🪷 Mahābhārata · Mauṣala-Parva · Chapter 2
The Book of the Clubs · Parva 16 · 20 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 20 Shlokas
MBh 16.2.1
[ज]
कथं विनष्टा भगवन्न अन्धका वृष्णिभिः सह
पश्यतॊ वासुदेवस्य भॊजाश चैव महारथाः
MBh 16.2.2
[वै]
षट तरिंशे ऽथ ततॊ वर्षे वृष्णीनाम अनयॊ महान
अन्यॊन्यं मुसलैस ते तु निजघ्नुः कालचॊदिताः
MBh 16.2.3
[ज]
केनानुशप्तास ते वीराः कषयं वृष्ण्यन्धका ययुः
भॊजाश च दविजवर्यत्वं विस्तरेण वदस्व मे
MBh 16.2.4
[वै]
विश्वामित्रं च कण्वं च नारदं च तपॊधनम
सारण परमुखा वीरा ददृशुर दवारकागतान
MBh 16.2.5
ते वै साम्बं पुरस्कृत्य भूषयित्वा सत्रियं यथा
अब्रुवन्न उपसंगम्य दैवदण्डनिपीडिताः
MBh 16.2.6
इयं सत्री पुत्र कामस्य बभ्रॊर अमिततेजसः
ऋषयः साधु जानीत किम इयं जनयिष्यति
MBh 16.2.7
इत्य उक्तास ते तदा राजन विप्रलम्भ परधर्षिताः
परत्यब्रुवंस तान मुनयॊ यत तच छृणु नराधिप
MBh 16.2.8
वृष्ण्यन्धकविनाशाय मुसलं घॊरम आयसम
वासुदेवस्य दायादाः साम्बॊ ऽयं जनयिष्यति
MBh 16.2.9
येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः
उच्छेतारः कुलं कृत्स्नम ऋते राम जनार्दनौ
MBh 16.2.10
समुद्रं यास्यति शरीमांस तयक्त्वा देहं हलायुधः
जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति
MBh 16.2.11
इत्य अब्रुवन्त ते राजन परलब्धास तैर दुरात्मभिः
मुनयः करॊधरक्ताक्षाः समीक्ष्याथ परस्परम
MBh 16.2.12
तथॊक्ता मुनयस ते तु ततः केशवम अभ्ययुः
MBh 16.2.13
अथाब्रवीत तदा वृष्णीञ शरुत्वैवं मधुसूदनः
अन्तज्ञॊ मतिमांस तस्य भवितव्यं तथेति तान
MBh 16.2.14
एवम उक्त्वा हृषीकेशः परविवेश पुनर गृहान
कृतान्तम अन्यथा नैच्छत कर्तुं स जगतः परभुः
MBh 16.2.15
शवॊभूते ऽथ ततः साम्बॊ मुसालं तद असूत वै
वृष्ण्यन्धाक विनाशाय किंकरप्रतिमं महत
MBh 16.2.16
परसूतं शापजं घॊरं तच च राज्ञे नयवेदयन
विषण्णरूपस तद राजा सूक्ष्मं चूर्णम अकारयत
MBh 16.2.17
पराक्षिपन सागरे तच च पुरुषा राजशासनात
अघॊषयंश च नगरे वचनाद आहुकस्य च
MBh 16.2.18
अद्य परभृति सर्वेषु वृष्ण्यन्धकगृहेष्व इह
सुरासवॊ न कर्तव्यः सर्वैर नगरवासिभिः
MBh 16.2.19
यश च नॊ ऽविदितं कुर्यात पेयं कश चिन नरः कव चित
जीवन स शूलम आरॊहेत सवयं कृत्वा सबान्धवः
MBh 16.2.20
ततॊ राजभयात सर्वे नियमं चक्रिरे तदा
नराः शासनम आज्ञाय तस्य राज्ञॊ महात्मनः
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Mauṣala-Parva chapter-index (9 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Mauṣala-Parva Ch 1
- Next chapter · Mauṣala-Parva Ch 3 →
🪷 जय व्यास भगवान् 🪷