🪷 Mahābhārata · Karṇa-Parva · Chapter 65

The Book of Karṇa · Parva 8 · 45 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 45 Shlokas

MBh 8.65.1
संजय उवाच तौ शङ्खभेरीनिनदे समृद्धे; समीयतुः श्वेतहयौ नराग्र्यौ वैकर्तनः सूतपुत्रोऽर्जुनश्च; दुर्मन्त्रिते तव पुत्रस्य राजन्
MBh 8.65.2
यथा गजौ हैमवतौ प्रभिन्नौ; प्रगृह्य दन्ताविव वाशितार्थे तथा समाजग्मतुरुग्रवेगौ; धनंजयश्चाधिरथिश्च वीरौ
MBh 8.65.3
बलाहकेनेव यथा बलाहको; यदृच्छया वा गिरिणा गिरिर्यथा तथा धनुर्ज्यातलनेमिनिस्वनौ; समीयतुस्ताविषुवर्षवर्षिणौ
MBh 8.65.4
प्रवृद्धशृङ्गद्रुमवीरुदोषधी; प्रवृद्धनानाविधपर्वतौकसौ यथाचलौ वा गलितौ महाबलौ; तथा महास्त्रैरितरेतरं घ्नतः
MBh 8.65.5
स संनिपातस्तु तयोर्महानभू;त्सुरेशवैरोचनयोर्यथा पुरा शरैर्विभुग्नाङ्गनियन्तृवाहनः; सुदुःसहोऽन्यैः पटुशोणितोदकः
MBh 8.65.6
प्रभूतपद्मोत्पलमत्स्यकच्छपौ; महाह्रदौ पक्षिगणानुनादितौ सुसंनिकृष्टावनिलोद्धतौ यथा; तथा रथौ तौ ध्वजिनौ समीयतुः
MBh 8.65.7
उभौ महेन्द्रस्य समानविक्रमा;वुभौ महेन्द्रप्रतिमौ महारथौ महेन्द्रवज्रप्रतिमैश्च सायकै;र्महेन्द्रवृत्राविव संप्रजह्रतुः
MBh 8.65.8
सनागपत्त्यश्वरथे उभे बले; विचित्रवर्णाभरणाम्बरस्रजे चकम्पतुश्चोन्नमतः स्म विस्मया;द्वियद्गताश्चार्जुनकर्णसंयुगे
MBh 8.65.9
भुजाः सवज्राङ्गुलयः समुच्छ्रिताः; ससिंहनादा हृषितैर्दिदृक्षुभिः यदार्जुनं मत्तमिव द्विपो द्विपं; समभ्ययादाधिरथिर्जिघांसया
MBh 8.65.10
अभ्यक्रोशन्सोमकास्तत्र पार्थं; त्वरस्व याह्यर्जुन विध्य कर्णम् छिन्ध्यस्य मूर्धानमलं चिरेण; श्रद्धां च राज्याद्धृतराष्ट्रसूनोः
MBh 8.65.11
तथास्माकं बहवस्तत्र योधाः; कर्णं तदा याहि याहीत्यवोचन् जह्यर्जुनं कर्ण ततः सचीराः; पुनर्वनं यान्तु चिराय पार्थाः
MBh 8.65.12
ततः कर्णः प्रथमं तत्र पार्थं; महेषुभिर्दशभिः पर्यविध्यत् तमर्जुनः प्रत्यविध्यच्छिताग्रैः; कक्षान्तरे दशभिरतीव क्रुद्धः
MBh 8.65.13
परस्परं तौ विशिखैः सुतीक्ष्णै;स्ततक्षतुः सूतपुत्रोऽर्जुनश्च परस्परस्यान्तरेप्सू विमर्दे; सुभीममभ्याययतुः प्रहृष्टौ
MBh 8.65.14
अमृष्यमाणश्च महाविमर्दे; तत्राक्रुध्यद्भीमसेनो महात्मा अथाब्रवीत्पाणिना पाणिमाघ्न;न्संदष्टौष्ठो नृत्यति वादयन्निव कथं नु त्वां सूतपुत्रः किरीटि;न्महेषुभिर्दशभिरविध्यदग्रे
MBh 8.65.15
यया धृत्या सर्वभूतान्यजैषी;र्ग्रासं ददद्वह्नये खाण्डवे त्वम् तया धृत्या सूतपुत्रं जहि त्व;महं वैनं गदया पोथयिष्ये
MBh 8.65.16
अथाब्रवीद्वासुदेवोऽपि पार्थं; दृष्ट्वा रथेषून्प्रतिहन्यमानान् अमीमृदत्सर्वथा तेऽद्य कर्णो; ह्यस्त्रैरस्त्राणि किमिदं किरीटिन्
MBh 8.65.17
स वीर किं मुह्यसि नावधीयसे; नदन्त्येते कुरवः संप्रहृष्टाः कर्णं पुरस्कृत्य विदुर्हि सर्वे; त्वदस्त्रमस्त्रैर्विनिपात्यमानम्
MBh 8.65.18
यया धृत्या निहतं तामसास्त्रं; युगे युगे राक्षसाश्चापि घोराः दम्भोद्भवाश्चासुराश्चाहवेषु; तया धृत्या त्वं जहि सूतपुत्रम्
MBh 8.65.19
अनेन वास्य क्षुरनेमिनाद्य; संछिन्द्धि मूर्धानमरेः प्रसह्य मया निसृष्टेन सुदर्शनेन; वज्रेण शक्रो नमुचेरिवारेः
MBh 8.65.20
किरातरूपी भगवान्यया च; त्वया महत्या परितोषितोऽभूत् तां त्वं धृतिं वीर पुनर्गृहीत्वा; सहानुबन्धं जहि सूतपुत्रम्
MBh 8.65.21
ततो महीं सागरमेखलां त्वं; सपत्तनां ग्रामवतीं समृद्धाम् प्रयच्छ राज्ञे निहतारिसंघां; यशश्च पार्थातुलमाप्नुहि त्वम्
MBh 8.65.22
संचोदितो भीमजनार्दनाभ्यां; स्मृत्वा तदात्मानमवेक्ष्य सत्त्वम् महात्मनश्चागमने विदित्वा; प्रयोजनं केशवमित्युवाच
MBh 8.65.23
प्रादुष्करोम्येष महास्त्रमुग्रं; शिवाय लोकस्य वधाय सौतेः तन्मेऽनुजानातु भवान्सुराश्च; ब्रह्मा भवो ब्रह्मविदश्च सर्वे
MBh 8.65.24
इत्यूचिवान्ब्राह्ममसह्यमस्त्रं; प्रादुश्चक्रे मनसा संविधेयम् ततो दिशश्च प्रदिशश्च सर्वाः; समावृणोत्सायकैर्भूरितेजाः ससर्ज बाणान्भरतर्षभोऽपि; शतंशतानेकवदाशुवेगान्
MBh 8.65.25
वैकर्तनेनापि तथाजिमध्ये; सहस्रशो बाणगणा विसृष्टाः ते घोषिणः पाण्डवमभ्युपेयुः; पर्जन्यमुक्ता इव वारिधाराः
MBh 8.65.26
स भीमसेनं च जनार्दनं च; किरीटिनं चाप्यमनुष्यकर्मा त्रिभिस्त्रिभिर्भीमबलो निहत्य; ननाद घोरं महता स्वरेण
MBh 8.65.27
स कर्णबाणाभिहतः किरीटी; भीमं तथा प्रेक्ष्य जनार्दनं च अमृष्यमाणः पुनरेव पार्थः; शरान्दशाष्टौ च समुद्बबर्ह
MBh 8.65.28
सुषेणमेकेन शरेण विद्ध्वा; शल्यं चतुर्भिस्त्रिभिरेव कर्णम् ततः सुमुक्तैर्दशभिर्जघान; सभापतिं काञ्चनवर्मनद्धम्
MBh 8.65.29
स राजपुत्रो विशिरा विबाहु;र्विवाजिसूतो विधनुर्विकेतुः ततो रथाग्रादपतत्प्रभग्नः; परश्वधैः शाल इवाभिकृत्तः
MBh 8.65.30
पुनश्च कर्णं त्रिभिरष्टभिश्च; द्वाभ्यां चतुर्भिर्दशभिश्च विद्ध्वा चतुःशतान्द्विरदान्सायुधीया;न्हत्वा रथानष्टशतं जघान सहस्रमश्वांश्च पुनश्च सादी;नष्टौ सहस्राणि च पत्तिवीरान्
MBh 8.65.31
दृष्ट्वाजिमुख्यावथ युध्यमानौ; दिदृक्षवः शूरवरावरिघ्नौ कर्णं च पार्थं च नियम्य वाहा;न्खस्था महीस्थाश्च जनावतस्थुः
MBh 8.65.32
ततो धनुर्ज्या सहसातिकृष्टा; सुघोषमाच्छिद्यत पाण्डवस्य तस्मिन्क्षणे सूतपुत्रस्तु पार्थं; समाचिनोत्क्षुद्रकाणां शतेन
MBh 8.65.33
निर्मुक्तसर्पप्रतिमैश्च तीक्ष्णै;स्तैलप्रधौतैः खगपत्रवाजैः षष्ट्या नाराचैर्वासुदेवं बिभेद; तदन्तरं सोमकाः प्राद्रवन्त
MBh 8.65.34
ततो धनुर्ज्यामवधम्य शीघ्रं; शरानस्तानाधिरथेर्विधम्य सुसंरब्धः कर्णशरक्षताङ्गो; रणे पार्थः सोमकान्प्रत्यगृह्णात् न पक्षिणः संपतन्त्यन्तरिक्षे; क्षेपीयसास्त्रेण कृतेऽन्धकारे
MBh 8.65.35
शल्यं च पार्थो दशभिः पृषत्कै;र्भृशं तनुत्रे प्रहसन्नविध्यत् ततः कर्णं द्वादशभिः सुमुक्तै;र्विद्ध्वा पुनः सप्तभिरभ्यविध्यत्
MBh 8.65.36
स पार्थबाणासनवेगनुन्नै;र्दृढाहतः पत्रिभिरुग्रवेगैः विभिन्नगात्रः क्षतजोक्षिताङ्गः; कर्णो बभौ रुद्र इवाततेषुः
MBh 8.65.37
ततस्त्रिभिश्च त्रिदशाधिपोपमं; शरैर्बिभेदाधिरथिर्धनंजयम् शरांस्तु पञ्च ज्वलितानिवोरगा;न्प्रवीरयामास जिघांसुरच्युते
MBh 8.65.38
ते वर्म भित्त्वा पुरुषोत्तमस्य; सुवर्णचित्रं न्यपतन्सुमुक्ताः वेगेन गामाविविशुः सुवेगाः; स्नात्वा च कर्णाभिमुखाः प्रतीयुः
MBh 8.65.39
तान्पञ्चभल्लैस्त्वरितैः सुमुक्तै;स्त्रिधा त्रिधैकैकमथोच्चकर्त धनंजयस्ते न्यपतन्पृथिव्यां; महाहयस्तक्षकपुत्रपक्षाः
MBh 8.65.40
ततः प्रजज्वाल किरीटमाली; क्रोधेन कक्षं प्रदहन्निवाग्निः स कर्णमाकर्णविकृष्टसृष्टैः; शरैः शरीरान्तकरैर्ज्वलद्भिः मर्मस्वविध्यत्स चचाल दुःखा;द्धैर्यात्तु तस्थावतिमात्रधैर्यः
MBh 8.65.41
ततः शरौघैः प्रदिशो दिशश्च; रविप्रभा कर्णरथश्च राजन् अदृश्य आसीत्कुपिते धनंजये; तुषारनीहारवृतं यथा नभः
MBh 8.65.42
स चक्ररक्षानथ पादरक्षा;न्पुरःसरान्पृष्ठगोपांश्च सर्वान् दुर्योधनेनानुमतानरिघ्ना;न्समुच्चितान्सुरथान्सारभूतान्
MBh 8.65.43
द्विसाहस्रान्समरे सव्यसाची; कुरुप्रवीरानृषभः कुरूणाम् क्षणेन सर्वान्सरथाश्वसूता;न्निनाय राजन्क्षयमेकवीरः
MBh 8.65.44
अथापलायन्त विहाय कर्णं; तवात्मजाः कुरवश्चावशिष्टाः हतानवाकीर्य शरक्षतांश्च; लालप्यमानांस्तनयान्पितॄंश्च
MBh 8.65.45
स सर्वतः प्रेक्ष्य दिशो विशून्या; भयावदीर्णैः कुरुभिर्विहीनः न विव्यथे भारत तत्र कर्णः; प्रतीपमेवार्जुनमभ्यधावत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 45 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.65local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷