🪷 Mahābhārata · Karṇa-Parva · Chapter 64

The Book of Karṇa · Parva 8 · 32 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 32 Shlokas

MBh 8.64.1
संजय उवाच तद्देवनागासुरसिद्धसंघै;र्गन्धर्वयक्षाप्सरसां च संघैः ब्रह्मर्षिराजर्षिसुपर्णजुष्टं; बभौ वियद्विस्मयनीयरूपम्
MBh 8.64.2
नानद्यमानं निनदैर्मनोज्ञै;र्वादित्रगीतस्तुतिभिश्च नृत्तैः सर्वेऽन्तरिक्षे ददृशुर्मनुष्याः; खस्थांश्च तान्विस्मयनीयरूपान्
MBh 8.64.3
ततः प्रहृष्टाः कुरुपाण्डुयोधा; वादित्रपत्रायुधसिंहनादैः निनादयन्तो वसुधां दिशश्च; स्वनेन सर्वे द्विषतो निजघ्नुः
MBh 8.64.4
नानाश्वमातङ्गरथायुताकुलं; वरासिशक्त्यृष्टिनिपातदुःसहम् अभीरुजुष्टं हतदेहसंकुलं; रणाजिरं लोहितरक्तमाबभौ
MBh 8.64.5
तथा प्रवृत्तेऽस्त्रभृतां पराभवे; धनंजयश्चाधिरथिश्च सायकैः दिशश्च सैन्यं च शितैरजिह्मगैः; परस्परं प्रोर्णुवतुः स्म दंशितौ
MBh 8.64.6
ततस्त्वदीयाश्च परे च सायकैः; कृतेऽन्धकारे विविदुर्न किंचन भयात्तु तावेव रथौ समाश्रयं;स्तमोनुदौ खे प्रसृता इवांशवः
MBh 8.64.7
ततोऽस्त्रमस्त्रेण परस्परस्य तौ; विधूय वाताविव पूर्वपश्चिमौ घनान्धकारे वितते तमोनुदौ; यथोदितौ तद्वदतीव रेजतुः
MBh 8.64.8
न चाभिमन्तव्यमिति प्रचोदिताः; परे त्वदीयाश्च तदावतस्थिरे महारथौ तौ परिवार्य सर्वतः; सुरासुरा वासवशम्बराविव
MBh 8.64.9
मृदङ्गभेरीपणवानकस्वनै;र्निनादिते भारत शङ्खनिस्वनैः ससिंहनादौ बभतुर्नरोत्तमौ; शशाङ्कसूर्याविव मेघसंप्लवे
MBh 8.64.10
महाधनुर्मण्डलमध्यगावुभौ; सुवर्चसौ बाणसहस्ररश्मिनौ दिधक्षमाणौ सचराचरं जग;द्युगास्तसूर्याविव दुःसहौ रणे
MBh 8.64.11
उभावजेयावहितान्तकावुभौ; जिघांसतुस्तौ कृतिनौ परस्परम् महाहवे वीरवरौ समीयतु;र्यथेन्द्रजम्भाविव कर्णपाण्डवौ
MBh 8.64.12
ततो महास्त्राणि महाधनुर्धरौ; विमुञ्चमानाविषुभिर्भयानकैः नराश्वनागानमितौ निजघ्नतुः; परस्परं जघ्नतुरुत्तमेषुभिः
MBh 8.64.13
ततो विसस्रुः पुनरर्दिताः शरै;र्नरोत्तमाभ्यां कुरुपाण्डवाश्रयाः सनागपत्त्यश्वरथा दिशो गता;स्तथा यथा सिंहभयाद्वनौकसः
MBh 8.64.14
ततस्तु दुर्योधनभोजसौबलाः; कृपश्च शारद्वतसूनुना सह महारथाः पञ्च धनंजयाच्युतौ; शरैः शरीरान्तकरैरताडयन्
MBh 8.64.15
धनूंषि तेषामिषुधीन्हयान्ध्वजा;न्रथांश्च सूतांश्च धनंजयः शरैः समं च चिच्छेद पराभिनच्च ता;ञ्शरोत्तमैर्द्वादशभिश्च सूतजम्
MBh 8.64.16
अथाभ्यधावंस्त्वरिताः शतं रथाः; शतं च नागार्जुनमाततायिनः शकास्तुखारा यवनाश्च सादिनः; सहैव काम्बोजवरैर्जिघांसवः
MBh 8.64.17
वरायुधान्पाणिगतान्करैः सह; क्षुरैर्न्यकृन्तंस्त्वरिताः शिरांसि च हयांश्च नागांश्च रथांश्च युध्यतां; धनंजयः शत्रुगणं तमक्षिणोत्
MBh 8.64.18
ततोऽन्तरिक्षे सुरतूर्यनिस्वनाः; ससाधुवादा हृषितैः समीरिताः निपेतुरप्युत्तमपुष्पवृष्टयः; सुरूपगन्धाः पवनेरिताः शिवाः
MBh 8.64.19
तदद्भुतं देवमनुष्यसाक्षिकं; समीक्ष्य भूतानि विसिष्मियुर्नृप तवात्मजः सूतसुतश्च न व्यथां; न विस्मयं जग्मतुरेकनिश्चयौ
MBh 8.64.20
अथाब्रवीद्द्रोणसुतस्तवात्मजं; करं करेण प्रतिपीड्य सान्त्वयन् प्रसीद दुर्योधन शाम्य पाण्डवै;रलं विरोधेन धिगस्तु विग्रहम्
MBh 8.64.21
हतो गुरुर्ब्रह्मसमो महास्त्रवि;त्तथैव भीष्मप्रमुखा नरर्षभाः अहं त्ववध्यो मम चापि मातुलः; प्रशाधि राज्यं सह पाण्डवैश्चिरम्
MBh 8.64.22
धनंजयः स्थास्यति वारितो मया; जनार्दनो नैव विरोधमिच्छति युधिष्ठिरो भूतहिते सदा रतो; वृकोदरस्तद्वशगस्तथा यमौ
MBh 8.64.23
त्वया च पार्थैश्च परस्परेण; प्रजाः शिवं प्राप्नुयुरिच्छति त्वयि व्रजन्तु शेषाः स्वपुराणि पार्थिवा; निवृत्तवैराश्च भवन्तु सैनिकाः
MBh 8.64.24
न चेद्वचः श्रोष्यसि मे नराधिप; ध्रुवं प्रतप्तासि हतोऽरिभिर्युधि इदं च दृष्टं जगता सह त्वया; कृतं यदेकेन किरीटमालिना यथा न कुर्याद्बलभिन्न चान्तको; न च प्रचेता भगवान्न यक्षराट्
MBh 8.64.25
अतोऽपि भूयांश्च गुणैर्धनंजयः; स चाभिपत्स्यत्यखिलं वचो मम तवानुयात्रां च तथा करिष्यति; प्रसीद राजञ्जगतः शमाय वै
MBh 8.64.26
ममापि मानः परमः सदा त्वयि; ब्रवीम्यतस्त्वां परमाच्च सौहृदात् निवारयिष्यामि हि कर्णमप्यहं; यदा भवान्सप्रणयो भविष्यति
MBh 8.64.27
वदन्ति मित्रं सहजं विचक्षणा;स्तथैव साम्ना च धनेन चार्जितम् प्रतापतश्चोपनतं चतुर्विधं; तदस्ति सर्वं त्वयि पाण्डवेषु च
MBh 8.64.28
निसर्गतस्ते तव वीर बान्धवाः; पुनश्च साम्ना च समाप्नुहि स्थिरम् त्वयि प्रसन्ने यदि मित्रतामियु;र्ध्रुवं नरेन्द्रेन्द्र तथा त्वमाचर
MBh 8.64.29
स एवमुक्तः सुहृदा वचो हितं; विचिन्त्य निःश्वस्य च दुर्मनाब्रवीत् यथा भवानाह सखे तथैव त;न्ममापि च ज्ञापयतो वचः शृणु
MBh 8.64.30
निहत्य दुःशासनमुक्तवान्बहु; प्रसह्य शार्दूलवदेष दुर्मतिः वृकोदरस्तद्धृदये मम स्थितं; न तत्परोक्षं भवतः कुतः शमः
MBh 8.64.31
न चापि कर्णं गुरुपुत्र संस्तवा;दुपारमेत्यर्हसि वक्तुमच्युत श्रमेण युक्तो महताद्य फल्गुन;स्तमेष कर्णः प्रसभं हनिष्यति
MBh 8.64.32
तमेवमुक्त्वाभ्यनुनीय चासकृ;त्तवात्मजः स्वाननुशास्ति सैनिकान् समाघ्नताभिद्रवताहितानिमा;न्सबाणशब्दान्किमु जोषमास्यते

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 32 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.64local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷