🪷 Mahābhārata · Mauṣala-Parva · Chapter 4
The Book of the Clubs · Parva 16 · 46 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 46 Shlokas
MBh 16.4.1
वैशंपायन उवाच
काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि
स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति
MBh 16.4.2
अलंकाराश्च छत्रं च ध्वजाश्च कवचानि च
ह्रियमाणान्यदृश्यन्त रक्षोभिः सुभयानकैः
MBh 16.4.3
तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयस्मयम्
दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा
MBh 16.4.4
युक्तं रथं दिव्यमादित्यवर्णं; हयाहरन्पश्यतो दारुकस्य
ते सागरस्योपरिष्टादवर्त;न्मनोजवाश्चतुरो वाजिमुख्याः
MBh 16.4.5
तालः सुपर्णश्च महाध्वजौ तौ; सुपूजितौ रामजनार्दनाभ्याम्
उच्चैर्जह्रुरप्सरसो दिवानिशं; वाचश्चोचुर्गम्यतां तीर्थयात्रा
MBh 16.4.6
ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः
सान्तःपुरास्तदा तीर्थयात्रामैच्छन्नरर्षभाः
MBh 16.4.7
ततो भोज्यं च भक्ष्यं च पेयं चान्धकवृष्णयः
बहु नानाविधं चक्रुर्मद्यं मांसमनेकशः
MBh 16.4.8
ततः सीधुषु सक्ताश्च निर्ययुर्नगराद्बहिः
यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः
MBh 16.4.9
ततः प्रभासे न्यवसन्यथोद्देशं यथागृहम्
प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा
MBh 16.4.10
निविष्टांस्तान्निशम्याथ समुद्रान्ते स योगवित्
जगामामन्त्र्य तान्वीरानुद्धवोऽर्थविशारदः
MBh 16.4.11
तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम्
जानन्विनाशं वृष्णीनां नैच्छद्वारयितुं हरिः
MBh 16.4.12
ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः
अपश्यन्नुद्धवं यान्तं तेजसावृत्य रोदसी
MBh 16.4.13
ब्राह्मणार्थेषु यत्सिद्धमन्नं तेषां महात्मनाम्
तद्वानरेभ्यः प्रददुः सुरागन्धसमन्वितम्
MBh 16.4.14
ततस्तूर्यशताकीर्णं नटनर्तकसंकुलम्
प्रावर्तत महापानं प्रभासे तिग्मतेजसाम्
MBh 16.4.15
कृष्णस्य संनिधौ रामः सहितः कृतवर्मणा
अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च
MBh 16.4.16
ततः परिषदो मध्ये युयुधानो मदोत्कटः
अब्रवीत्कृतवर्माणमवहस्यावमन्य च
MBh 16.4.17
कः क्षत्रियो मन्यमानः सुप्तान्हन्यान्मृतानिव
न तन्मृष्यन्ति हार्दिक्य यादवा यत्त्वया कृतम्
MBh 16.4.18
इत्युक्ते युयुधानेन पूजयामास तद्वचः
प्रद्युम्नो रथिनां श्रेष्ठो हार्दिक्यमवमन्य च
MBh 16.4.19
ततः परमसंक्रुद्धः कृतवर्मा तमब्रवीत्
निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना
MBh 16.4.20
भूरिश्रवाश्छिन्नबाहुर्युद्धे प्रायगतस्त्वया
वधेन सुनृशंसेन कथं वीरेण पातितः
MBh 16.4.21
इति तस्य वचः श्रुत्वा केशवः परवीरहा
तिर्यक्सरोषया दृष्ट्या वीक्षां चक्रे स मन्युमान्
MBh 16.4.22
मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत्
तां कथां स्मारयामास सात्यकिर्मधुसूदनम्
MBh 16.4.23
तच्छ्रुत्वा केशवस्याङ्कमगमद्रुदती तदा
सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम्
MBh 16.4.24
तत उत्थाय सक्रोधः सात्यकिर्वाक्यमब्रवीत्
पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः
MBh 16.4.25
एष गच्छामि पदवीं सत्येन च तथा शपे
सौप्तिके ये च निहताः सुप्तानेन दुरात्मना
MBh 16.4.26
द्रोणपुत्रसहायेन पापेन कृतवर्मणा
समाप्तमायुरस्याद्य यशश्चापि सुमध्यमे
MBh 16.4.27
इतीदमुक्त्वा खड्गेन केशवस्य समीपतः
अभिद्रुत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः
MBh 16.4.28
तथान्यानपि निघ्नन्तं युयुधानं समन्ततः
अभ्यधावद्धृषीकेशो विनिवारयिषुस्तदा
MBh 16.4.29
एकीभूतास्ततः सर्वे कालपर्यायचोदिताः
भोजान्धका महाराज शैनेयं पर्यवारयन्
MBh 16.4.30
तान्दृष्ट्वा पततस्तूर्णमभिक्रुद्धाञ्जनार्दनः
न चुक्रोध महातेजा जानन्कालस्य पर्ययम्
MBh 16.4.31
ते तु पानमदाविष्टाश्चोदिताश्चैव मन्युना
युयुधानमथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा
MBh 16.4.32
हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः
तदन्तरमुपाधावन्मोक्षयिष्यञ्शिनेः सुतम्
MBh 16.4.33
स भोजैः सह संयुक्तः सात्यकिश्चान्धकैः सह
बहुत्वान्निहतौ तत्र उभौ कृष्णस्य पश्यतः
MBh 16.4.34
हतं दृष्ट्वा तु शैनेयं पुत्रं च यदुनन्दनः
एरकाणां तदा मुष्टिं कोपाज्जग्राह केशवः
MBh 16.4.35
तदभून्मुसलं घोरं वज्रकल्पमयोमयम्
जघान तेन कृष्णस्तान्येऽस्य प्रमुखतोऽभवन्
MBh 16.4.36
ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा
जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः
MBh 16.4.37
यस्तेषामेरकां कश्चिज्जग्राह रुषितो नृप
वज्रभूतेव सा राजन्नदृश्यत तदा विभो
MBh 16.4.38
तृणं च मुसलीभूतमपि तत्र व्यदृश्यत
ब्रह्मदण्डकृतं सर्वमिति तद्विद्धि पार्थिव
MBh 16.4.39
आविध्याविध्य ते राजन्प्रक्षिपन्ति स्म यत्तृणम्
तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम्
MBh 16.4.40
अवधीत्पितरं पुत्रः पिता पुत्रं च भारत
मत्ताः परिपतन्ति स्म पोथयन्तः परस्परम्
MBh 16.4.41
पतंगा इव चाग्नौ ते न्यपतन्कुकुरान्धकाः
नासीत्पलायने बुद्धिर्वध्यमानस्य कस्यचित्
MBh 16.4.42
तं तु पश्यन्महाबाहुर्जानन्कालस्य पर्ययम्
मुसलं समवष्टभ्य तस्थौ स मधुसूदनः
MBh 16.4.43
साम्बं च निहतं दृष्ट्वा चारुदेष्णं च माधवः
प्रद्युम्नं चानिरुद्धं च ततश्चुक्रोध भारत
MBh 16.4.44
गदं वीक्ष्य शयानं च भृशं कोपसमन्वितः
स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः
MBh 16.4.45
तं निघ्नन्तं महातेजा बभ्रुः परपुरंजयः
दारुकश्चैव दाशार्हमूचतुर्यन्निबोध तत्
MBh 16.4.46
भगवन्संहृतं सर्वं त्वया भूयिष्ठमच्युत
रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Mauṣala-Parva chapter-index (9 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Mauṣala-Parva Ch 3
- Next chapter · Mauṣala-Parva Ch 5 →
Sources and Connected Readings
Continue from these 46 source-pinned Devanāgarī addresses to Mauṣala-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 16.4local chapter route · Mauṣala-ParvaMauṣala-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷