🪷 Mahābhārata · Sabhā-Parva · Chapter 12

The Book of the Assembly Hall · Parva 2 · 40 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 40 Shlokas

MBh 2.12.1
वैशंपायन उवाच ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः चिन्तयन्राजसूयाप्तिं न लेभे शर्म भारत
MBh 2.12.2
राजर्षीणां हि तं श्रुत्वा महिमानं महात्मनाम् यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च
MBh 2.12.3
हरिश्चन्द्रं च राजर्षिं रोचमानं विशेषतः यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः
MBh 2.12.4
युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे
MBh 2.12.5
स राजसूयं राजेन्द्र कुरूणामृषभः क्रतुम् आहर्तुं प्रवणं चक्रे मनः संचिन्त्य सोऽसकृत्
MBh 2.12.6
भूयश्चाद्भुतवीर्यौजा धर्ममेवानुपालयन् किं हितं सर्वलोकानां भवेदिति मनो दधे
MBh 2.12.7
अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मविदां वरः अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः
MBh 2.12.8
एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः न तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता
MBh 2.12.9
स मन्त्रिणः समानाय्य भ्रातॄंश्च वदतां वरः राजसूयं प्रति तदा पुनः पुनरपृच्छत
MBh 2.12.10
ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन्
MBh 2.12.11
येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति तेन राजापि सन्कृत्स्नं सम्राड्गुणमभीप्सति
MBh 2.12.12
तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन राजसूयस्य समयं मन्यन्ते सुहृदस्तव
MBh 2.12.13
तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसंपदा साम्ना षडग्नयो यस्मिंश्चीयन्ते संशितव्रतैः
MBh 2.12.14
दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून् अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते
MBh 2.12.15
समर्थोऽसि महाबाहो सर्वे ते वशगा वयम् अविचार्य महाराज राजसूये मनः कुरु
MBh 2.12.16
इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन् स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशां पते धृष्टमिष्टं वरिष्ठं च जग्राह मनसारिहा
MBh 2.12.17
श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम् पुनः पुनर्मनो दध्रे राजसूयाय भारत
MBh 2.12.18
स भ्रातृभिः पुनर्धीमानृत्विग्भिश्च महात्मभिः धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रिभिः
MBh 2.12.19
युधिष्ठिर उवाच इयं या राजसूयस्य सम्राडर्हस्य सुक्रतोः श्रद्दधानस्य वदतः स्पृहा मे सा कथं भवेत्
MBh 2.12.20
वैशंपायन उवाच एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन इदमूचुर्वचः काले धर्मात्मानं युधिष्ठिरम् अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम्
MBh 2.12.21
अथैवमुक्ते नृपतावृत्विग्भिरृषिभिस्तथा मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन्
MBh 2.12.22
स तु राजा महाप्राज्ञः पुनरेवात्मनात्मवान् भूयो विममृशे पार्थो लोकानां हितकाम्यया
MBh 2.12.23
सामर्थ्ययोगं संप्रेक्ष्य देशकालौ व्ययागमौ विमृश्य सम्यक्च धिया कुर्वन्प्राज्ञो न सीदति
MBh 2.12.24
न हि यज्ञसमारम्भः केवलात्मविपत्तये भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन्
MBh 2.12.25
स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम् सर्वलोकात्परं मत्वा जगाम मनसा हरिम्
MBh 2.12.26
अप्रमेयं महाबाहुं कामाज्जातमजं नृषु पाण्डवस्तर्कयामास कर्मभिर्देवसंमितैः
MBh 2.12.27
नास्य किंचिदविज्ञातं नास्य किंचिदकर्मजम् न स किंचिन्न विषहेदिति कृष्णममन्यत
MBh 2.12.28
स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा
MBh 2.12.29
शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान् द्वारकावासिनं कृष्णं द्वारवत्यां समासदत्
MBh 2.12.30
दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः इन्द्रसेनेन सहित इन्द्रप्रस्थं ययौ तदा
MBh 2.12.31
व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनः इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः
MBh 2.12.32
स गृहे भ्रातृवद्भ्रात्रा धर्मराजेन पूजितः भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः
MBh 2.12.33
प्रीतः प्रियेण सुहृदा रेमे स सहितस्तदा अर्जुनेन यमाभ्यां च गुरुवत्पर्युपस्थितः
MBh 2.12.34
तं विश्रान्तं शुभे देशे क्षणिनं कल्यमच्युतम् धर्मराजः समागम्य ज्ञापयत्स्वं प्रयोजनम्
MBh 2.12.35
युधिष्ठिर उवाच प्रार्थितो राजसूयो मे न चासौ केवलेप्सया प्राप्यते येन तत्ते ह विदितं कृष्ण सर्वशः
MBh 2.12.36
यस्मिन्सर्वं संभवति यश्च सर्वत्र पूज्यते यश्च सर्वेश्वरो राजा राजसूयं स विन्दति
MBh 2.12.37
तं राजसूयं सुहृदः कार्यमाहुः समेत्य मे तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत्
MBh 2.12.38
केचिद्धि सौहृदादेव दोषं न परिचक्षते अर्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत
MBh 2.12.39
प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम् एवंप्रायाश्च दृश्यन्ते जनवादाः प्रयोजने
MBh 2.12.40
त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्यतीत्य च परमं नः क्षमं लोके यथावद्वक्तुमर्हसि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 40 source-pinned Devanāgarī addresses to Sabhā-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 2.12local chapter route · Sabhā-ParvaSabhā-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷