🪷 Mahābhārata · Mauṣala-Parva · Chapter 5

The Book of the Clubs · Parva 16 · 25 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 25 Shlokas

MBh 16.5.1
वैशंपायन उवाच ततो ययुर्दारुकः केशवश्च; बभ्रुश्च रामस्य पदं पतन्तः अथापश्यन्राममनन्तवीर्यं; वृक्षे स्थितं चिन्तयानं विविक्ते
MBh 16.5.2
ततः समासाद्य महानुभावः; कृष्णस्तदा दारुकमन्वशासत् गत्वा कुरूञ्शीघ्रमिमं महान्तं; पार्थाय शंसस्व वधं यदूनाम्
MBh 16.5.3
ततोऽर्जुनः क्षिप्रमिहोपयातु; श्रुत्वा मृतान्यादवान्ब्रह्मशापात् इत्येवमुक्तः स ययौ रथेन; कुरूंस्तदा दारुको नष्टचेताः
MBh 16.5.4
ततो गते दारुके केशवोऽथ; दृष्ट्वान्तिके बभ्रुमुवाच वाक्यम् स्त्रियो भवान्रक्षतु यातु शीघ्रं; नैता हिंस्युर्दस्यवो वित्तलोभात्
MBh 16.5.5
स प्रस्थितः केशवेनानुशिष्टो; मदातुरो ज्ञातिवधार्दितश्च तं वै यान्तं संनिधौ केशवस्य; त्वरन्तमेकं सहसैव बभ्रुम् ब्रह्मानुशप्तमवधीन्महद्वै; कूटोन्मुक्तं मुसलं लुब्धकस्य
MBh 16.5.6
ततो दृष्ट्वा निहतं बभ्रुमाह; कृष्णो वाक्यं भ्रातरमग्रजं तु इहैव त्वं मां प्रतीक्षस्व राम; यावत्स्त्रियो ज्ञातिवशाः करोमि
MBh 16.5.7
ततः पुरीं द्वारवतीं प्रविश्य; जनार्दनः पितरं प्राह वाक्यम् स्त्रियो भवान्रक्षतु नः समग्रा; धनंजयस्यागमनं प्रतीक्षन् रामो वनान्ते प्रतिपालयन्मा;मास्तेऽद्याहं तेन समागमिष्ये
MBh 16.5.8
दृष्टं मयेदं निधनं यदूनां; राज्ञां च पूर्वं कुरुपुंगवानाम् नाहं विना यदुभिर्यादवानां; पुरीमिमां द्रष्टुमिहाद्य शक्तः
MBh 16.5.9
तपश्चरिष्यामि निबोध तन्मे; रामेण सार्धं वनमभ्युपेत्य इतीदमुक्त्वा शिरसास्य पादौ; संस्पृश्य कृष्णस्त्वरितो जगाम
MBh 16.5.10
ततो महान्निनदः प्रादुरासी;त्सस्त्रीकुमारस्य पुरस्य तस्य अथाब्रवीत्केशवः संनिवर्त्य; शब्दं श्रुत्वा योषितां क्रोशतीनाम्
MBh 16.5.11
पुरीमिमामेष्यति सव्यसाची; स वो दुःखान्मोचयिता नराग्र्यः ततो गत्वा केशवस्तं ददर्श; रामं वने स्थितमेकं विविक्ते
MBh 16.5.12
अथापश्यद्योगयुक्तस्य तस्य; नागं मुखान्निःसरन्तं महान्तम् श्वेतं ययौ स ततः प्रेक्ष्यमाणो; महार्णवो येन महानुभावः
MBh 16.5.13
सहस्रशीर्षः पर्वताभोगवर्ष्मा; रक्ताननः स्वां तनुं तां विमुच्य सम्यक्च तं सागरः प्रत्यगृह्णा;न्नागा दिव्याः सरितश्चैव पुण्याः
MBh 16.5.14
कर्कोटको वासुकिस्तक्षकश्च; पृथुश्रवा वरुणः कुञ्जरश्च मिश्री शङ्खः कुमुदः पुण्डरीक;स्तथा नागो धृतराष्ट्रो महात्मा
MBh 16.5.15
ह्रादः क्राथः शितिकण्ठोऽग्रतेजा;स्तथा नागौ चक्रमन्दातिषण्डौ नागश्रेष्ठो दुर्मुखश्चाम्बरीषः; स्वयं राजा वरुणश्चापि राजन् प्रत्युद्गम्य स्वागतेनाभ्यनन्दं;स्तेऽपूजयंश्चार्घ्यपाद्यक्रियाभिः
MBh 16.5.16
ततो गते भ्रातरि वासुदेवो; जानन्सर्वा गतयो दिव्यदृष्टिः वने शून्ये विचरंश्चिन्तयानो; भूमौ ततः संविवेशाग्र्यतेजाः
MBh 16.5.17
सर्वं हि तेन प्राक्तदा वित्तमासी;द्गान्धार्या यद्वाक्यमुक्तः स पूर्वम् दुर्वाससा पायसोच्छिष्टलिप्ते; यच्चाप्युक्तं तच्च सस्मार कृष्णः
MBh 16.5.18
स चिन्तयानोऽन्धकवृष्णिनाशं; कुरुक्षयं चैव महानुभावः मेने ततः संक्रमणस्य कालं; ततश्चकारेन्द्रियसंनिरोधम्
MBh 16.5.19
स संनिरुद्धेन्द्रियवाङ्मनास्तु; शिश्ये महायोगमुपेत्य कृष्णः जराथ तं देशमुपाजगाम; लुब्धस्तदानीं मृगलिप्सुरुग्रः
MBh 16.5.20
स केशवं योगयुक्तं शयानं; मृगाशङ्की लुब्धकः सायकेन जराविध्यत्पादतले त्वरावां;स्तं चाभितस्तज्जिघृक्षुर्जगाम अथापश्यत्पुरुषं योगयुक्तं; पीताम्बरं लुब्धकोऽनेकबाहुम्
MBh 16.5.21
मत्वात्मानमपराद्धं स तस्य; जग्राह पादौ शिरसा चार्तरूपः आश्वासयत्तं महात्मा तदानीं; गच्छन्नूर्ध्वं रोदसी व्याप्य लक्ष्म्या
MBh 16.5.22
दिवं प्राप्तं वासवोऽथाश्विनौ च; रुद्रादित्या वसवश्चाथ विश्वे प्रत्युद्ययुर्मुनयश्चापि सिद्धा; गन्धर्वमुख्याश्च सहाप्सरोभिः
MBh 16.5.23
ततो राजन्भगवानुग्रतेजा; नारायणः प्रभवश्चाव्ययश्च योगाचार्यो रोदसी व्याप्य लक्ष्म्या; स्थानं प्राप स्वं महात्माप्रमेयम्
MBh 16.5.24
ततो देवैरृषिभिश्चापि कृष्णः; समागतश्चारणैश्चैव राजन् गन्धर्वाग्र्यैरप्सरोभिर्वराभिः; सिद्धैः साध्यैश्चानतैः पूज्यमानः
MBh 16.5.25
ते वै देवाः प्रत्यनन्दन्त राज;न्मुनिश्रेष्ठा वाग्भिरानर्चुरीशम् गन्धर्वाश्चाप्युपतस्थुः स्तुवन्तः; प्रीत्या चैनं पुरुहूतोऽभ्यनन्दत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 25 source-pinned Devanāgarī addresses to Mauṣala-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 16.5local chapter route · Mauṣala-ParvaMauṣala-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷