🪷 Mahābhārata · Sabhā-Parva · Chapter 13
The Book of the Assembly Hall · Parva 2 · 68 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 68 Shlokas
MBh 2.13.1
श्रीकृष्ण उवाच
सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि
जानतस्त्वेव ते सर्वं किंचिद्वक्ष्यामि भारत
MBh 2.13.2
जामदग्न्येन रामेण क्षत्रं यदवशेषितम्
तस्मादवरजं लोके यदिदं क्षत्रसंज्ञितम्
MBh 2.13.3
कृतोऽयं कुलसंकल्पः क्षत्रियैर्वसुधाधिप
निदेशवाग्भिस्तत्ते ह विदितं भरतर्षभ
MBh 2.13.4
ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते
राजानः श्रेणिबद्धाश्च ततोऽन्ये क्षत्रिया भुवि
MBh 2.13.5
ऐलवंश्यास्तु ये राजंस्तथैवेक्ष्वाकवो नृपाः
तानि चैकशतं विद्धि कुलानि भरतर्षभ
MBh 2.13.6
ययातेस्त्वेव भोजानां विस्तरोऽतिगुणो महान्
भजते च महाराज विस्तरः स चतुर्दिशम्
MBh 2.13.7
तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते
सोऽवनीं मध्यमां भुक्त्वा मिथोभेदेष्वमन्यत
MBh 2.13.8
चतुर्युस्त्वपरो राजा यस्मिन्नेकशतोऽभवत्
स साम्राज्यं जरासंधः प्राप्तो भवति योनितः
MBh 2.13.9
तं स राजा महाप्राज्ञ संश्रित्य किल सर्वशः
राजन्सेनापतिर्जातः शिशुपालः प्रतापवान्
MBh 2.13.10
तमेव च महाराज शिष्यवत्समुपस्थितः
वक्रः करूषाधिपतिर्मायायोधी महाबलः
MBh 2.13.11
अपरौ च महावीर्यौ महात्मानौ समाश्रितौ
जरासंधं महावीर्यं तौ हंसडिभकावुभौ
MBh 2.13.12
दन्तवक्रः करूषश्च कलभो मेघवाहनः
मूर्ध्ना दिव्यं मणिं बिभ्रद्यं तं भूतमणिं विदुः
MBh 2.13.13
मुरं च नरकं चैव शास्ति यो यवनाधिपौ
अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा
MBh 2.13.14
भगदत्तो महाराज वृद्धस्तव पितुः सखा
स वाचा प्रणतस्तस्य कर्मणा चैव भारत
MBh 2.13.15
स्नेहबद्धस्तु पितृवन्मनसा भक्तिमांस्त्वयि
प्रतीच्यां दक्षिणं चान्तं पृथिव्याः पाति यो नृपः
MBh 2.13.16
मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः
स ते संनतिमानेकः स्नेहतः शत्रुतापनः
MBh 2.13.17
जरासंधं गतस्त्वेवं पुरा यो न मया हतः
पुरुषोत्तमविज्ञातो योऽसौ चेदिषु दुर्मतिः
MBh 2.13.18
आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम्
आदत्ते सततं मोहाद्यः स चिह्नं च मामकम्
MBh 2.13.19
वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः
पौण्ड्रको वासुदेवेति योऽसौ लोकेषु विश्रुतः
MBh 2.13.20
चतुर्युः स महाराज भोज इन्द्रसखो बली
विद्याबलाद्यो व्यजयत्पाण्ड्यक्रथककैशिकान्
MBh 2.13.21
भ्राता यस्याहृतिः शूरो जामदग्न्यसमो युधि
स भक्तो मागधं राजा भीष्मकः परवीरहा
MBh 2.13.22
प्रियाण्याचरतः प्रह्वान्सदा संबन्धिनः सतः
भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः
MBh 2.13.23
न कुलं न बलं राजन्नभिजानंस्तथात्मनः
पश्यमानो यशो दीप्तं जरासंधमुपाश्रितः
MBh 2.13.24
उदीच्यभोजाश्च तथा कुलान्यष्टादशाभिभो
जरासंधभयादेव प्रतीचीं दिशमाश्रिताः
MBh 2.13.25
शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः
सुस्थराश्च सुकुट्टाश्च कुणिन्दाः कुन्तिभिः सह
MBh 2.13.26
शाल्वेयानां च राजानः सोदर्यानुचरैः सह
दक्षिणा ये च पाञ्चालाः पूर्वाः कुन्तिषु कोशलाः
MBh 2.13.27
तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः
मत्स्याः संन्यस्तपादाश्च दक्षिणां दिशमाश्रिताः
MBh 2.13.28
तथैव सर्वपाञ्चाला जरासंधभयार्दिताः
स्वराष्ट्रं संपरित्यज्य विद्रुताः सर्वतोदिशम्
MBh 2.13.29
कस्यचित्त्वथ कालस्य कंसो निर्मथ्य बान्धवान्
बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः
MBh 2.13.30
अस्तिः प्राप्तिश्च नाम्ना ते सहदेवानुजेऽबले
बलेन तेन स ज्ञातीनभिभूय वृथामतिः
MBh 2.13.31
श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान्
भोजराजन्यवृद्धैस्तु पीड्यमानैर्दुरात्मना
MBh 2.13.32
ज्ञातित्राणमभीप्सद्भिरस्मत्संभावना कृता
दत्त्वाक्रूराय सुतनुं तामाहुकसुतां तदा
MBh 2.13.33
संकर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम्
हतौ कंससुनामानौ मया रामेण चाप्युत
MBh 2.13.34
भये तु समुपक्रान्ते जरासंधे समुद्यते
मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः
MBh 2.13.35
अनारमन्तो निघ्नन्तो महास्त्रैः शतघातिभिः
न हन्याम वयं तस्य त्रिभिर्वर्षशतैर्बलम्
MBh 2.13.36
तस्य ह्यमरसंकाशौ बलेन बलिनां वरौ
नामभ्यां हंसडिभकावित्यास्तां योधसत्तमौ
MBh 2.13.37
तावुभौ सहितौ वीरौ जरासंधश्च वीर्यवान्
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः
MBh 2.13.38
न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः
तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर
MBh 2.13.39
अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः
स चान्यैः सहितो राजन्संग्रामेऽष्टादशावरैः
MBh 2.13.40
हतो हंस इति प्रोक्तमथ केनापि भारत
तच्छ्रुत्वा डिभको राजन्यमुनाम्भस्यमज्जत
MBh 2.13.41
विना हंसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे
इत्येतां मतिमास्थाय डिभको निधनं गतः
MBh 2.13.42
तथा तु डिभकं श्रुत्वा हंसः परपुरंजयः
प्रपेदे यमुनामेव सोऽपि तस्यां न्यमज्जत
MBh 2.13.43
तौ स राजा जरासंधः श्रुत्वाप्सु निधनं गतौ
स्वपुरं शूरसेनानां प्रययौ भरतर्षभ
MBh 2.13.44
ततो वयममित्रघ्न तस्मिन्प्रतिगते नृपे
पुनरानन्दिताः सर्वे मथुरायां वसामहे
MBh 2.13.45
यदा त्वभ्येत्य पितरं सा वै राजीवलोचना
कंसभार्या जरासंधं दुहिता मागधं नृपम्
MBh 2.13.46
चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता
पतिघ्नं मे जहीत्येवं पुनः पुनररिंदम
MBh 2.13.47
ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम्
संस्मरन्तो विमनसो व्यपयाता नराधिप
MBh 2.13.48
पृथक्त्वेन द्रुता राजन्संक्षिप्य महतीं श्रियम्
प्रपतामो भयात्तस्य सधनज्ञातिबान्धवाः
MBh 2.13.49
इति संचिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः
कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम्
MBh 2.13.50
पुनर्निवेशनं तस्यां कृतवन्तो वयं नृप
तथैव दुर्गसंस्कारं देवैरपि दुरासदम्
MBh 2.13.51
स्त्रियोऽपि यस्यां युध्येयुः किं पुनर्वृष्णिपुंगवाः
तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः
MBh 2.13.52
आलोक्य गिरिमुख्यं तं माधवीतीर्थमेव च
माधवाः कुरुशार्दूल परां मुदमवाप्नुवन्
MBh 2.13.53
एवं वयं जरासंधादादितः कृतकिल्बिषाः
सामर्थ्यवन्तः संबन्धाद्भवन्तं समुपाश्रिताः
MBh 2.13.54
त्रियोजनायतं सद्म त्रिस्कन्धं योजनादधि
योजनान्ते शतद्वारं विक्रमक्रमतोरणम्
अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः
MBh 2.13.55
अष्टादश सहस्राणि व्रातानां सन्ति नः कुले
आहुकस्य शतं पुत्रा एकैकस्त्रिशतावरः
MBh 2.13.56
चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः
अहं च रौहिणेयश्च साम्बः शौरिसमो युधि
MBh 2.13.57
एवमेते रथाः सप्त राजन्नन्यान्निबोध मे
कृतवर्मा अनाधृष्टिः समीकः समितिंजयः
MBh 2.13.58
कह्वः शङ्कुर्निदान्तश्च सप्तैवैते महारथाः
पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश
MBh 2.13.59
लोकसंहनना वीरा वीर्यवन्तो महाबलाः
स्मरन्तो मध्यमं देशं वृष्णिमध्ये गतव्यथाः
MBh 2.13.60
स त्वं सम्राड्गुणैर्युक्तः सदा भरतसत्तम
क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत
MBh 2.13.61
न तु शक्यं जरासंधे जीवमाने महाबले
राजसूयस्त्वया प्राप्तुमेषा राजन्मतिर्मम
MBh 2.13.62
तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे
कन्दरायां गिरीन्द्रस्य सिंहेनेव महाद्विपाः
MBh 2.13.63
सोऽपि राजा जरासंधो यियक्षुर्वसुधाधिपैः
आराध्य हि महादेवं निर्जितास्तेन पार्थिवाः
MBh 2.13.64
स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान्
पुरमानीय बद्ध्वा च चकार पुरुषव्रजम्
MBh 2.13.65
वयं चैव महाराज जरासंधभयात्तदा
मथुरां संपरित्यज्य गता द्वारवतीं पुरीम्
MBh 2.13.66
यदि त्वेनं महाराज यज्ञं प्राप्तुमिहेच्छसि
यतस्व तेषां मोक्षाय जरासंधवधाय च
MBh 2.13.67
समारम्भो हि शक्योऽयं नान्यथा कुरुनन्दन
राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर
MBh 2.13.68
इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ
एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Sabhā-Parva chapter-index (72 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Sabhā-Parva Ch 12
- Next chapter · Sabhā-Parva Ch 14 →
Sources and Connected Readings
Continue from these 68 source-pinned Devanāgarī addresses to Sabhā-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 2.13local chapter route · Sabhā-ParvaSabhā-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷