🪷 Mahābhārata · Karṇa-Parva · Chapter 63
The Book of Karṇa · Parva 8 · 83 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 83 Shlokas
MBh 8.63.1
संजय उवाच
वृषसेनं हतं दृष्ट्वा शोकामर्षसमन्वितः
मुक्त्वा शोकोद्भवं वारि नेत्राभ्यां सहसा वृषः
MBh 8.63.2
रथेन कर्णस्तेजस्वी जगामाभिमुखो रिपून्
युद्धायामर्षताम्राक्षः समाहूय धनंजयम्
MBh 8.63.3
तौ रथौ सूर्यसंकाशौ वैयाघ्रपरिवारणौ
समेतौ ददृशुस्तत्र द्वाविवार्कौ समागतौ
MBh 8.63.4
श्वेताश्वौ पुरुषादित्यावास्थितावरिमर्दनौ
शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि
MBh 8.63.5
तौ दृष्ट्वा विस्मयं जग्मुः सर्वभूतानि मारिष
त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव
MBh 8.63.6
रथज्यातलनिर्ह्रादैर्बाणशङ्खरवैरपि
तौ रथावभिधावन्तौ समालोक्य महीक्षिताम्
MBh 8.63.7
ध्वजौ च दृष्ट्वा संसक्तौ विस्मयः समपद्यत
हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः
MBh 8.63.8
तौ रथौ संप्रसक्तौ च दृष्ट्वा भारत पार्थिवाः
सिंहनादरवांश्चक्रुः साधुवादांश्च पुष्कलान्
MBh 8.63.9
श्रुत्वा तु द्वैरथं ताभ्यां तत्र योधाः समन्ततः
चक्रुर्बाहुवलं चैव तथा चेलवलं महत्
MBh 8.63.10
आजग्मुः कुरवस्तत्र वादित्रानुगतास्तदा
कर्णं प्रहर्षयन्तश्च शङ्खान्दध्मुश्च पुष्कलान्
MBh 8.63.11
तथैव पाण्डवाः सर्वे हर्षयन्तो धनंजयम्
तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादयन्
MBh 8.63.12
क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत्
बाहुघोषाश्च वीराणां कर्णार्जुनसमागमे
MBh 8.63.13
तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ
प्रगृहीतमहाचापौ शरशक्तिगदायुधौ
MBh 8.63.14
वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभिनौ
तूणीरवरसंपन्नौ द्वावपि स्म सुदर्शनौ
MBh 8.63.15
रक्तचन्दनदिग्धाङ्गौ समदौ वृषभाविव
आशीविषसमप्रख्यौ यमकालान्तकोपमौ
MBh 8.63.16
इन्द्रवृत्राविव क्रुद्धौ सूर्याचन्द्रमसप्रभौ
महाग्रहाविव क्रूरौ युगान्ते समुपस्थितौ
MBh 8.63.17
देवगर्भौ देवसमौ देवतुल्यौ च रूपतः
समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनंजयौ
MBh 8.63.18
उभौ वरायुधधरावुभौ रणकृतश्रमौ
उभौ च बाहुशब्देन नादयन्तौ नभस्तलम्
MBh 8.63.19
उभौ विश्रुतकर्माणौ पौरुषेण बलेन च
उभौ च सदृशौ युद्धे शम्बरामरराजयोः
MBh 8.63.20
कार्तवीर्यसमौ युद्धे तथा दाशरथेः समौ
विष्णुवीर्यसमौ वीर्ये तथा भवसमौ युधि
MBh 8.63.21
उभौ श्वेतहयौ राजन्रथप्रवरवाहिनौ
सारथी प्रवरौ चैव तयोरास्तां महाबलौ
MBh 8.63.22
तौ तु दृष्ट्वा महाराज राजमानौ महारथौ
सिद्धचारणसंघानां विस्मयः समपद्यत
MBh 8.63.23
धार्तराष्ट्रास्ततः कर्णं सबला भरतर्षभ
परिवव्रुर्महात्मानं क्षिप्रमाहवशोभिनम्
MBh 8.63.24
तथैव पाण्डवा हृष्टा धृष्टद्युम्नपुरोगमाः
परिवव्रुर्महात्मानं पार्थमप्रतिमं युधि
MBh 8.63.25
तावकानां रणे कर्णो ग्लह आसीद्विशां पते
तथैव पाण्डवेयानां ग्लहः पार्थोऽभवद्युधि
MBh 8.63.26
त एव सभ्यास्तत्रासन्प्रेक्षकाश्चाभवन्स्म ते
तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ
MBh 8.63.27
ताभ्यां द्यूतं समायत्तं विजयायेतराय वा
अस्माकं पाण्डवानां च स्थितानां रणमूर्धनि
MBh 8.63.28
तौ तु स्थितौ महाराज समरे युद्धशालिनौ
अन्योन्यं प्रतिसंरब्धावन्योन्यस्य जयैषिणौ
MBh 8.63.29
तावुभौ प्रजिहीर्षेतामिन्द्रवृत्राविवाभितः
भीमरूपधरावास्तां महाधूमाविव ग्रहौ
MBh 8.63.30
ततोऽन्तरिक्षे साक्षेपा विवादा भरतर्षभ
मिथो भेदाश्च भूतानामासन्कर्णार्जुनान्तरे
व्याश्रयन्त दिशो भिन्नाः सर्वलोकाश्च मारिष
MBh 8.63.31
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः
प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे
MBh 8.63.32
द्यौरासीत्कर्णतो व्यग्रा सनक्षत्रा विशां पते
भूमिर्विशाला पार्थस्य माता पुत्रस्य भारत
MBh 8.63.33
सरितः सागराश्चैव गिरयश्च नरोत्तम
वृक्षाश्चौषधयस्तत्र व्याश्रयन्त किरीटिनम्
MBh 8.63.34
असुरा यातुधानाश्च गुह्यकाश्च परंतप
कर्णतः समपद्यन्त खेचराणि वयांसि च
MBh 8.63.35
रत्नानि निधयः सर्वे वेदाश्चाख्यानपञ्चमाः
सोपवेदोपनिषदः सरहस्याः ससंग्रहाः
MBh 8.63.36
वासुकिश्चित्रसेनश्च तक्षकश्चोपतक्षकः
पर्वताश्च तथा सर्वे काद्रवेयाश्च सान्वयाः
विषवन्तो महारोषा नागाश्चार्जुनतोऽभवन्
MBh 8.63.37
ऐरावताः सौरभेया वैशालेयाश्च भोगिनः
एतेऽभवन्नर्जुनतः क्षुद्रसर्पास्तु कर्णतः
MBh 8.63.38
ईहामृगा व्याडमृगा मङ्गल्याश्च मृगद्विजाः
पार्थस्य विजयं राजन्सर्व एवाभिसंश्रिताः
MBh 8.63.39
वसवो मरुतः साध्या रुद्रा विश्वेऽश्विनौ तथा
अग्निरिन्द्रश्च सोमश्च पवनश्च दिशो दश
धनंजयमुपाजग्मुरादित्याः कर्णतोऽभवन्
MBh 8.63.40
देवास्तु पितृभिः सार्धं सगणार्जुनतोऽभवन्
यमो वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः
MBh 8.63.41
देवब्रह्मनृपर्षीणां गणाः पाण्डवतोऽभवन्
तुम्बुरुप्रमुखा राजन्गन्धर्वाश्च यतोऽर्जुनः
MBh 8.63.42
प्रावेयाः सह मौनेयैर्गन्धर्वाप्सरसां गणाः
ईहामृगव्याडमृगैर्द्विपाश्च रथपत्तिभिः
MBh 8.63.43
उह्यमानास्तथा मेघैर्वायुना च मनीषिणः
दिदृक्षवः समाजग्मुः कर्णार्जुनसमागमम्
MBh 8.63.44
देवदानवगन्धर्वा नागा यक्षाः पतत्रिणः
महर्षयो वेदविदः पितरश्च स्वधाभुजः
MBh 8.63.45
तपो विद्यास्तथौषध्यो नानारूपाम्बरत्विषः
अन्तरिक्षे महाराज विनदन्तोऽवतस्थिरे
MBh 8.63.46
ब्रह्मा ब्रह्मर्षिभिः सार्धं प्रजापतिभिरेव च
भवेनावस्थितो यानं दिव्यं तं देशमभ्ययात्
MBh 8.63.47
दृष्ट्वा प्रजापतिं देवाः स्वयंभुवमुपागमन्
समोऽस्तु देव विजय एतयोर्नरसिंहयोः
MBh 8.63.48
तदुपश्रुत्य मघवा प्रणिपत्य पितामहम्
कर्णार्जुनविनाशेन मा नश्यत्वखिलं जगत्
MBh 8.63.49
स्वयंभो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः
तत्तथास्तु नमस्तेऽस्तु प्रसीद भगवन्मम
MBh 8.63.50
ब्रह्मेशानावथो वाक्यमूचतुस्त्रिदशेश्वरम्
विजयो ध्रुव एवास्तु विजयस्य महात्मनः
MBh 8.63.51
मनस्वी बलवाञ्शूरः कृतास्त्रश्च तपोधनः
बिभर्ति च महातेजा धनुर्वेदमशेषतः
MBh 8.63.52
अतिक्रमेच्च माहात्म्याद्दिष्टमेतस्य पर्ययात्
अतिक्रान्ते च लोकानामभावो नियतो भवेत्
MBh 8.63.53
न विद्यते व्यवस्थानं कृष्णयोः क्रुद्धयोः क्वचित्
स्रष्टारौ ह्यसतश्चोभौ सतश्च पुरुषर्षभौ
MBh 8.63.54
नरनारायणावेतौ पुराणावृषिसत्तमौ
अनियत्तौ नियन्तारावभीतौ स्म परंतपौ
MBh 8.63.55
कर्णो लोकानयं मुख्यान्प्राप्नोतु पुरुषर्षभः
वीरो वैकर्तनः शूरो विजयस्त्वस्तु कृष्णयोः
MBh 8.63.56
वसूनां च सलोकत्वं मरुतां वा समाप्नुयात्
सहितो द्रोणभीष्माभ्यां नाकलोके महीयताम्
MBh 8.63.57
इत्युक्तो देवदेवाभ्यां सहस्राक्षोऽब्रवीद्वचः
आमन्त्र्य सर्वभूतानि ब्रह्मेशानानुशासनात्
MBh 8.63.58
श्रुतं भवद्भिर्यत्प्रोक्तं भगवद्भ्यां जगद्धितम्
तत्तथा नान्यथा तद्धि तिष्ठध्वं गतमन्यवः
MBh 8.63.59
इति श्रुत्वेन्द्रवचनं सर्वभूतानि मारिष
विस्मितान्यभवन्राजन्पूजयां चक्रिरे च तत्
MBh 8.63.60
व्यसृजंश्च सुगन्धीनि नानारूपाणि खात्तथा
पुष्पवर्षाणि विबुधा देवतूर्याण्यवादयन्
MBh 8.63.61
दिदृक्षवश्चाप्रतिमं द्वैरथं नरसिंहयोः
देवदानवगन्धर्वाः सर्व एवावतस्थिरे
रथौ च तौ श्वेतहयौ युक्तकेतू महास्वनौ
MBh 8.63.62
समागता लोकवीराः शङ्खान्दध्मुः पृथक्पृथक्
वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत
MBh 8.63.63
तद्भीरुसंत्रासकरं युद्धं समभवत्तदा
अन्योन्यस्पर्धिनोर्वीर्ये शक्रशम्बरयोरिव
MBh 8.63.64
तयोर्ध्वजौ वीतमालौ शुशुभाते रथस्थितौ
पृथग्रूपौ समार्छन्तौ क्रोधं युद्धे परस्परम्
MBh 8.63.65
कर्णस्याशीविषनिभा रत्नसारवती दृढा
पुरंदरधनुःप्रख्या हस्तिकक्ष्या व्यराजत
MBh 8.63.66
कपिश्रेष्ठस्तु पार्थस्य व्यादितास्यो भयंकरः
भीषयन्नेव दंष्ट्राभिर्दुर्निरीक्ष्यो रविर्यथा
MBh 8.63.67
युद्धाभिलाषुको भूत्वा ध्वजो गाण्डीवधन्वनः
कर्णध्वजमुपातिष्ठत्सोऽवदीदभिनर्दयन्
MBh 8.63.68
उत्पत्य च महावेगः कक्ष्यामभ्यहनत्कपिः
नखैश्च दशनैश्चैव गरुडः पन्नगं यथा
MBh 8.63.69
सुकिङ्किणीकाभरणा कालपाशोपमायसी
अभ्यद्रवत्सुसंक्रुद्धा नागकक्ष्या महाकपिम्
MBh 8.63.70
उभयोरुत्तमे युद्धे द्वैरथे द्यूत आहृते
प्रकुर्वाते ध्वजौ युद्धं प्रत्यहेषन्हयान्हयाः
MBh 8.63.71
अविध्यत्पुण्डरीकाक्षः शल्यं नयनसायकैः
स चापि पुण्डरीकाक्षं तथैवाभिसमैक्षत
MBh 8.63.72
तत्राजयद्वासुदेवः शल्यं नयनसायकैः
कर्णं चाप्यजयद्दृष्ट्या कुन्तीपुत्रो धनंजयः
MBh 8.63.73
अथाब्रवीत्सूतपुत्रः शल्यमाभाष्य सस्मितम्
यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित्
किमुत्तरं तदा ते स्यात्सखे सत्यं ब्रवीहि मे
MBh 8.63.74
शल्य उवाच
यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः
उभावेकरथेनाहं हन्यां माधवपाण्डवौ
MBh 8.63.75
संजय उवाच
एवमेव तु गोविंदमर्जुनः प्रत्यभाषत
तं प्रहस्याब्रवीत्कृष्णः पार्थं परमिदं वचः
MBh 8.63.76
पतेद्दिवाकरः स्थानाच्छीर्येतानेकधा क्षितिः
शैत्यमग्निरियान्न त्वा कर्णो हन्याद्धनंजयम्
MBh 8.63.77
यदि त्वेवं कथंचित्स्याल्लोकपर्यसनं यथा
हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे
MBh 8.63.78
इति कृष्णवचः श्रुत्वा प्रहसन्कपिकेतनः
अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम्
ममाप्येतावपर्याप्तौ कर्णशल्यौ जनार्दन
MBh 8.63.79
सपताकाध्वजं कर्णं सशल्यरथवाजिनम्
सच्छत्रकवचं चैव सशक्तिशरकार्मुकम्
MBh 8.63.80
द्रष्टास्यद्य शरैः कर्णं रणे कृत्तमनेकधा
अद्यैनं सरथं साश्वं सशक्तिकवचायुधम्
न हि मे शाम्यते वैरं कृष्णां यत्प्राहसत्पुरा
MBh 8.63.81
अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मया
वारणेनेव मत्तेन पुष्पितं जगतीरुहम्
MBh 8.63.82
अद्य ता मधुरा वाचः श्रोतासि मधुसूदन
अद्याभिमन्युजननीमनृणः सान्त्वयिष्यसि
कुन्तीं पितृष्वसारं च संप्रहृष्टो जनार्दन
MBh 8.63.83
अद्य बाष्पमुखीं कृष्णां सान्त्वयिष्यसि माधव
वाग्भिश्चामृतकल्पाभिर्धर्मराजं युधिष्ठिरम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 62
- Next chapter · Karṇa-Parva Ch 64 →
Sources and Connected Readings
Continue from these 83 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.63local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷