तरहितं मनुष्यम् स यत्रेच्छसि विदुर तत्र गच्छ; सुसान्त्वितापि ह्यसती स्त्री जहाति
MBh 2.57.13
विदुर उवाच एतावता ये पुरुषं त्यजन्ति; तेषां सख्यमन्तवद्ब्रूहि राजन् राज्ञां हि चित्तानि परिप्लुतानि; सान्त्वं दत्त्वा मुसलैर्घातयन्ति
MBh 2.57.14
अबालस्त्वं मन्यसे राजपुत्र; बालोऽहमित्येव सुमन्दबुद्धे यः सौहृदे पुरुषं स्थापयित्वा; पश्चादेनं दूषयते स बालः
MBh 2.57.15
न श्रेयसे नीयते मन्दबुद्धिः; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा ध्रुवं न रोचेद्भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः
MBh 2.57.16
अनुप्रियं चेदनुकाङ्क्षसे त्वं; सर्वेषु कार्येषु हिताहितेषु स्त्रियश्च राजञ्जडपङ्गुकांश्च; पृच्छ त्वं वै तादृशांश्चैव मूढान्
MBh 2.57.17
लभ्यः खलु प्रातिपीय नरोऽनुप्रियवागिह अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः
MBh 2.57.18
यस्तु धर्मे पराश्वस्य हित्वा भर्तुः प्रियाप्रिये अप्रियाण्याह पथ्यानि तेन राजा सहायवान्
MBh 2.57.19
अव्याधिजं कटुकं तीक्ष्णमुष्णं; यशोमुषं परुषं पूतिगन्धि सतां पेयं यन्न पिबन्त्यसन्तो; मन्युं महाराज पिब प्रशाम्य
MBh 2.57.20
वैचित्रवीर्यस्य यशो धनं च; वाञ्छाम्यहं सहपुत्रस्य शश्वत् यथा तथा वोऽस्तु नमश्च वोऽस्तु; ममापि च स्वस्ति दिशन्तु विप्राः
MBh 2.57.21
आशीविषान्नेत्रविषान्कोपयेन्न तु पण्डितः एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 21 source-pinned Devanāgarī addresses to Sabhā-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 2.57local chapter route · Sabhā-ParvaSabhā-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷