🪷 Mahābhārata · Mauṣala-Parva · Chapter 4

The Book of the Clubs · Parva 16 · 46 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 46 Shlokas

MBh 16.4.1
[वै] काली सत्री पाण्डुरैर दन्तैः परविश्य हसती निशि सत्रियः सवप्नेषु मुष्णन्ती दवारकां परिधावति
MBh 16.4.2
अलंकाराश च छत्त्रं च धवजाश च कवचानि च हरियमाणान्य अदृश्यन्त रक्षॊभिः सुभयानकैः
MBh 16.4.3
तच चाग्ग्नि दत्तं कृष्णस्य वज्रनाभम अयॊ मयम दिवम आचक्रमे चक्रं वृष्णीनां पश्यतां तदा
MBh 16.4.4
युक्तं रथं दिव्यम आदित्यवर्णं; हयाहरन पश्यतॊ दारुकस्य ते सागरस्यॊपरिष्ठाद अवर्तन; मनॊजवाश चतुरॊ वाजिमुख्याः
MBh 16.4.5
तालः सुपर्णश च महाध्वजौ तौ; सुपूजितौ राम जनार्दनाभ्याम उच्चैर जह्रुर अप्सरसॊ दिवानिशं; वाचश चॊचुर गम्यतां तीर्थयात्रा
MBh 16.4.6
ततॊ जिगमिषन्तस ते वृष्ण्यन्धकमहारथाः सान्तःपुरास तदा तीर्थयात्राम ऐच्छन नरर्षभाः
MBh 16.4.7
ततॊ भॊज्यं च भक्ष्यां च पेयं चान्धकवृष्णयः बहु नानाविधं चक्रुर मद्यं मांसम अनेकशः
MBh 16.4.8
ततः सीधुषु सक्ताश च निर्यायुर नगराद बहिः यानैर अश्वैर गजैश चैव शरीमन्तस तिग्मतेजसः
MBh 16.4.9
ततः परभासे नयवसन यथॊद्देशं यथा गृहम परभूतभक्ष्यपेयस ते सदारा यादवास तदा
MBh 16.4.10
निविष्टांस तान निशम्याथ सांदुरान्ते स यॊगवित जगामामन्त्र्य तान वीरान उद्धवॊ ऽरथविशारदः
MBh 16.4.11
तं परस्थितं महात्मानम अभिवाद्य कृताञ्जलिम जानन विनाशं वृष्णीनां नैच्छद वारयितुं हरिः
MBh 16.4.12
ततः कालपरीतास ते वृष्ण्यन्धकमहारथाः अपश्यन्न उद्धवं यान्तं तेजसावृत्य रॊदसी
MBh 16.4.13
बराह्मणार्थेषु यत सिद्धम अन्नं तेषां महात्मनाम तद वानरेभ्यः परददुः सुरा गन्धसमन्वितम
MBh 16.4.14
ततस तूर्यशताकीर्णं नटनर्तक संकुलम परावर्तत महापानं परभासे तिग्मतेजसाम
MBh 16.4.15
कृष्णस्य संनिधौ रामः सहितः कृतवर्मणा अपिबद युयुधानश च गदॊ बभ्रुस तथैव च
MBh 16.4.16
ततः परिषदॊ मध्ये युयुधानॊ मदॊत्कटः अब्रवीत कृतवर्माणम अवहस्यावमन्य च
MBh 16.4.17
कः कषत्रियॊ मन्यमानः सुप्तान हन्यान मृतान इव न तन मृष्यन्ति हार्दिक्य यादवा यत तवया कृतम
MBh 16.4.18
इत्य उक्ते युयुधानेन पूजयाम आस तद वचः परद्युम्नॊ रथिनां शरेष्ठॊ हार्दिक्यम अवमन्य च
MBh 16.4.19
ततः परमसंक्रुद्धः कृतवर्मा तम अब्रवीत निर्दिशन्न इव सावज्ञं तदा सव्येन पाणिना
MBh 16.4.20
भूरिश्रवाश छिन्नबाहुर युद्धे परायगतस तवया वधेन सुनृशंसेन कथं वीरेण पातितः
MBh 16.4.21
इति तस्या वचः शरुत्वा केशवः परवीरहा तिर्यक सरॊषया दृष्ट्या वीक्षां चक्रे स मन्युमान
MBh 16.4.22
मणिः सयमन्तकश चैव यः स सत्राजितॊ ऽभवत तां कथां समारयाम आस सात्यकिर मधुसूदनम
MBh 16.4.23
तच छरुत्वा केशवस्याङ्गम अगमद रुदती तदा सत्यभामा परकुपिता कॊपयन्ती जनार्दनम
MBh 16.4.24
तत उत्थाय सक्रॊधः सात्यकिर वाक्यम अब्रवीत पञ्चानां दरौपदेयानां धृष्टद्युम्न शिखण्डिनॊः
MBh 16.4.25
एष गच्छामि पदवीं सत्येन च तथा शपे सौप्तिके ये च निहताः सुप्तानेन दुरात्मना
MBh 16.4.26
दरॊणपुत्र सहायेन पापेन कृतवर्मणा समाप्तम आयुर अस्याद्य यशश चापि सुमध्यमे
MBh 16.4.27
इतीदम उक्त्वा खड्गेन केशवस्य समीपतः अभिद्रुत्य शिरः करुद्धश चिच्छेद कृतवर्मणः
MBh 16.4.28
तथान्यान अपि निघ्नन्तं युयुधानं समन्ततः अभ्यधावद धृषीकेशॊ विनिवारयिषुस तदा
MBh 16.4.29
एकीभूतास ततः सर्वे कालपर्याय चॊदिताः भॊजान्धका महाराज शैनेयं पर्यवारयन
MBh 16.4.30
तान दृष्ट्वा पततस तूर्णम अभिक्रुद्धाञ जनार्दनः न चुक्रॊध महातेजा जानन कालस्य पर्ययम
MBh 16.4.31
ते तु पानमदाविष्टाश चॊदिताश चैव मन्युना युयुधानम अथाभ्यघ्नन्न उच्चिष्टैर भाजनैस तदा
MBh 16.4.32
हन्यमाने तु शैनेये करुद्धॊ रुक्मिणिनन्दनः तदन्तरम उपाधावन मॊक्षयिष्यञ शिनेः सुतम
MBh 16.4.33
स भॊजैः सह संयुक्तः सात्यकिश चान्धकैः सह बहुत्वान निहतौ तत्र उभौ कृष्णस्य पश्यतः
MBh 16.4.34
हतं दृष्ट्वा तु शैनेयं पुत्रं च यदुनन्दनः एरकाणां तदा मुष्टिं कॊपाज जग्राह केशवः
MBh 16.4.35
तद अभून मुसलं घॊरं वज्रकल्पम अयॊ मयम जघान तेन कृष्णस तान ये ऽसय परमुखतॊ ऽभवन
MBh 16.4.36
ततॊ ऽनधकाश च भॊजाश च शैनेया वृष्णयस तथा जघ्नुर अन्यॊन्यम आक्रन्दे मुसलैः कालचॊदिताः
MBh 16.4.37
यस तेषाम एरकां कश चिज जग्राह रुषितॊ नृप वज्रभूतेव सा राजन्न अदृश्यत तदा विभॊ
MBh 16.4.38
तृणं च मुसली भूतम अपि तत्र वयदृश्यत बरह्मा दण्डकृतं सर्वम इति तद विद्धि पार्थिव
MBh 16.4.39
आविध्याविध्य ते राजन परक्षिपन्ति सम यत तृणम तद वज्रभूतं मुसलं वयदृश्यन्त तदा दृढम
MBh 16.4.40
अवधीत पितरं पुत्रः पिता पुत्रं च भारत मत्ताः परिपतन्ति सम पॊथयन्तः परस्परम
MBh 16.4.41
पतंगा इव चाग्नौ ते नयपतन कुकुरान्धकाः नासीत पलायने बुद्धिर वध्यमानस्य कस्य चित
MBh 16.4.42
तं तु पश्यन महाबाहुर जानन कालस्य पर्ययम मुसलं सामवष्टभ्य तस्थौ स मधुसूदनः
MBh 16.4.43
साम्बं च निहतं दृष्ट्वा चारुदेष्णं च माधवः परद्युम्नं चानिरुद्धं च ततश चुक्रॊध भारत
MBh 16.4.44
गदं वीक्ष्य शयानं च भृशं कॊपसमन्वितः स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः
MBh 16.4.45
तं निघ्नन्तं महातेजा बभ्रुः परपुरंजयः दारुकश चैव दाशार्हम ऊचतुर यन निबॊध तत
MBh 16.4.46
भगवन संहृतं सर्वं तवया भूयिष्ठम अच्युत रामस्य पदम अन्विच्छ तत्र गच्छाम यत्र सः

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷