🪷 Mahābhārata · Sabhā-Parva · Chapter 61
The Book of the Assembly Hall · Parva 2 · 82 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 82 Shlokas
MBh 2.61.1
भीम उवाच
भवन्ति देशे बन्धक्यः कितवानां युधिष्ठिर
न ताभिरुत दीव्यन्ति दया चैवास्ति तास्वपि
MBh 2.61.2
काश्यो यद्बलिमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम्
तथान्ये पृथिवीपाला यानि रत्नान्युपाहरन्
MBh 2.61.3
वाहनानि धनं चैव कवचान्यायुधानि च
राज्यमात्मा वयं चैव कैतवेन हृतं परैः
MBh 2.61.4
न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान्
इदं त्वतिकृतं मन्ये द्रौपदी यत्र पण्यते
MBh 2.61.5
एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः
त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैर्निकृतिप्रियैः
MBh 2.61.6
अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते
बाहू ते संप्रधक्ष्यामि सहदेवाग्निमानय
MBh 2.61.7
अर्जुन उवाच
न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः
परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम्
MBh 2.61.8
न सकामाः परे कार्या धर्ममेवाचरोत्तमम्
भ्रातरं धार्मिकं ज्येष्ठं नातिक्रमितुमर्हति
MBh 2.61.9
आहूतो हि परै राजा क्षात्रधर्ममनुस्मरन्
दीव्यते परकामेन तन्नः कीर्तिकरं महत्
MBh 2.61.10
भीमसेन उवाच
एवमस्मिकृतं विद्यां यद्यस्याहं धनंजय
दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव
MBh 2.61.11
वैशंपायन उवाच
तथा तान्दुःखितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः
क्लिश्यमानां च पाञ्चालीं विकर्ण इदमब्रवीत्
MBh 2.61.12
याज्ञसेन्या यदुक्तं तद्वाक्यं विब्रूत पार्थिवाः
अविवेकेन वाक्यस्य नरकः सद्य एव नः
MBh 2.61.13
भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ
समेत्य नाहतुः किंचिद्विदुरश्च महामतिः
MBh 2.61.14
भारद्वाजोऽपि सर्वेषामाचार्यः कृप एव च
अत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ
MBh 2.61.15
ये त्वन्ये पृथिवीपालाः समेताः सर्वतो दिशः
कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति
MBh 2.61.16
यदिदं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा
विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम्
MBh 2.61.17
एवं स बहुशः सर्वानुक्तवांस्तान्सभासदः
न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा
MBh 2.61.18
उक्त्वा तथासकृत्सर्वान्विकर्णः पृथिवीपतीन्
पाणिं पाणौ विनिष्पिष्य निःश्वसन्निदमब्रवीत्
MBh 2.61.19
विब्रूत पृथिवीपाला वाक्यं मा वा कथंचन
मन्ये न्याय्यं यदत्राहं तद्धि वक्ष्यामि कौरवाः
MBh 2.61.20
चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम्
मृगयां पानमक्षांश्च ग्राम्ये चैवातिसक्तताम्
MBh 2.61.21
एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते
तथायुक्तेन च कृतां क्रियां लोको न मन्यते
MBh 2.61.22
तदयं पाण्डुपुत्रेण व्यसने वर्तता भृशम्
समाहूतेन कितवैरास्थितो द्रौपदीपणः
MBh 2.61.23
साधारणी च सर्वेषां पाण्डवानामनिन्दिता
जितेन पूर्वं चानेन पाण्डवेन कृतः पणः
MBh 2.61.24
इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना
एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम्
MBh 2.61.25
एतच्छ्रुत्वा महान्नादः सभ्यानामुदतिष्ठत
विकर्णं शंसमानानां सौबलं च विनिन्दताम्
MBh 2.61.26
तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः
प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत्
MBh 2.61.27
दृश्यन्ते वै विकर्णे हि वैकृतानि बहून्यपि
तज्जस्तस्य विनाशाय यथाग्निररणिप्रजः
MBh 2.61.28
एते न किंचिदप्याहुश्चोद्यमानापि कृष्णया
धर्मेण विजितां मन्ये मन्यन्ते द्रुपदात्मजाम्
MBh 2.61.29
त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे
यद्ब्रवीषि सभामध्ये बालः स्थविरभाषितम्
MBh 2.61.30
न च धर्मं यथातत्त्वं वेत्सि दुर्योधनावर
यद्ब्रवीषि जितां कृष्णामजितेति सुमन्दधीः
MBh 2.61.31
कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज
यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः
MBh 2.61.32
अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ
एवं धर्मजितां कृष्णां मन्यसे न जितां कथम्
MBh 2.61.33
कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः
भवत्यविजिता केन हेतुनैषा मता तव
MBh 2.61.34
मन्यसे वा सभामेतामानीतामेकवाससम्
अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तरम्
MBh 2.61.35
एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन
इयं त्वनेकवशगा बन्धकीति विनिश्चिता
MBh 2.61.36
अस्याः सभामानयनं न चित्रमिति मे मतिः
एकाम्बरधरत्वं वाप्यथ वापि विवस्त्रता
MBh 2.61.37
यच्चैषां द्रविणं किंचिद्या चैषा ये च पाण्डवाः
सौबलेनेह तत्सर्वं धर्मेण विजितं वसु
MBh 2.61.38
दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः
पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर
MBh 2.61.39
तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत
अवकीर्योत्तरीयाणि सभायां समुपाविशन्
MBh 2.61.40
ततो दुःशासनो राजन्द्रौपद्या वसनं बलात्
सभामध्ये समाक्षिप्य व्यपक्रष्टुं प्रचक्रमे
MBh 2.61.41
आकृष्यमाणे वसने द्रौपद्यास्तु विशां पते
तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः
MBh 2.61.42
ततो हलहलाशब्दस्तत्रासीद्घोरनिस्वनः
तदद्भुततमं लोके वीक्ष्य सर्वमहीक्षिताम्
MBh 2.61.43
शशाप तत्र भीमस्तु राजमध्ये महास्वनः
क्रोधाद्विस्फुरमाणोष्ठो विनिष्पिष्य करे करम्
MBh 2.61.44
इदं मे वाक्यमादद्ध्वं क्षत्रिया लोकवासिनः
नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति
MBh 2.61.45
यद्येतदेवमुक्त्वा तु न कुर्यां पृथिवीश्वराः
पितामहानां सर्वेषां नाहं गतिमवाप्नुयाम्
MBh 2.61.46
अस्य पापस्य दुर्जातेर्भारतापसदस्य च
न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि
MBh 2.61.47
तस्य ते वचनं श्रुत्वा सर्वलोकप्रहर्षणम्
प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम्
MBh 2.61.48
यदा तु वाससां राशिः सभामध्ये समाचितः
ततो दुःशासनः श्रान्तो व्रीडितः समुपाविशत्
MBh 2.61.49
धिक्शब्दस्तु ततस्तत्र समभूल्लोमहर्षणः
सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस्तदा
MBh 2.61.50
न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह
स जनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन्
MBh 2.61.51
ततो बाहू समुच्छ्रित्य निवार्य च सभासदः
विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत्
MBh 2.61.52
विदुर उवाच
द्रौपदी प्रश्नमुक्त्वैवं रोरवीति ह्यनाथवत्
न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते
MBh 2.61.53
सभां प्रपद्यते ह्यार्तः प्रज्वलन्निव हव्यवाट्
तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत
MBh 2.61.54
धर्मप्रश्नमथो ब्रूयादार्तः सभ्येषु मानवः
विब्रूयुस्तत्र ते प्रश्नं कामक्रोधवशातिगाः
MBh 2.61.55
विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः
भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति
MBh 2.61.56
यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः
अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते
MBh 2.61.57
यः पुनर्वितथं ब्रूयाद्धर्मदर्शी सभां गतः
अनृतस्य फलं कृत्स्नं संप्राप्नोतीति निश्चयः
MBh 2.61.58
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च
MBh 2.61.59
प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः
कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत्
MBh 2.61.60
अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा
तयोर्देवनमत्रासीत्प्राणयोरिति नः श्रुतम्
MBh 2.61.61
तयोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम्
ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा
MBh 2.61.62
स वै विवदनाद्भीतः सुधन्वानं व्यलोकयत्
तं सुधन्वाब्रवीत्क्रुद्धो ब्रह्मदण्ड इव ज्वलन्
MBh 2.61.63
यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि
शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति
MBh 2.61.64
सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत्
जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम्
MBh 2.61.65
प्रह्लाद उवाच
त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च
ब्राह्मणस्य महाप्राज्ञ धर्मकृच्छ्रमिदं शृणु
MBh 2.61.66
यो वै प्रश्नं न विब्रूयाद्वितथं वापि निर्दिशेत्
के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः
MBh 2.61.67
कश्यप उवाच
जानन्न विब्रुवन्प्रश्नं कामात्क्रोधात्तथा भयात्
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति
MBh 2.61.68
तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते
तस्मात्सत्यं तु वक्तव्यं जानता सत्यमञ्जसा
MBh 2.61.69
विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते
न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः
MBh 2.61.70
अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु
पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम्
MBh 2.61.71
अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते
MBh 2.61.72
वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते
इष्टापूर्तं च ते घ्नन्ति सप्त चैव परावरान्
MBh 2.61.73
हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चापि यत्
ऋणिनं प्रति यच्चैव राज्ञा ग्रस्तस्य चापि यत्
MBh 2.61.74
स्त्रियाः पत्या विहीनायाः सार्थाद्भ्रष्टस्य चैव यत्
अध्यूढायाश्च यद्दुःखं साक्षिभिर्विहतस्य च
MBh 2.61.75
एतानि वै समान्याहुर्दुःखानि त्रिदशेश्वराः
तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन्
MBh 2.61.76
समक्षदर्शनात्साक्ष्यं श्रवणाच्चेति धारणात्
तस्मात्सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते
MBh 2.61.77
विदुर उवाच
कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत्
श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः
MBh 2.61.78
माता सुधन्वनश्चापि श्रेयसी मातृतस्तव
विरोचन सुधन्वायं प्राणानामीश्वरस्तव
MBh 2.61.79
सुधन्वोवाच
पुत्रस्नेहं परित्यज्य यस्त्वं धर्मे प्रतिष्ठितः
अनुजानामि ते पुत्रं जीवत्वेष शतं समाः
MBh 2.61.80
विदुर उवाच
एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः
यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम्
MBh 2.61.81
वैशंपायन उवाच
विदुरस्य वचः श्रुत्वा नोचुः किंचन पार्थिवाः
कर्णो दुःशासनं त्वाह कृष्णां दासीं गृहान्नय
MBh 2.61.82
तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान्
दुःशासनः सभामध्ये विचकर्ष तपस्विनीम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Sabhā-Parva chapter-index (72 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Sabhā-Parva Ch 60
- Next chapter · Sabhā-Parva Ch 62 →
Sources and Connected Readings
Continue from these 82 source-pinned Devanāgarī addresses to Sabhā-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 2.61local chapter route · Sabhā-ParvaSabhā-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷