🪷 Mahābhārata · Karṇa-Parva · Chapter 65
The Book of Karṇa · Parva 8 · 45 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 45 Shlokas
MBh 8.65.1
[स]
तौ शङ्खभेरी निनदे समृद्धे; समीयतुः शवेतहयौ नराग्र्यौ
वैकर्तनः सूतपुत्रॊ ऽरजुनश च; दुर्मन्त्रिते तव पुत्रस्य राजन
MBh 8.65.2
यथा गजौ हैमवतौ परभिन्नौ; परगृह्य दन्ताव इव वाशितार्थे
तथा समाजग्मतुर उग्रवेगौ; धनंजयश चाधिरथिश च वीरौ
MBh 8.65.3
बलाहकेनेव यथाबलाहकॊ; यदृच्छया वा गिरिणा गिरिर यथा
तथा धनुर्ज्यातलनेमि निस्वनौ; समीयतुस ताव इषुवर्षवर्षिणौ
MBh 8.65.4
परवृद्धशृङ्गद्रुम वीरुद ओषधी; परवृद्धनानाविध पर्वतौकसौ
यथाचलौ वा गलितौ महाबलौ; तथा महास्त्रैर इतरेतरं घनतः
MBh 8.65.5
स संनिपातस तु तयॊर महान अभूत; सुरेश वैरॊच्चनयॊर यथा पुरा
शरैर विभुग्नाङ्गनियन्तृवाहनः; सुदुःसहॊ ऽनयैः पटु शॊणितॊदकः
MBh 8.65.6
परभूतपद्मॊत्पल मत्स्यकच्छपौ; महाह्रदौ पण्षि गणानुनादितौ
सुसंनिकृष्टाव अनिलॊद्धतौ यथा; तथा रथौ तौ धवजिनौ समीयतुः
MBh 8.65.7
उभौ महेन्द्रस्य सामान विक्रमाव; उभौ महेन्द्रप्रतिमौ महारथौ
महेन्द्रवज्रप्रतिमैश च सायकैर; महेन्द्र वृत्राव इव संप्रजह्रतुः
MBh 8.65.8
सनागपत्त्यश्वरथे उभे बले; विचित्रवर्णाभरणाम्बर सरजे
चकम्पतुश चॊन्नमतः सम विस्मयाद; वियद गताश चार्जुन कर्ण संयुगे
MBh 8.65.9
भुजाः सवज्राङ्गुलयः समुच्छ्रिताः; ससिंह नादा हृषितैर दिदृक्षुभिः
यदार्जुनं मत्तम इव दविपॊ दविपं; समभ्ययाद आधिरथिर जिघांसया
MBh 8.65.10
अभ्यक्रॊशन सॊमकास तत्र पार्थं; वरस्व याह्य अर्जुन विध्य कर्णम
छिन्ध्य अस्य मूर्धानम अलं चिरेण; शरद्धां च राज्याद धृतराष्ट्र सूनॊः
MBh 8.65.11
तथास्माकं बहवस तत्र यॊधाः; कर्णं तदा याहि याहीत्य अवॊचन
जह्य अर्जुनं कर्ण ततः सचीराः; पुनर वनं यान्तु चिराय पार्थाः
MBh 8.65.12
ततः कर्णः परथमं तत्र पार्थं; महेषुभिर दशभिः पर्यविध्यत
तम अर्जुनः परत्यविध्यच छिताग्रैः; कक्षान्तरे दशभिर अतीव करुद्धः
MBh 8.65.13
परस्परं तौ विशिखैः सुतीक्ष्णैस; ततक्षतुः सूतपुत्रॊ ऽरजुनश च
परस्परस्यान्तरेप्सू विमर्दे; सुभीमम अभ्याययतुः परहृष्टौ
MBh 8.65.14
अमृष्यमाणश च महाविमर्दे; तत्राक्रुध्यद भीमसेनॊ महात्मा
अथाब्रवीत पाणिना पाणिम आघ्नन; संदष्टौष्ठ नृत्यति वादयन्न इव
कथं नु तवां सूतपुत्रः किरीटिन; महेषुभिर दशभिर अविध्यद अग्रे
MBh 8.65.15
यया धृत्या सर्वभूतान्य अजैषीर; गरासं ददद वह्नये खाण्डवे तवम
तया धृत्या सूतपुत्रं जहि तवम; अहं वैनं गदया पॊथयिष्ये
MBh 8.65.16
अथाब्रवीद वासुदेवॊऽपि पार्थं; दृष्ट्वा रथेषून परतिहन्यमानान
अमीमृदत सर्वथा ते ऽदय कर्णॊ; हय अस्त्रैर अस्त्राणि किम इदं किरीटिन
MBh 8.65.17
स वीर किं मुह्यसि नावधीयसे; नदन्त्य एते कुरवः संप्रहृष्टाः
कर्णं पुरस्कृत्य विदुर हि सर्वे; तवद अस्त्रम अस्त्रैर विनिपात्यमानम
MBh 8.65.18
यया धृत्या निहतं तामसास्त्रं; युगे युगे राक्षसाश चापि घॊराः
दम्भॊद्भवाश चासुराश चाहवेषु; तया धृत्या तवं जहि सूतपुत्रम
MBh 8.65.19
अनेना वास्य कषुर नेमिनाद्य; संछिन्द्धि मूर्धानम अरेः परसह्य
मया निसृष्टेन सुदर्शनेन; वज्रेण शक्रॊ नमुचेर इवारेः
MBh 8.65.20
किरात रूपी भगवान यया च; तवया महत्या परितॊषितॊ ऽभूत
तां तवं धृतिं वीर पुनर गृहीत्वा; सहानुबन्धं जहि सूतपुत्रम
MBh 8.65.21
ततॊ महीं सागरमेखलां तं; सपत्तनां गरामवतीं समृद्धाम
परयच्छ राज्ञे निहतारि सांघां; यशश च पार्थातुलम आप्नुहि तवम
MBh 8.65.22
संचॊदितॊ भीम जनार्दनभ्यं; समृत्वा तदात्मानम अवेक्ष्य सत्त्वम
महात्मनश चागमने विदित्वा; परयॊजनं केशवम इत्य उवाच
MBh 8.65.23
परादुष्करॊम्य एष महास्त्रम उग्रं; शिवाय लॊकस्य वधाय सौतेः
तन मे ऽनुजनातु भवान सुराश च; बरह्मा भुवॊ बरह्म विदश च सर्वे
MBh 8.65.24
इत्य ऊचिवान बराह्मम असह्यम अस्त्रं; परादुश्चक्रे मनसा संविधेयम
ततॊ दिशश च परदिशश च सर्वाः; समावृणॊत सायकैर भूरि तेजाः
स सर्जबाणान भरतर्षभॊ ऽपि; शतं शतानेकवद आशु वेगान
MBh 8.65.25
वैकर्तनेनापि तथाजिमध्ये; सहस्रशॊ बाणगणा विसृष्टाः
ते घॊषिणः पाण्डवम अभ्युपेयुः; पजन्य मुक्ता इव वारिधाराः
MBh 8.65.26
स भीमासेनं च जनार्दनं च; किरीटिनं चाप्य अमनुष्यकर्मा
तरिभिस तरिभिर भीमबलॊ निहत्या; ननाद घॊरं महता सवरेण
MBh 8.65.27
स कर्ण बाणाभिहतः किरीटी; भीमं तथा परेक्ष्य जनार्दनं च
अमृष्यमाणः पुनार एव पार्थः; शरान दशाष्टौ च समुद्बबर्ह
MBh 8.65.28
सुषेणम एकेन शरेण विद्ध्वा शल्यां; चतुर्भिस तरिभिर एव कर्णम
ततः सुमुक्तैर दशभिर जघान; सभा पतिं काञ्चनवर्म नाद्धम
MBh 8.65.29
सा राजपुत्रॊ विशिरा विबाहुर; विवाजि सूतॊ विधनुर विकेतुः
ततॊ रथाग्राद अपतत परभग्नः; परश्वधैः शाल इवाभिकृत्तः
MBh 8.65.30
पुनश च कर्णं तरिभिर अष्टभिश च; दवाभ्यां चतुर्भिर दशभिश च विद्ध्वा
चातुः शतन दविरदान सायुधीयान; हत्वा रथान अष्ट शतं जघान
सहस्रम अश्वांश च पुनश च सादीन; अष्टौ सहस्राणि च पात्ति वीरान
MBh 8.65.31
दृष्ट्वाजि मुख्याव अथ युध्यमानौ; दिदृक्षवः शूर वराव अरिघ्नौ
कर्णं च पार्थं च नियाम्य वाहान; खस्था महीस्थाश च जनावतस्थुः
MBh 8.65.32
ततॊ धनुर्ज्या सहसातिकृष्टा; सुघॊषम आच्छिद्यत पाण्डवस्य
तस्मिन कषणे सूतपुत्रस तु पार्थं; समाच्चिनॊत कषुद्रकाणां शतेन
MBh 8.65.33
निर्मुक्तसर्पप्रतिमैश च तीक्ष्णैस; तैलप्रधौतैः खग पात्रवाजैः
षष्ट्या नाराचैर वासुदेवं बिभेद; तदन्तरं सॊमकाः पराद्रवन्त
MBh 8.65.34
ततॊ धनुर्ज्याम अवधम्य शीघ्रं; शरान अस्तान आधिरथेर विधम्य
सुसंरब्धः कर्ण शरक्षताङ्गॊ; रणे पार्थः सॊमकान परत्यगृह्णात
न पक्षिणः साम्पतन्त्य अन्तरिक्षे; कषेपीयसास्त्रेण कृते ऽनधकारे
MBh 8.65.35
शल्यं च पार्थॊ दशभिः पृषत्कैर; भृशं तनुत्रे परहसन्न अविध्यत
ततः कार्णं दवादशभिः सुमुक्तैर; विद्ध्वा पुनः सप्तभिर अभ्यविध्यत
MBh 8.65.36
स पार्थ बाणासनवेगनुन्नैर; दृढाहतः पत्रिभिर उग्रवेगैः
विभिन्नगात्रः कषतजॊक्षिताङ्गः; कर्णॊ बभौ रुद्र इवाततेषुः
MBh 8.65.37
ततस तरिभिश च तरिदाशाधिपॊपमं; शरैर बिभेदाधिरथिर धनंजयम
शरांस तु पञ्च जवलितान इवॊरगान; परवीरयाम आस जिघांसुर अच्च्युते
MBh 8.65.38
ते वर्म भित्त्वा पुरुषॊत्तमस्य; सुवर्णचित्रं नयपतन सुमुक्ताः
वेगेन गाम आविविशुः सुवेगाः; सनात्वा च कर्णाभिमुखाः परतीयुः
MBh 8.65.39
तान पञ्च भल्लैस तवरितैः सुमुक्तैस; तरिधा तरिधैकैकम अथॊच्चकर्त
धनंजयस ते नयपतन पृथिव्यां; महाहयस तक्षक पुत्र पक्षाः
MBh 8.65.40
ततः परजज्वाल किरीटमाली; करॊधेन कक्षं परदहन्न इवाग्निः
स कर्णम आकर्णविकृष्टसृष्टैः; शरैः शरीरान्तकरैर जवलद्भिः
मर्मस्व अविध्यत स चचाल दुःखाद; धैर्यात तु तस्थाव अतिमात्रधैर्यः
MBh 8.65.41
ततः शरौघैः परदिशॊ दिशश च; रविप्रभा कर्ण रथश च राजन
अदृश्य आसीत कुपिते धनंजये; तुषारनीहारवृतं यथा नभः
MBh 8.65.42
सचक्ररक्षान अथ पादरक्षान; पुरःसरान पृष्ठगॊपांश च सर्वान
दुर्यॊधनेनानुमतान अरिघ्नान; समुच्चितान सुरथान सारभूतान
MBh 8.65.43
दविसाहस्रान समरे सव्यसाची; कुरुप्रवीरान ऋषभः कुरूणाम
कषणेन सर्वान सरथाश्वसूतान; निनाय राजन कषायम एकवीरः
MBh 8.65.44
अथापलायन्त विहाय कर्णं; तवात्मजाः कुरवश चावशिष्टाः
हतान अवकीर्य शरक्षतांश च; लालप्यमानांस तनयान पितॄंश च
MBh 8.65.45
सा सर्वतः परेक्ष्य दिशॊ विशून्या; भयावदीर्णैः कुरुभिर विहीनः
न विव्यथे भारत तत्र कर्णः; परतीपम एवार्जुनम अभ्यधावत
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 64
- Next chapter · Karṇa-Parva Ch 66 →
🪷 जय व्यास भगवान् 🪷