🪷 Mahābhārata · Sabhā-Parva · Chapter 56
The Book of the Assembly Hall · Parva 2 · 10 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 10 Shlokas
MBh 2.56.1
[वि]
दयूतं मूलं कलहस्यानुपाति; मिथॊ भेदाय महते वा रणाय
यद आस्थितॊ ऽयं धृतराष्ट्रस्य पुत्रॊ; दुर्यॊधनः सृजते वैरम उग्रम
MBh 2.56.2
परातिपीयाः शांतनवा भैमसेनाः स बाह्लिकाः
दुर्यॊधनापराधेन कृच्छ्रं पराप्स्यन्ति सर्वशः
MBh 2.56.3
दुर्यॊधनॊ मदेनैव कषेमं राष्ट्राद अपॊहति
विषाणं गौर इव मदात सवयम आरुजते बलात
MBh 2.56.4
यश चित्तम अन्वेति परस्य राजन; वीरः कविः सवाम अतिपत्य दृष्टिम
नावं समुद्र इव बाल नेत्राम; आरुह्य घॊरे वयसने निमज्जेत
MBh 2.56.5
दुर्यॊधनॊ गलहते पाण्डवेन; परियायसे तवं जयतीति तच च
अतिनर्माज जायते संप्रहारॊ; यतॊ विनाशः समुपैति पुंसाम
MBh 2.56.6
आकर्षस ते ऽवाक्फलः कु परणीतॊ; हृदि परौढॊ मन्त्रपदः समाधिः
युधिष्ठिरेण सफलः संस्तवॊ ऽसतु; साम्नः सुरिक्तॊ ऽरिमतेः सुधन्वा
MBh 2.56.7
परातिपीयाः शांतनवाश च राजन; काव्यां वाचं शृणुत मात्यगाद वः
वैश्वानरं परज्वलितं सुघॊरम; अयुद्धेन परशमयतॊत्पतन्तम
MBh 2.56.8
यदा मन्युं पाण्डवॊ ऽजातशत्रुर; न संयच्छेद अक्षमयाभिभूतः
वृकॊदरः सव्यसाची यमौ च; कॊ ऽतर दवीपः सयात तुमुले वस तदानीम
MBh 2.56.9
महाराज परभवस तवं धनानां; पुरा दयूतान मनसा यावद इच्छेः
बहु वित्तं पाण्डवांश चेज जयेस तवं; किं तेन सयाद वसु विन्देह पार्थान
MBh 2.56.10
जानीमहे देवितं सौबलस्य; वेद दयूते निकृतिं पार्वतीयः
यतः पराप्तः शकुनिस तत्र यातु; माया यॊधी भारत पार्वतीयः
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Sabhā-Parva chapter-index (72 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Sabhā-Parva Ch 55
- Next chapter · Sabhā-Parva Ch 57 →
🪷 जय व्यास भगवान् 🪷