🪷 Mahābhārata · Mauṣala-Parva · Chapter 3

The Book of the Clubs · Parva 16 · 22 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 22 Shlokas

MBh 16.3.1
वैशंपायन उवाच एवं प्रयतमानानां वृष्णीनामन्धकैः सह कालो गृहाणि सर्वेषां परिचक्राम नित्यशः
MBh 16.3.2
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः गृहाण्यवेक्ष्य वृष्णीनां नादृश्यत पुनः क्वचित्
MBh 16.3.3
उत्पेदिरे महावाता दारुणाश्चा दिने दिने वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः
MBh 16.3.4
विवृद्धमूषका रथ्या विभिन्नमणिकास्तथा चीचीकूचीति वाश्यन्त्यः सारिका वृष्णिवेश्मसु नोपशाम्यति शब्दश्च स दिवारात्रमेव हि
MBh 16.3.5
अनुकुर्वन्नुलूकानां सारसा विरुतं तथा अजाः शिवानां च रुतमन्वकुर्वत भारत
MBh 16.3.6
पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा
MBh 16.3.7
व्यजायन्त खरा गोषु करभाश्वतरीषु च शुनीष्वपि बिडालाश्च मूषका नकुलीषु च
MBh 16.3.8
नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तदा प्राद्विषन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च
MBh 16.3.9
गुरूंश्चाप्यवमन्यन्त न तु रामजनार्दनौ पत्न्यः पतीन्व्युच्चरन्त पत्नीश्च पतयस्तथा
MBh 16.3.10
विभावसुः प्रज्वलितो वामं विपरिवर्तते नीललोहितमाञ्जिष्ठा विसृजन्नर्चिषः पृथक्
MBh 16.3.11
उदयास्तमने नित्यं पुर्यां तस्यां दिवाकरः व्यदृश्यतासकृत्पुंभिः कबन्धैः परिवारितः
MBh 16.3.12
महानसेषु सिद्धेऽन्ने संस्कृतेऽतीव भारत आहार्यमाणे कृमयो व्यदृश्यन्त नराधिप
MBh 16.3.13
पुण्याहे वाच्यमाने च जपत्सु च महात्मसु अभिधावन्तः श्रूयन्ते न चादृश्यत कश्चन
MBh 16.3.14
परस्परं च नक्षत्रं हन्यमानं पुनः पुनः ग्रहैरपश्यन्सर्वे ते नात्मनस्तु कथंचन
MBh 16.3.15
नदन्तं पाञ्चजन्यं च वृष्ण्यन्धकनिवेशने समन्तात्प्रत्यवाश्यन्त रासभा दारुणस्वराः
MBh 16.3.16
एवं पश्यन्हृषीकेशः संप्राप्तं कालपर्ययम् त्रयोदश्याममावास्यां तां दृष्ट्वा प्राब्रवीदिदम्
MBh 16.3.17
चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः तदा च भारते युद्धे प्राप्ता चाद्य क्षयाय नः
MBh 16.3.18
विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः
MBh 16.3.19
पुत्रशोकाभिसंतप्ता गान्धारी हतबान्धवा यदनुव्याजहारार्ता तदिदं समुपागतम्
MBh 16.3.20
इदं च तदनुप्राप्तमब्रवीद्यद्युधिष्ठिरः पुरा व्यूढेष्वनीकेषु दृष्ट्वोत्पातान्सुदारुणान्
MBh 16.3.21
इत्युक्त्वा वासुदेवस्तु चिकीर्षन्सत्यमेव तत् आज्ञापयामास तदा तीर्थयात्रामरिंदम
MBh 16.3.22
अघोषयन्त पुरुषास्तत्र केशवशासनात् तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 22 source-pinned Devanāgarī addresses to Mauṣala-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 16.3local chapter route · Mauṣala-ParvaMauṣala-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷