🪷 Mahābhārata · Karṇa-Parva · Chapter 68
The Book of Karṇa · Parva 8 · 63 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 63 Shlokas
MBh 8.68.1
संजय उवाच
शल्यस्तु कर्णार्जुनयोर्विमर्दे; बलानि दृष्ट्वा मृदितानि बाणैः
दुर्योधनं यान्तमवेक्षमाणो; संदर्शयद्भारत युद्धभूमिम्
MBh 8.68.2
निपातितस्यन्दनवाजिनागं; दृष्ट्वा बलं तद्धतसूतपुत्रम्
दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो; मुहुर्मुहुर्न्यश्वसदार्तरूपः
MBh 8.68.3
कर्णं तु शूरं पतितं पृथिव्यां; शराचितं शोणितदिग्धगात्रम्
यदृच्छया सूर्यमिवावनिस्थं; दिदृक्षवः संपरिवार्य तस्थुः
MBh 8.68.4
प्रहृष्टवित्रस्तविषण्णविस्मृता;स्तथापरे शोकगता इवाभवन्
परे त्वदीयाश्च परस्परेण; यथा यथैषां प्रकृतिस्तथाभवन्
MBh 8.68.5
प्रविद्धवर्माभरणाम्बरायुधं; धनंजयेनाभिहतं हतौजसम्
निशम्य कर्णं कुरवः प्रदुद्रुवु;र्हतर्षभा गाव इवाकुलाकुलाः
MBh 8.68.6
कृत्वा विमर्दं भृशमर्जुनेन; कर्णं हतं केसरिणेव नागम्
दृष्ट्वा शयानं भुवि मद्रराजो; भीतोऽपसर्पत्सरथः सुशीघ्रम्
MBh 8.68.7
मद्राधिपश्चापि विमूढचेता;स्तूर्णं रथेनापहृतध्वजेन
दुर्योधनस्यान्तिकमेत्य शीघ्रं; संभाष्य दुःखार्तमुवाच वाक्यम्
MBh 8.68.8
विशीर्णनागाश्वरथप्रवीरं; बलं त्वदियं यमराष्ट्रकल्पम्
अन्योन्यमासाद्य हतं महद्भि;र्नराश्वनागैर्गिरिकूटकल्पैः
MBh 8.68.9
नैतादृशं भारत युद्धमासी;द्यथाद्य कर्णार्जुनयोर्बभूव
ग्रस्तौ हि कर्णेन समेत्य कृष्णा;वन्ये च सर्वे तव शत्रवो ये
MBh 8.68.10
दैवं तु यत्तत्स्ववशं प्रवृत्तं; तत्पाण्डवान्पाति हिनस्ति चास्मान्
तवार्थसिद्ध्यर्थकरा हि सर्वे; प्रसह्य वीरा निहता द्विषद्भिः
MBh 8.68.11
कुबेरवैवस्वतवासवानां; तुल्यप्रभावाम्बुपतेश्च वीराः
वीर्येण शौर्येण बलेन चैव; तैस्तैश्च युक्ता विपुलैर्गुणौघैः
MBh 8.68.12
अवध्यकल्पा निहता नरेन्द्रा;स्तवार्थकामा युधि पाण्डवेयैः
तन्मा शुचो भारत दिष्टमेत;त्पर्यायसिद्धिर्न सदास्ति सिद्धिः
MBh 8.68.13
एतद्वचो मद्रपतेर्निशम्य; स्वं चापनीतं मनसा निरीक्ष्य
दुर्योधनो दीनमना विसंज्ञः; पुनः पुनर्न्यश्वसदार्तरूपः
MBh 8.68.14
तं ध्यानमूकं कृपणं भृशार्त;मार्तायनिर्दीनमुवाच वाक्यम्
पश्येदमुग्रं नरवाजिनागै;रायोधनं वीरहतैः प्रपन्नम्
MBh 8.68.15
महीधराभैः पतितैर्महागजैः; सकृत्प्रविद्धैः शरविद्धमर्मभिः
तैर्विह्वलद्भिश्च गतासुभिश्च; प्रध्वस्तयन्त्रायुधवर्मयोधैः
MBh 8.68.16
वज्रापविद्धैरिव चाचलेन्द्रै;र्विभिन्नपाषाणमृगद्रुमौषधैः
प्रविद्धघण्टाङ्कुशतोमरध्वजैः; सहेममालै रुधिरौघसंप्लुतैः
MBh 8.68.17
शरावभिन्नैः पतितैश्च वाजिभिः; श्वसद्भिरन्यैः क्षतजं वमद्भिः
दीनैः स्तनद्भिः परिवृत्तनेत्रै;र्महीं दशद्भिः कृपणं नदद्भिः
MBh 8.68.18
तथापविद्धैर्गजवाजियोधै;र्मन्दासुभिश्चैव गतासुभिश्च
नराश्वनागैश्च रथैश्च मर्दितै;र्मही महावैतरणीव दुर्दृशा
MBh 8.68.19
गजैर्निकृत्तापरहस्तगात्रै;रुद्वेपमानैः पतितैः पृथिव्याम्
यशस्विभिर्नागरथाश्वयोधिभिः; पदातिभिश्चाभिमुखैर्हतैः परैः
विशीर्णवर्माभरणाम्बरायुधै;र्वृता निशान्तैरिव पावकैर्मही
MBh 8.68.20
शरप्रहाराभिहतैर्महाबलै;रवेक्ष्यमाणैः पतितैः सहस्रशः
प्रनष्टसंज्ञैः पुनरुच्छ्वसद्भि;र्मही बभूवानुगतैरिवाग्निभिः
दिवश्च्युतैर्भूरतिदीप्तिमद्भि;र्नक्तं ग्रहैर्द्यौरमलेव दीप्तैः
MBh 8.68.21
शरास्तु कर्णार्जुनबाहुमुक्ता; विदार्य नागाश्वमनुष्यदेहान्
प्राणान्निरस्याशु महीमतीयु;र्महोरगा वासमिवाभितोऽस्त्रैः
MBh 8.68.22
हतैर्मनुष्याश्वगजैश्च संख्ये; शरावभिन्नैश्च रथैर्बभूव
धनंजयस्याधिरथेश्च मार्गे; गजैरगम्या वसुधातिदुर्गा
MBh 8.68.23
रथैर्वरेषून्मथितैश्च योधैः; संस्यूतसूताश्ववरायुधध्वजैः
विशीर्णशस्त्रैर्विनिकृत्तबन्धुरै;र्निकृत्तचक्राक्षयुगत्रिवेणुभिः
MBh 8.68.24
विमुक्तयन्त्रैर्निहतैरयस्मयै;र्हतानुषङ्गैर्विनिषङ्गबन्धुरैः
प्रभग्ननीडैर्मणिहेममण्डितैः; स्तृता मही द्यौरिव शारदैर्घनैः
MBh 8.68.25
विकृष्यमणैर्जवनैरलंकृतै;र्हतेश्वरैराजिरथैः सुकल्पितैः
मनुष्यमातङ्गरथाश्वराशिभि;र्द्रुतं व्रजन्तो बहुधा विचूर्णिताः
MBh 8.68.26
सहेमपट्टाः परिघाः परश्वधाः; कडङ्गरायोमुसलानि पट्टिशाः
पेतुश्च खड्गा विमला विकोशा; गदाश्च जाम्बूनदपट्टबद्धाः
MBh 8.68.27
चापानि रुक्माङ्गदभूषणानि; शराश्च कार्तस्वरचित्रपुङ्खाः
ऋष्ट्यश्च पीता विमला विकोशाः; प्रासाः सखड्गाः कनकावभासाः
MBh 8.68.28
छत्राणि वालव्यजनानि शङ्खाः; स्रजश्च पुष्पोत्तमहेमचित्राः
कुथाः पताकाम्बरवेष्टिताश्च; किरीटमाला मुकुटाश्च शुभ्राः
MBh 8.68.29
प्रकीर्णका विप्रकीर्णाः कुथाश्च; प्रधानमुक्तातरलाश्च हाराः
आपीडकेयूरवराङ्गदानि; ग्रैवेयनिष्काः ससुवर्णसूत्राः
MBh 8.68.30
मण्युत्तमा वज्रसुवर्णमुक्ता; रत्नानि चोच्चावचमङ्गलानि
गात्राणि चात्यन्तसुखोचितानि; शिरांसि चेन्दुप्रतिमाननानि
MBh 8.68.31
देहांश्च भोगांश्च परिच्छदांश्च; त्यक्त्वा मनोज्ञानि सुखानि चापि
स्वधर्मनिष्ठां महतीमवाप्य; व्याप्तांश्च लोकान्यशसा समीयुः
MBh 8.68.32
इत्येवमुक्त्वा विरराम शल्यो; दुर्योधनः शोकपरीतचेताः
हा कर्ण हा कर्ण इति ब्रुवाण; आर्तो विसंज्ञो भृशमश्रुनेत्रः
MBh 8.68.33
तं द्रोणपुत्रप्रमुखा नरेन्द्राः; सर्वे समाश्वास्य सह प्रयान्ति
निरीक्षमाणा मुहुरर्जुनस्य; ध्वजं महान्तं यशसा ज्वलन्तम्
MBh 8.68.34
नराश्वमातङ्गशरीरजेन; रक्तेन सिक्ता रुधिरेण भूमिः
रक्ताम्बरस्रक्तपनीययोगा;न्नारी प्रकाशा इव सर्वगम्या
MBh 8.68.35
प्रच्छन्नरूपा रुधिरेण राज;न्रौद्रे मुहूर्तेऽतिविराजमानाः
नैवावतस्थुः कुरवः समीक्ष्य; प्रव्राजिता देवलोकाश्च सर्वे
MBh 8.68.36
वधेन कर्णस्य सुदुःखितास्ते; हा कर्ण हा कर्ण इति ब्रुवाणाः
द्रुतं प्रयाताः शिबिराणि राज;न्दिवाकरं रक्तमवेक्षमाणाः
MBh 8.68.37
गाण्डीवमुक्तैस्तु सुवर्णपुङ्खैः; शितैः शरैः शोणितदिग्धवाजैः
शरैश्चिताङ्गो भुवि भाति कर्णो; हतोऽपि सन्सूर्य इवांशुमाली
MBh 8.68.38
कर्णस्य देहं रुधिरावसिक्तं; भक्तानुकम्पी भगवान्विवस्वान्
स्पृष्ट्वा करैर्लोहितरक्तरूपः; सिष्णासुरभ्येति परं समुद्रम्
MBh 8.68.39
इतीव संचिन्त्य सुरर्षिसंघाः; संप्रस्थिता यान्ति यथानिकेतम्
संचिन्तयित्वा च जना विसस्रु;र्यथासुखं खं च महीतलं च
MBh 8.68.40
तदद्भुतं प्राणभृतां भयंकरं; निशम्य युद्धं कुरुवीरमुख्ययोः
धनंजयस्याधिरथेश्च विस्मिताः; प्रशंसमानाः प्रययुस्तदा जनाः
MBh 8.68.41
शरैः संकृत्तवर्माणं वीरं विशसने हतम्
गतासुमपि राधेयं नैव लक्ष्मीर्व्यमुञ्चत
MBh 8.68.42
नानाभरणवान्राजन्मृष्टजाम्बूनदाङ्गदः
हतो वैकर्तनः शेते पादपोऽङ्कुरवानिव
MBh 8.68.43
कनकोत्तमसंकाशः प्रदीप्त इव पावकः
सपुत्रः पुरुषव्याघ्रः संशान्तः पार्थतेजसा
प्रताप्य पाण्डवान्राजन्पाञ्चालांश्चास्त्रतेजसा
MBh 8.68.44
ददानीत्येव योऽवोचन्न नास्तीत्यर्थितोऽर्थिभिः
सद्भिः सदा सत्पुरुषः स हतो द्वैरथे वृषः
MBh 8.68.45
यस्य ब्राह्मणसात्सर्वमात्मार्थं न महात्मनः
नादेयं ब्राह्मणेष्वासीद्यस्य स्वमपि जीवितम्
MBh 8.68.46
सदा नॄणां प्रियो दाता प्रियदानो दिवं गतः
आदाय तव पुत्राणां जयाशां शर्म वर्म च
MBh 8.68.47
हते स्म कर्णे सरितो न स्रवन्ति; जगाम चास्तं कलुषो दिवाकरः
ग्रहश्च तिर्यग्ज्वलितार्कवर्णो; यमस्य पुत्रोऽभ्युदियाय राजन्
MBh 8.68.48
नभः पफालाथ ननाद चोर्वी; ववुश्च वाताः परुषातिवेलम्
दिशः सधूमाश्च भृशं प्रजज्वलु;र्महार्णवाश्चुक्षुभिरे च सस्वनाः
MBh 8.68.49
सकाननाः साद्रिचयाश्चकम्पुः; प्रविव्यथुर्भूतगणाश्च मारिष
बृहस्पती रोहिणीं संप्रपीड्य; बभूव चन्द्रार्कसमानवर्णः
MBh 8.68.50
हते कर्णे न दिशो विप्रजज्ञु;स्तमोवृता द्यौर्विचचाल भूमिः
पपात चोल्का ज्वलनप्रकाशा; निशाचराश्चाप्यभवन्प्रहृष्टाः
MBh 8.68.51
शशिप्रकाशाननमर्जुनो यदा; क्षुरेण कर्णस्य शिरो न्यपातयत्
अथान्तरिक्षे दिवि चेह चासकृ;द्बभूव हाहेति जनस्य निस्वनः
MBh 8.68.52
स देवगन्धर्वमनुष्यपूजितं; निहत्य कर्णं रिपुमाहवेऽर्जुनः
रराज पार्थः परमेण तेजसा; वृत्रं निहत्येव सहस्रलोचनः
MBh 8.68.53
ततो रथेनाम्बुदवृन्दनादिना; शरन्नभोमध्यगभास्करत्विषा
पताकिना भीमनिनादकेतुना; हिमेन्दुशङ्खस्फटिकावभासिना
सुवर्णमुक्तामणिवज्रविद्रुमै;रलंकृतेनाप्रतिमानरंहसा
MBh 8.68.54
नरोत्तमौ पाण्डवकेशिमर्दना;वुदाहितावग्निदिवाकरोपमौ
रणाजिरे वीतभयौ विरेजतुः; समानयानाविव विष्णुवासवौ
MBh 8.68.55
ततो धनुर्ज्यातलनेमिनिस्वनैः; प्रसह्य कृत्वा च रिपून्हतप्रभान्
संसाधयित्वैव कुरूञ्शरौघैः; कपिध्वजः पक्षिवरध्वजश्च
प्रसह्य शङ्खौ धमतुः सुघोषौ; मनांस्यरीणामवसादयन्तौ
MBh 8.68.56
सुवर्णजालावततौ महास्वनौ; हिमावदातौ परिगृह्य पाणिभिः
चुचुम्बतुः शङ्खवरौ नृणां वरौ; वराननाभ्यां युगपच्च दध्मतुः
MBh 8.68.57
पाञ्चजन्यस्य निर्घोषो देवदत्तस्य चोभयोः
पृथिवीमन्तरिक्षं च द्यामपश्चाप्यपूरयत्
MBh 8.68.58
तौ शङ्खशब्देन निनादयन्तौ; वनानि शैलान्सरितो दिशश्च
वित्रासयन्तौ तव पुत्रसेनां; युधिष्ठिरं नन्दयतः स्म वीरौ
MBh 8.68.59
ततः प्रयाताः कुरवो जवेन; श्रुत्वैव शङ्खस्वनमीर्यमाणम्
विहाय मद्राधिपतिं पतिं च; दुर्योधनं भारत भारतानाम्
MBh 8.68.60
महाहवे तं बहु शोभमानं; धनंजयं भूतगणाः समेताः
तदान्वमोदन्त जनार्दनं च; प्रभाकरावभ्युदितौ यथैव
MBh 8.68.61
समाचितौ कर्णशरैः परंतपा;वुभौ व्यभातां समरेऽच्युतार्जुनौ
तमो निहत्याभ्युदितौ यथामलौ; शशाङ्कसूर्याविव रश्मिमालिनौ
MBh 8.68.62
विहाय तान्बाणगणानथागतौ; सुहृद्वृतावप्रतिमानविक्रमौ
सुखं प्रविष्टौ शिबिरं स्वमीश्वरौ; सदस्यहूताविव वासवाच्युतौ
MBh 8.68.63
सदेवगन्धर्वमनुष्यचारणै;र्महर्षिभिर्यक्षमहोरगैरपि
जयाभिवृद्ध्या परयाभिपूजितौ; निहत्य कर्णं परमाहवे तदा
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 67
- Next chapter · Karṇa-Parva Ch 69 →
Sources and Connected Readings
Continue from these 63 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.68local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷