🪷 Mahābhārata · Karṇa-Parva · Chapter 66
The Book of Karṇa · Parva 8 · 65 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 65 Shlokas
MBh 8.66.1
संजय उवाच
ततोऽपयाताः शरपातमात्र;मवस्थिताः कुरवो भिन्नसेनाः
विद्युत्प्रकाशं ददृशुः समन्ता;द्धनंजयास्त्रं समुदीर्यमाणम्
MBh 8.66.2
तदर्जुनास्त्रं ग्रसते स्म वीरा;न्वियत्तथाकाशमनन्तघोषम्
क्रुद्धेन पार्थेन तदाशु सृष्टं; वधाय कर्णस्य महाविमर्दे
MBh 8.66.3
रामादुपात्तेन महामहिम्ना; आथर्वणेनारिविनाशनेन
तदर्जुनास्त्रं व्यधमद्दहन्तं; पार्थं च बाणैर्निशितैर्निजघ्ने
MBh 8.66.4
ततो विमर्दः सुमहान्बभूव; तस्यार्जुनस्याधिरथेश्च राजन्
अन्योन्यमासादयतोः पृषत्कै;र्विषाणघातैर्द्विपयोरिवोग्रैः
MBh 8.66.5
ततो रिपुघ्नं समधत्त कर्णः; सुसंशितं सर्पमुखं ज्वलन्तम्
रौद्रं शरं संयति सुप्रधौतं; पार्थार्थमत्यर्थचिराय गुप्तम्
MBh 8.66.6
सदार्चितं चन्दनचूर्णशायिनं; सुवर्णनालीशयनं महाविषम्
प्रदीप्तमैरावतवंशसंभवं; शिरो जिहीर्षुर्युधि फल्गुनस्य
MBh 8.66.7
तमब्रवीन्मद्रराजो महात्मा; वैकर्तनं प्रेक्ष्य हि संहितेषुम्
न कर्ण ग्रीवामिषुरेष प्राप्स्यते; संलक्ष्य संधत्स्व शरं शिरोघ्नम्
MBh 8.66.8
अथाब्रवीत्क्रोधसंरक्तनेत्रः; कर्णः शल्यं संधितेषुः प्रसह्य
न संधत्ते द्विः शरं शल्य कर्णो; न मादृशाः शाठ्ययुक्ता भवन्ति
MBh 8.66.9
तथैवमुक्त्वा विससर्ज तं शरं; बलाहकं वर्षघनाभिपूजितम्
हतोऽसि वै फल्गुन इत्यवोच;त्ततस्त्वरन्नूर्जितमुत्ससर्ज
MBh 8.66.10
संधीयमानं भुजगं दृष्ट्वा कर्णेन माधवः
आक्रम्य स्यन्दनं पद्भ्यां बलेन बलिनां वरः
MBh 8.66.11
अवगाढे रथे भूमौ जानुभ्यामगमन्हयाः
ततः शरः सोऽभ्यहनत्किरीटं तस्य धीमतः
MBh 8.66.12
अथार्जुनस्योत्तमगात्रभूषणं; धरावियद्द्योसलिलेषु विश्रुतम्
बलास्त्रसर्गोत्तमयत्नमन्युभिः; शरेण मूर्ध्नः स जहार सूतजः
MBh 8.66.13
दिवाकरेन्दुज्वलनग्रहत्विषं; सुवर्णमुक्तामणिजालभूषितम्
पुरंदरार्थं तपसा प्रयत्नतः; स्वयं कृतं यद्भुवनस्य सूनुना
MBh 8.66.14
महार्हरूपं द्विषतां भयंकरं; विभाति चात्यर्थसुखं सुगन्धि तत्
निजघ्नुषे देवरिपून्सुरेश्वरः; स्वयं ददौ यत्सुमनाः किरीटिने
MBh 8.66.15
हराम्बुपाखण्डलवित्तगोप्तृभिः; पिनाकपाशाशनिसायकोत्तमैः
सुरोत्तमैरप्यविषह्यमर्दितुं; प्रसह्य नागेन जहार यद्वृषः
MBh 8.66.16
तदुत्तमेषून्मथितं विषाग्निना; प्रदीप्तमर्चिष्मदभिक्षिति प्रियम्
पपात पार्थस्य किरीटमुत्तमं; दिवाकरोऽस्तादिव पर्वताज्ज्वलन्
MBh 8.66.17
ततः किरीटं बहुरत्नमण्डितं; जहार नागोऽर्जुनमूर्धतो बलात्
गिरेः सुजाताङ्कुरपुष्पितद्रुमं; महेन्द्रवज्रः शिखरं यथोत्तमम्
MBh 8.66.18
मही वियद्द्यौः सलिलानि वायुना; यथा विभिन्नानि विभान्ति भारत
तथैव शब्दो भुवनेष्वभूत्तदा; जना व्यवस्यन्व्यथिताश्च चस्खलुः
MBh 8.66.19
ततः समुद्ग्रथ्य सितेन वाससा; स्वमूर्धजानव्यथितः स्थितोऽर्जुनः
विभाति संपूर्णमरीचिभास्वता; शिरोगतेनोदयपर्वतो यथा
MBh 8.66.20
बलाहकः कर्णभुजेरितस्ततो; हुताशनार्कप्रतिमद्युतिर्महान्
महोरगः कृतवैरोऽर्जुनेन; किरीटमासाद्य समुत्पपात
MBh 8.66.21
तमब्रवीद्विद्धि कृतागसं मे; कृष्णाद्य मातुर्वधजातवैरम्
ततः कृष्णः पार्थमुवाच संख्ये; महोरगं कृतवैरं जहि त्वम्
MBh 8.66.22
स एवमुक्तो मधुसूदनेन; गाण्डीवधन्वा रिपुषूग्रधन्वा
उवाच को न्वेष ममाद्य नागः; स्वयं य आगाद्गरुडस्य वक्त्रम्
MBh 8.66.23
कृष्ण उवाच
योऽसौ त्वया खाण्डवे चित्रभानुं; संतर्पयानेन धनुर्धरेण
वियद्गतो बाणनिकृत्तदेहो; ह्यनेकरूपो निहतास्य माता
MBh 8.66.24
ततस्तु जिष्णुः परिहृत्य शेषां;श्चिच्छेद षड्भिर्निशितैः सुधारैः
नागं वियत्तिर्यगिवोत्पतन्तं; स छिन्नगात्रो निपपात भूमौ
MBh 8.66.25
तस्मिन्मुहूर्ते दशभिः पृषत्कैः; शिलाशितैर्बर्हिणवाजितैश्च
विव्याध कर्णः पुरुषप्रवीरं; धनंजयं तिर्यगवेक्षमाणम्
MBh 8.66.26
ततोऽर्जुनो द्वादशभिर्विमुक्तै;राकर्णमुक्तैर्निशितैः समर्प्य
नाराचमाशीविषतुल्यवेग;माकर्णपूर्णायतमुत्ससर्ज
MBh 8.66.27
स चित्रवर्मेषुवरो विदार्य; प्राणान्निरस्यन्निव साधु मुक्तः
कर्णस्य पीत्वा रुधिरं विवेश; वसुंधरां शोणितवाजदिग्धः
MBh 8.66.28
ततो वृषो बाणनिपातकोपितो; महोरगो दण्डविघट्टितो यथा
तथाशुकारी व्यसृजच्छरोत्तमा;न्महाविषः सर्प इवोत्तमं विषम्
MBh 8.66.29
जनार्दनं द्वादशभिः पराभिन;न्नवैर्नवत्या च शरैस्तथार्जुनम्
शरेण घोरेण पुनश्च पाण्डवं; विभिद्य कर्णोऽभ्यनदज्जहास च
MBh 8.66.30
तमस्य हर्षं ममृषे न पाण्डवो; बिभेद मर्माणि ततोऽस्य मर्मवित्
परं शरैः पत्रिभिरिन्द्रविक्रम;स्तथा यथेन्द्रो बलमोजसाहनत्
MBh 8.66.31
ततः शराणां नवतीर्नवार्जुनः; ससर्ज कर्णेऽन्तकदण्डसंनिभाः
शरैर्भृशायस्ततनुः प्रविव्यथे; तथा यथा वज्रविदारितोऽचलः
MBh 8.66.32
मणिप्रवेकोत्तमवज्रहाटकै;रलंकृतं चास्य वराङ्गभूषणम्
प्रविद्धमुर्व्यां निपपात पत्रिभि;र्धनंजयेनोत्तमकुण्डलेऽपि च
MBh 8.66.33
महाधनं शिल्पिवरैः प्रयत्नतः; कृतं यदस्योत्तमवर्म भास्वरम्
सुदीर्घकालेन तदस्य पाण्डवः; क्षणेन बाणैर्बहुधा व्यशातयत्
MBh 8.66.34
स तं विवर्माणमथोत्तमेषुभिः; शरैश्चतुर्भिः कुपितः पराभिनत्
स विव्यथेऽत्यर्थमरिप्रहारितो; यथातुरः पित्तकफानिलव्रणैः
MBh 8.66.35
महाधनुर्मण्डलनिःसृतैः शितैः; क्रियाप्रयत्नप्रहितैर्बलेन च
ततक्ष कर्णं बहुभिः शरोत्तमै;र्बिभेद मर्मस्वपि चार्जुनस्त्वरन्
MBh 8.66.36
दृढाहतः पत्रिभिरुग्रवेगैः; पार्थेन कर्णो विविधैः शिताग्रैः
बभौ गिरिर्गैरिकधातुरक्तः; क्षरन्प्रपातैरिव रक्तमम्भः
MBh 8.66.37
साश्वं तु कर्णं सरथं किरीटी; समाचिनोद्भारत वत्सदन्तैः
प्रच्छादयामास दिशश्च बाणैः; सर्वप्रयत्नात्तपनीयपुङ्खैः
MBh 8.66.38
स वत्सदन्तैः पृथुपीनवक्षाः; समाचितः स्माधिरथिर्विभाति
सुपुष्पिताशोकपलाशशाल्मलि;र्यथाचलः स्पन्दनचन्दनायुतः
MBh 8.66.39
शरैः शरीरे बहुधा समर्पितै;र्विभाति कर्णः समरे विशां पते
महीरुहैराचितसानुकन्दरो; यथा महेन्द्रः शुभकर्णिकारवान्
MBh 8.66.40
स बाणसंघान्धनुषा व्यवासृज;न्विभाति कर्णः शरजालरश्मिवान्
सलोहितो रक्तगभस्तिमण्डलो; दिवाकरोऽस्ताभिमुखो यथा तथा
MBh 8.66.41
बाह्वन्तरादाधिरथेर्विमुक्ता;न्बाणान्महाहीनिव दीप्यमानान्
व्यध्वंसयन्नर्जुनबाहुमुक्ताः; शराः समासाद्य दिशः शिताग्राः
MBh 8.66.42
ततश्चक्रमपतत्तस्य भूमौ; स विह्वलः समरे सूतपुत्रः
घूर्णे रथे ब्राह्मणस्याभिशापा;द्रामादुपात्तेऽप्रतिभाति चास्त्रे
MBh 8.66.43
अमृष्यमाणो व्यसनानि तानि; हस्तौ विधुन्वन्स विगर्हमाणः
धर्मप्रधानानभिपाति धर्म; इत्यब्रुवन्धर्मविदः सदैव
ममापि निम्नोऽद्य न पाति भक्ता;न्मन्ये न नित्यं परिपाति धर्मः
MBh 8.66.44
एवं ब्रुवन्प्रस्खलिताश्वसूतो; विचाल्यमानोऽर्जुनशस्त्रपातैः
मर्माभिघाताच्छलितः क्रियासु; पुनः पुनर्धर्ममगर्हदाजौ
MBh 8.66.45
ततः शरैर्भीमतरैरविध्यत्त्रिभिराहवे
हस्ते कर्णस्तदा पार्थमभ्यविध्यच्च सप्तभिः
MBh 8.66.46
ततोऽर्जुनः सप्तदश तिग्मतेजानजिह्मगान्
इन्द्राशनिसमान्घोरानसृजत्पावकोपमान्
MBh 8.66.47
निर्भिद्य ते भीमवेगा न्यपतन्पृथिवीतले
कम्पितात्मा तथा कर्णः शक्त्या चेष्टामदर्शयत्
MBh 8.66.48
बलेनाथ स संस्तभ्य ब्रह्मास्त्रं समुदैरयत्
ऐन्द्रास्त्रमर्जुनश्चापि तद्दृष्ट्वाभिन्यमन्त्रयत्
MBh 8.66.49
गाण्डीवं ज्यां च बाणांश्च अनुमन्त्र्य धनंजयः
असृजच्छरवर्षाणि वर्षाणीव पुरंदरः
MBh 8.66.50
ततस्तेजोमया बाणा रथात्पार्थस्य निःसृताः
प्रादुरासन्महावीर्याः कर्णस्य रथमन्तिकात्
MBh 8.66.51
तान्कर्णस्त्वग्रतोऽभ्यस्तान्मोघांश्चक्रे महारथः
ततोऽब्रवीद्वृष्णिवीरस्तस्मिन्नस्त्रे विनाशिते
MBh 8.66.52
विसृजास्त्रं परं पार्थ राधेयो ग्रसते शरान्
ब्रह्मास्त्रमर्जुनश्चापि संमन्त्र्याथ प्रयोजयत्
MBh 8.66.53
छादयित्वा ततो बाणैः कर्णं प्रभ्राम्य चार्जुनः
तस्य कर्णः शरैः क्रुद्धश्चिच्छेद ज्यां सुतेजनैः
MBh 8.66.54
ततो ज्यामवधायान्यामनुमृज्य च पाण्डवः
शरैरवाकिरत्कर्णं दीप्यमानैः सहस्रशः
MBh 8.66.55
तस्य ज्याच्छेदनं कर्णो ज्यावधानं च संयुगे
नान्वबुध्यत शीघ्रत्वात्तदद्भुतमिवाभवत्
MBh 8.66.56
अस्त्रैरस्त्राणि राधेयः प्रत्यहन्सव्यसाचिनः
चक्रे चाभ्यधिकं पार्थात्स्ववीर्यं प्रतिदर्शयन्
MBh 8.66.57
ततः कृष्णोऽर्जुनं दृष्ट्वा कर्णास्त्रेणाभिपीडितम्
अभ्यस्येत्यब्रवीत्पार्थमातिष्ठास्त्रमनुत्तमम्
MBh 8.66.58
ततोऽन्यमग्निसदृशं शरं सर्पविषोपमम्
अश्मसारमयं दिव्यमनुमन्त्र्य धनंजयः
MBh 8.66.59
रौद्रमस्त्रं समादाय क्षेप्तुकामः किरीटवान्
ततोऽग्रसन्मही चक्रं राधेयस्य महामृधे
MBh 8.66.60
ग्रस्तचक्रस्तु राधेयः कोपादश्रूण्यवर्तयत्
सोऽब्रवीदर्जुनं चापि मुहूर्तं क्षम पाण्डव
MBh 8.66.61
मध्ये चक्रमवग्रस्तं दृष्ट्वा दैवादिदं मम
पार्थ कापुरुषाचीर्णमभिसंधिं विवर्जय
MBh 8.66.62
प्रकीर्णकेशे विमुखे ब्राह्मणे च कृताञ्जलौ
शरणागते न्यस्तशस्त्रे तथा व्यसनगेऽर्जुन
MBh 8.66.63
अबाणे भ्रष्टकवचे भ्रष्टभग्नायुधे तथा
न शूराः प्रहरन्त्याजौ न राज्ञे पार्थिवास्तथा
त्वं च शूरोऽसि कौन्तेय तस्मात्क्षम मुहूर्तकम्
MBh 8.66.64
यावच्चक्रमिदं भूमेरुद्धरामि धनंजय
न मां रथस्थो भूमिष्ठमसज्जं हन्तुमर्हसि
न वासुदेवात्त्वत्तो वा पाण्डवेय बिभेम्यहम्
MBh 8.66.65
त्वं हि क्षत्रियदायादो महाकुलविवर्धनः
स्मृत्वा धर्मोपदेशं त्वं मुहूर्तं क्षम पाण्डव
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 65
- Next chapter · Karṇa-Parva Ch 67 →
Sources and Connected Readings
Continue from these 65 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.66local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷