🪷 Mahābhārata · Sabhā-Parva · Chapter 11
The Book of the Assembly Hall · Parva 2 · 73 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 73 Shlokas
MBh 2.11.1
नारद उवाच
पुरा देवयुगे राजन्नादित्यो भगवान्दिवः
आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः
MBh 2.11.2
चरन्मानुषरूपेण सभां दृष्ट्वा स्वयंभुवः
सभामकथयन्मह्यं ब्राह्मीं तत्त्वेन पाण्डव
MBh 2.11.3
अप्रमेयप्रभां दिव्यां मानसीं भरतर्षभ
अनिर्देश्यां प्रभावेन सर्वभूतमनोरमाम्
MBh 2.11.4
श्रुत्वा गुणानहं तस्याः सभायाः पाण्डुनन्दन
दर्शनेप्सुस्तथा राजन्नादित्यमहमब्रुवम्
MBh 2.11.5
भगवन्द्रष्टुमिच्छामि पितामहसभामहम्
येन सा तपसा शक्या कर्मणा वापि गोपते
MBh 2.11.6
औषधैर्वा तथा युक्तैरुत वा मायया यया
तन्ममाचक्ष्व भगवन्पश्येयं तां सभां कथम्
MBh 2.11.7
ततः स भगवान्सूर्यो मामुपादाय वीर्यवान्
अगच्छत्तां सभां ब्राह्मीं विपापां विगतक्लमाम्
MBh 2.11.8
एवंरूपेति सा शक्या न निर्देष्टुं जनाधिप
क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा
MBh 2.11.9
न वेद परिमाणं वा संस्थानं वापि भारत
न च रूपं मया तादृग्दृष्टपूर्वं कदाचन
MBh 2.11.10
सुसुखा सा सभा राजन्न शीता न च घर्मदा
न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्त्युत
MBh 2.11.11
नानारूपैरिव कृता सुविचित्रैः सुभास्वरैः
स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा
MBh 2.11.12
अति चन्द्रं च सूर्यं च शिखिनं च स्वयंप्रभा
दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम्
MBh 2.11.13
तस्यां स भगवानास्ते विदधद्देवमायया
स्वयमेकोऽनिशं राजँल्लोकाँल्लोकपितामहः
MBh 2.11.14
उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम्
दक्षः प्रचेताः पुलहो मरीचिः कश्यपस्तथा
MBh 2.11.15
भृगुरत्रिर्वसिष्ठश्च गौतमश्च तथाङ्गिराः
मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही
MBh 2.11.16
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च भारत
प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः
MBh 2.11.17
चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान्
वायवः क्रतवश्चैव संकल्पः प्राण एव च
MBh 2.11.18
एते चान्ये च बहवः स्वयंभुवमुपस्थिताः
अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः
MBh 2.11.19
आयान्ति तस्यां सहिता गन्धर्वाप्सरसस्तथा
विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः
MBh 2.11.20
शुक्रो बृहस्पतिश्चैव बुधोऽङ्गारक एव च
शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च
MBh 2.11.21
मन्त्रो रथंतरश्चैव हरिमान्वसुमानपि
आदित्याः साधिराजानो नानाद्वंद्वैरुदाहृताः
MBh 2.11.22
मरुतो विश्वकर्मा च वसवश्चैव भारत
तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ
MBh 2.11.23
ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव
अथर्ववेदश्च तथा पर्वाणि च विशां पते
MBh 2.11.24
इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः
ग्रहा यज्ञाश्च सोमश्च दैवतानि च सर्वशः
MBh 2.11.25
सावित्री दुर्गतरणी वाणी सप्तविधा तथा
मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा
MBh 2.11.26
सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा
भाष्याणि तर्कयुक्तानि देहवन्ति विशां पते
MBh 2.11.27
क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च
अर्धमासाश्च मासाश्च ऋतवः षट्च भारत
MBh 2.11.28
संवत्सराः पञ्चयुगमहोरात्राश्चतुर्विधाः
कालचक्रं च यद्दिव्यं नित्यमक्षयमव्ययम्
MBh 2.11.29
अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा
कालका सुरभिर्देवी सरमा चाथ गौतमी
MBh 2.11.30
आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि
विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः
MBh 2.11.31
राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा
सुपर्णनागपशवः पितामहमुपासते
MBh 2.11.32
देवो नारायणस्तस्यां तथा देवर्षयश्च ये
ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा
MBh 2.11.33
यच्च किंचित्त्रिलोकेऽस्मिन्दृश्यते स्थाणुजङ्गमम्
सर्वं तस्यां मया दृष्टं तद्विद्धि मनुजाधिप
MBh 2.11.34
अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम्
प्रजावतां च पञ्चाशदृषीणामपि पाण्डव
MBh 2.11.35
ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः
प्रणम्य शिरसा तस्मै प्रतियान्ति यथागतम्
MBh 2.11.36
अतिथीनागतान्देवान्दैत्यान्नागान्मुनींस्तथा
यक्षान्सुपर्णान्कालेयान्गन्धर्वाप्सरसस्तथा
MBh 2.11.37
महाभागानमितधीर्ब्रह्मा लोकपितामहः
दयावान्सर्वभूतेषु यथार्हं प्रतिपद्यते
MBh 2.11.38
प्रतिगृह्य च विश्वात्मा स्वयंभूरमितप्रभः
सान्त्वमानार्थसंभोगैर्युनक्ति मनुजाधिप
MBh 2.11.39
तथा तैरुपयातैश्च प्रतियातैश्च भारत
आकुला सा सभा तात भवति स्म सुखप्रदा
MBh 2.11.40
सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता
ब्राह्म्या श्रिया दीप्यमाना शुशुभे विगतक्लमा
MBh 2.11.41
सा सभा तादृशी दृष्टा सर्वलोकेषु दुर्लभा
सभेयं राजशार्दूल मनुष्येषु यथा तव
MBh 2.11.42
एता मया दृष्टपूर्वाः सभा देवेषु पाण्डव
तवेयं मानुषे लोके सर्वश्रेष्ठतमा सभा
MBh 2.11.43
युधिष्ठिर उवाच
प्रायशो राजलोकस्ते कथितो वदतां वर
वैवस्वतसभायां तु यथा वदसि वै प्रभो
MBh 2.11.44
वरुणस्य सभायां तु नागास्ते कथिता विभो
दैत्येन्द्राश्चैव भूयिष्ठाः सरितः सागरास्तथा
MBh 2.11.45
तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा
गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः
MBh 2.11.46
पितामहसभायां तु कथितास्ते महर्षयः
सर्वदेवनिकायाश्च सर्वशास्त्राणि चैव हि
MBh 2.11.47
शतक्रतुसभायां तु देवाः संकीर्तिता मुने
उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः
MBh 2.11.48
एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने
कथितस्ते सभानित्यो देवेन्द्रस्य महात्मनः
MBh 2.11.49
किं कर्म तेनाचरितं तपो वा नियतव्रतम्
येनासौ सह शक्रेण स्पर्धते स्म महायशाः
MBh 2.11.50
पितृलोकगतश्चापि त्वया विप्र पिता मम
दृष्टः पाण्डुर्महाभागः कथं चासि समागतः
MBh 2.11.51
किमुक्तवांश्च भगवन्नेतदिच्छामि वेदितुम्
त्वत्तः श्रोतुमहं सर्वं परं कौतूहलं हि मे
MBh 2.11.52
नारद उवाच
यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो
तत्तेऽहं संप्रवक्ष्यामि माहात्म्यं तस्य धीमतः
MBh 2.11.53
स राजा बलवानासीत्सम्राट्सर्वमहीक्षिताम्
तस्य सर्वे महीपालाः शासनावनताः स्थिताः
MBh 2.11.54
तेनैकं रथमास्थाय जैत्रं हेमविभूषितम्
शस्त्रप्रतापेन जिता द्वीपाः सप्त नरेश्वर
MBh 2.11.55
स विजित्य महीं सर्वां सशैलवनकाननाम्
आजहार महाराज राजसूयं महाक्रतुम्
MBh 2.11.56
तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया
द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन्
MBh 2.11.57
प्रादाच्च द्रविणं प्रीत्या याजकानां नरेश्वरः
यथोक्तं तत्र तैस्तस्मिंस्ततः पञ्चगुणाधिकम्
MBh 2.11.58
अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तथा
प्रासर्पकाले संप्राप्ते नानादिग्भ्यः समागतान्
MBh 2.11.59
भक्ष्यैर्भोज्यैश्च विविधैर्यथाकामपुरस्कृतैः
रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम्
तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत्
MBh 2.11.60
एतस्मात्कारणात्पार्थ हरिश्चन्द्रो विराजते
तेभ्यो राजसहस्रेभ्यस्तद्विद्धि भरतर्षभ
MBh 2.11.61
समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान्
अभिषिक्तः स शुशुभे साम्राज्येन नराधिप
MBh 2.11.62
ये चान्येऽपि महीपाला राजसूयं महाक्रतुम्
यजन्ते ते महेन्द्रेण मोदन्ते सह भारत
MBh 2.11.63
ये चापि निधनं प्राप्ताः संग्रामेष्वपलायिनः
ते तत्सदः समासाद्य मोदन्ते भरतर्षभ
MBh 2.11.64
तपसा ये च तीव्रेण त्यजन्तीह कलेवरम्
तेऽपि तत्स्थानमासाद्य श्रीमन्तो भान्ति नित्यशः
MBh 2.11.65
पिता च त्वाह कौन्तेय पाण्डुः कौरवनन्दनः
हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः
MBh 2.11.66
समर्थोऽसि महीं जेतुं भ्रातरस्ते वशे स्थिताः
राजसूयं क्रतुश्रेष्ठमाहरस्वेति भारत
MBh 2.11.67
तस्य त्वं पुरुषव्याघ्र संकल्पं कुरु पाण्डव
गन्तारस्ते महेन्द्रस्य पूर्वैः सह सलोकताम्
MBh 2.11.68
बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान्
छिद्राण्यत्र हि वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः
MBh 2.11.69
युद्धं च पृष्ठगमनं पृथिवीक्षयकारकम्
किंचिदेव निमित्तं च भवत्यत्र क्षयावहम्
MBh 2.11.70
एतत्संचिन्त्य राजेन्द्र यत्क्षमं तत्समाचर
अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे
भव एधस्व मोदस्व दानैस्तर्पय च द्विजान्
MBh 2.11.71
एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि
आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति
MBh 2.11.72
वैशंपायन उवाच
एवमाख्याय पार्थेभ्यो नारदो जनमेजय
जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः
MBh 2.11.73
गते तु नारदे पार्थो भ्रातृभिः सह कौरव
राजसूयं क्रतुश्रेष्ठं चिन्तयामास भारत
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Sabhā-Parva chapter-index (72 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Sabhā-Parva Ch 10
- Next chapter · Sabhā-Parva Ch 12 →
Sources and Connected Readings
Continue from these 73 source-pinned Devanāgarī addresses to Sabhā-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 2.11local chapter route · Sabhā-ParvaSabhā-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷