🪷 Mahābhārata · Karṇa-Parva · Chapter 67
The Book of Karṇa · Parva 8 · 37 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 37 Shlokas
MBh 8.67.1
संजय उवाच
अथाब्रवीद्वासुदेवो रथस्थो; राधेय दिष्ट्या स्मरसीह धर्मम्
प्रायेण नीचा व्यसनेषु मग्ना; निन्दन्ति दैवं कुकृतं न तत्तत्
MBh 8.67.2
यद्द्रौपदीमेकवस्त्रां सभाया;मानाय्य त्वं चैव सुयोधनश्च
दुःशासनः शकुनिः सौबलश्च; न ते कर्ण प्रत्यभात्तत्र धर्मः
MBh 8.67.3
यदा सभायां कौन्तेयमनक्षज्ञं युधिष्ठिरम्
अक्षज्ञः शकुनिर्जेता तदा धर्मः क्व ते गतः
MBh 8.67.4
यदा रजस्वलां कृष्णां दुःशासनवशे स्थिताम्
सभायां प्राहसः कर्ण क्व ते धर्मस्तदा गतः
MBh 8.67.5
राज्यलुब्धः पुनः कर्ण समाह्वयसि पाण्डवम्
गान्धारराजमाश्रित्य क्व ते धर्मस्तदा गतः
MBh 8.67.6
एवमुक्ते तु राधेये वासुदेवेन पाण्डवम्
मन्युरभ्याविशत्तीव्रः स्मृत्वा तत्तद्धनंजयम्
MBh 8.67.7
तस्य क्रोधेन सर्वेभ्यः स्रोतोभ्यस्तेजसोऽर्चिषः
प्रादुरासन्महाराज तदद्भुतमिवाभवत्
MBh 8.67.8
तं समीक्ष्य ततः कर्णो ब्रह्मास्त्रेण धनंजयम्
अभ्यवर्षत्पुनर्यत्नमकरोद्रथसर्जने
तदस्त्रमस्त्रेणावार्य प्रजहारास्य पाण्डवः
MBh 8.67.9
ततोऽन्यदस्त्रं कौन्तेयो दयितं जातवेदसः
मुमोच कर्णमुद्दिश्य तत्प्रजज्वाल वै भृशम्
MBh 8.67.10
वारुणेन ततः कर्णः शमयामास पावकम्
जीमूतैश्च दिशः सर्वाश्चक्रे तिमिरदुर्दिनाः
MBh 8.67.11
पाण्डवेयस्त्वसंभ्रान्तो वायव्यास्त्रेण वीर्यवान्
अपोवाह तदाभ्राणि राधेयस्य प्रपश्यतः
MBh 8.67.12
तं हस्तिकक्ष्याप्रवरं च बाणैः; सुवर्णमुक्तामणिवज्रमृष्टम्
कालप्रयत्नोत्तमशिल्पियत्नैः; कृतं सुरूपं वितमस्कमुच्चैः
MBh 8.67.13
ऊर्जस्करं तव सैन्यस्य नित्य;ममित्रवित्रासनमीड्यरूपम्
विख्यातमादित्यसमस्य लोके; त्विषा समं पावकभानुचन्द्रैः
MBh 8.67.14
ततः क्षुरेणाधिरथेः किरीटी; सुवर्णपुङ्खेन शितेन यत्तः
श्रिया ज्वलन्तं ध्वजमुन्ममाथ; महारथस्याधिरथेर्महात्मा
MBh 8.67.15
यशश्च धर्मश्च जयश्च मारिष; प्रियाणि सर्वाणि च तेन केतुना
तदा कुरूणां हृदयानि चापत;न्बभूव हाहेति च निस्वनो महान्
MBh 8.67.16
अथ त्वरन्कर्णवधाय पाण्डवो; महेन्द्रवज्रानलदण्डसंनिभम्
आदत्त पार्थोऽञ्जलिकं निषङ्गा;त्सहस्ररश्मेरिव रश्मिमुत्तमम्
MBh 8.67.17
मर्मच्छिदं शोणितमांसदिग्धं; वैश्वानरार्कप्रतिमं महार्हम्
नराश्वनागासुहरं त्र्यरत्निं; षड्वाजमञ्जोगतिमुग्रवेगम्
MBh 8.67.18
सहस्रनेत्राशनितुल्यतेजसं; समानक्रव्यादमिवातिदुःसहम्
पिनाकनारायणचक्रसंनिभं; भयंकरं प्राणभृतां विनाशनम्
MBh 8.67.19
युक्त्वा महास्त्रेण परेण मन्त्रवि;द्विकृष्य गाण्डीवमुवाच सस्वनम्
अयं महास्त्रोऽप्रतिमो धृतः शरः; शरीरभिच्चासुहरश्च दुर्हृदः
MBh 8.67.20
तपोऽस्ति तप्तं गुरवश्च तोषिता; मया यदिष्टं सुहृदां तथा श्रुतम्
अनेन सत्येन निहन्त्वयं शरः; सुदंशितः कर्णमरिं ममाजितः
MBh 8.67.21
इत्यूचिवांस्तं स मुमोच बाणं; धनंजयः कर्णवधाय घोरम्
कृत्यामथर्वाङ्गिरसीमिवोग्रां; दीप्तामसह्यां युधि मृत्युनापि
MBh 8.67.22
ब्रुवन्किरीटी तमतिप्रहृष्टो; अयं शरो मे विजयावहोऽस्तु
जिघांसुरर्केन्दुसमप्रभावः; कर्णं समाप्तिं नयतां यमाय
MBh 8.67.23
तेनेषुवर्येण किरीटमाली; प्रहृष्टरूपो विजयावहेन
जिघांसुरर्केन्दुसमप्रभेण; चक्रे विषक्तं रिपुमाततायी
MBh 8.67.24
तदुद्यतादित्यसमानवर्चसं; शरन्नभोमध्यगभास्करोपमम्
वराङ्गमुर्व्यामपतच्चमूपते;र्दिवाकरोऽस्तादिव रक्तमण्डलः
MBh 8.67.25
तदस्य देही सततं सुखोदितं; स्वरूपमत्यर्थमुदारकर्मणः
परेण कृच्छ्रेण शरीरमत्यज;द्गृहं महर्द्धीव ससङ्गमीश्वरः
MBh 8.67.26
शरैर्विभुग्नं व्यसु तद्विवर्मणः; पपात कर्णस्य शरीरमुच्छ्रितम्
स्रवद्व्रणं गैरिकतोयविस्रवं; गिरेर्यथा वज्रहतं शिरस्तथा
MBh 8.67.27
देहात्तु कर्णस्य निपातितस्य; तेजो दीप्तं खं विगाह्याचिरेण
तदद्भुतं सर्वमनुष्ययोधाः; पश्यन्ति राजन्निहते स्म कर्णे
MBh 8.67.28
तं सोमकाः प्रेक्ष्य हतं शयानं; प्रीता नादं सह सैन्यैरकुर्वन्
तूर्याणि चाजघ्नुरतीव हृष्टा; वासांसि चैवादुधुवुर्भुजांश्च
बलान्विताश्चाप्यपरे ह्यनृत्य;न्नन्योन्यमाश्लिष्य नदन्त ऊचुः
MBh 8.67.29
दृष्ट्वा तु कर्णं भुवि निष्टनन्तं; हतं रथात्सायकेनावभिन्नम्
महानिलेनाग्निमिवापविद्धं; यज्ञावसाने शयने निशान्ते
MBh 8.67.30
शरैराचितसर्वाङ्गः शोणितौघपरिप्लुतः
विभाति देहः कर्णस्य स्वरश्मिभिरिवांशुमान्
MBh 8.67.31
प्रताप्य सेनामामित्रीं दीप्तैः शरगभस्तिभिः
बलिनार्जुनकालेन नीतोऽस्तं कर्णभास्करः
MBh 8.67.32
अस्तं गच्छन्यथादित्यः प्रभामादाय गच्छति
एवं जीवितमादाय कर्णस्येषुर्जगाम ह
MBh 8.67.33
अपराह्णे पराह्णस्य सूतपुत्रस्य मारिष
छिन्नमञ्जलिकेनाजौ सोत्सेधमपतच्छिरः
MBh 8.67.34
उपर्युपरि सैन्यानां तस्य शत्रोस्तदञ्जसा
शिरः कर्णस्य सोत्सेधमिषुः सोऽपाहरद्द्रुतम्
MBh 8.67.35
संजय उवाच
कर्णं तु शूरं पतितं पृथिव्यां; शराचितं शोणितदिग्धगात्रम्
दृष्ट्वा शयानं भुवि मद्रराज;श्छिन्नध्वजेनापययौ रथेन
MBh 8.67.36
कर्णे हते कुरवः प्राद्रवन्त; भयार्दिता गाढविद्धाश्च संख्ये
अवेक्षमाणा मुहुरर्जुनस्य; ध्वजं महान्तं वपुषा ज्वलन्तम्
MBh 8.67.37
सहस्रनेत्रप्रतिमानकर्मणः; सहस्रपत्रप्रतिमाननं शुभम्
सहस्ररश्मिर्दिनसंक्षये यथा; तथापतत्तस्य शिरो वसुंधराम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 66
- Next chapter · Karṇa-Parva Ch 68 →
Sources and Connected Readings
Continue from these 37 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.67local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷