🪷 Mahābhārata · Karṇa-Parva · Chapter 62

The Book of Karṇa · Parva 8 · 62 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 62 Shlokas

MBh 8.62.1
संजय उवाच दुःशासने तु निहते पुत्रास्तव महारथाः महाक्रोधविषा वीराः समरेष्वपलायिनः दश राजन्महावीर्यो भीमं प्राच्छादयञ्शरैः
MBh 8.62.2
कवची निषङ्गी पाशी दण्डधारो धनुर्धरः अलोलुपः शलः संधो वातवेगसुवर्चसौ
MBh 8.62.3
एते समेत्य सहिता भ्रातृव्यसनकर्शिताः भीमसेनं महाबाहुं मार्गणैः समवारयन्
MBh 8.62.4
स वार्यमाणो विशिखैः समन्तात्तैर्महारथैः भीमः क्रोधाभिरक्ताक्षः क्रुद्धः काल इवाबभौ
MBh 8.62.5
तांस्तु भल्लैर्महावेगैर्दशभिर्दशभिः शितैः रुक्माङ्गदो रुक्मपुङ्खैः पार्थो निन्ये यमक्षयम्
MBh 8.62.6
हतेषु तेषु वीरेषु प्रदुद्राव बलं तव पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम्
MBh 8.62.7
ततः कर्णो महाराज प्रविवेश महारणम् दृष्ट्वा भीमस्य विक्रान्तमन्तकस्य प्रजास्विव
MBh 8.62.8
तस्य त्वाकारभावज्ञः शल्यः समितिशोभनः उवाच वचनं कर्णं प्राप्तकालमरिंदम मा व्यथां कुरु राधेय नैतत्त्वय्युपपद्यते
MBh 8.62.9
एते द्रवन्ति राजानो भीमसेनभयार्दिताः दुर्योधनश्च संमूढो भ्रातृव्यसनदुःखितः
MBh 8.62.10
दुःशासनस्य रुधिरे पीयमाने महात्मना व्यापन्नचेतसश्चैव शोकोपहतमन्यवः
MBh 8.62.11
दुर्योधनमुपासन्ते परिवार्य समन्ततः कृपप्रभृतयः कर्ण हतशेषाश्च सोदराः
MBh 8.62.12
पाण्डवा लब्धलक्षाश्च धनंजयपुरोगमाः त्वामेवाभिमुखाः शूरा युद्धाय समुपास्थिताः
MBh 8.62.13
स त्वं पुरुषशार्दूल पौरुषे महति स्थितः क्षत्रधर्मं पुरस्कृत्य प्रत्युद्याहि धनंजयम्
MBh 8.62.14
भारो हि धार्तराष्ट्रेण त्वयि सर्वः समर्पितः तमुद्वह महाबाहो यथाशक्ति यथाबलम् जये स्याद्विपुला कीर्तिर्ध्रुवः स्वर्गः पराजये
MBh 8.62.15
वृषसेनश्च राधेय संक्रुद्धस्तनयस्तव त्वयि मोहसमापन्ने पाण्डवानभिधावति
MBh 8.62.16
एतच्छ्रुत्वा तु वचनं शल्यस्यामिततेजसः हृदि मानुष्यकं भावं चक्रे युद्धाय सुस्थिरम्
MBh 8.62.17
ततः क्रुद्धो वृषसेनोऽभ्यधाव;दातस्थिवांसं स्वरथं हतारिम् वृकोदरं कालमिवात्तदण्डं; गदाहस्तं पोथमानं त्वदीयान्
MBh 8.62.18
तमभ्यधावन्नकुलः प्रवीरो; रोषादमित्रं प्रतुदन्पृषत्कैः कर्णस्य पुत्रं समरे प्रहृष्टं; जिष्णुर्जिघांसुर्मघवेव जम्भम्
MBh 8.62.19
ततो ध्वजं स्फाटिकचित्रकम्बुं; चिच्छेद वीरो नकुलः क्षुरेण कर्णात्मजस्येष्वसनं च चित्रं; भल्लेन जाम्बूनदपट्टनद्धम्
MBh 8.62.20
अथान्यदादाय धनुः सुशीघ्रं; कर्णात्मजः पाण्डवमभ्यविध्यत् दिव्यैर्महास्त्रैर्नकुलं महास्त्रो; दुःशासनस्यापचितिं यियासुः
MBh 8.62.21
ततः क्रुद्धो नकुलस्तं महात्मा; शरैर्महोल्काप्रतिमैरविध्यत् दिव्यैरस्त्रैरभ्यविध्यच्च सोऽपि; कर्णस्य पुत्रो नकुलं कृतास्त्रः
MBh 8.62.22
कर्णस्य पुत्रो नकुलस्य राज;न्सर्वानश्वानक्षिणोदुत्तमास्त्रैः वनायुजान्सुकुमारस्य शुभ्रा;नलंकृताञ्जातरूपेण शीघ्रान्
MBh 8.62.23
ततो हताश्वादवरुह्य याना;दादाय चर्म रुचिरं चाष्टचन्द्रम् आकाशसंकाशमसिं गृहीत्वा; पोप्लूयमानः खगवच्चचार
MBh 8.62.24
ततोऽन्तरिक्षे नृवराश्वनागां;श्चिच्छेद मार्गान्विचरन्विचित्रान् ते प्रापतन्नसिना गां विशस्ता; यथाश्वमेधे पशवः शमित्रा
MBh 8.62.25
द्विसाहस्रा विदिता युद्धशौण्डा; नानादेश्याः सुभृताः सत्यसंधाः एकेन शीघ्रं नकुलेन कृत्ताः; सारेप्सुनेवोत्तमचन्दनास्ते
MBh 8.62.26
तमापतन्तं नकुलं सोऽभिपत्य; समन्ततः सायकैरभ्यविध्यत् स तुद्यमानो नकुलः पृषत्कै;र्विव्याध वीरं स चुकोप विद्धः
MBh 8.62.27
तं कर्णपुत्रो विधमन्तमेकं; नराश्वमातङ्गरथप्रवेकान् क्रीडन्तमष्टादशभिः पृषत्कै;र्विव्याध वीरं स चुकोप विद्धः
MBh 8.62.28
ततोऽभ्यधावत्समरे जिघांसुः; कर्णात्मजं पाण्डुसुतो नृवीरः तस्येषुभिर्व्यधमत्कर्णपुत्रो; महारणे चर्म सहस्रतारम्
MBh 8.62.29
तस्यायसं निशितं तीक्ष्णधार;मसिं विकोशं गुरुभारसाहम् द्विषच्छरीरापहरं सुघोर;माधुन्वतः सर्पमिवोग्ररूपम्
MBh 8.62.30
क्षिप्रं शरैः षड्भिरमित्रसाह;श्चकर्त खड्गं निशितैः सुधारैः पुनश्च पीतैर्निशितैः पृषत्कैः; स्तनान्तरे गाढमथाभ्यविध्यत्
MBh 8.62.31
स भीमसेनस्य रथं हताश्वो; माद्रीसुतः कर्णसुताभितप्तः आपुप्लुवे सिंह इवाचलाग्रं; संप्रेक्षमाणस्य धनंजयस्य
MBh 8.62.32
नकुलमथ विदित्वा छिन्नबाणासनासिं; विरथमरिशरार्तं कर्णपुत्रास्त्रभग्नम् पवनधुतपताका ह्रादिनो वल्गिताश्वा; वरपुरुषनियत्तास्ते रथाः शीघ्रमीयुः
MBh 8.62.33
द्रुपदसुतवरिष्ठाः पञ्च शैनेयषष्ठा; द्रुपददुहितृपुत्राः पञ्च चामित्रसाहाः द्विरदरथनराश्वान्सूदयन्तस्त्वदीया;न्भुजगपतिनिकाशैर्मार्गणैरात्तशस्त्राः
MBh 8.62.34
अथ तव रथमुख्यास्तान्प्रतीयुस्त्वरन्तो; हृदिकसुतकृपौ च द्रौणिदुर्योधनौ च शकुनिशुकवृकाश्च क्राथदेवावृधौ च; द्विरदजलदघोषैः स्यन्दनैः कार्मुकैश्च
MBh 8.62.35
तव नरवरवर्यास्तान्दशैकं च वीरा;न्प्रवरशरवराग्र्यैस्ताडयन्तोऽभ्यरुन्धन् नवजलदसवर्णैर्हस्तिभिस्तानुदीयु;र्गिरिशिखरनिकाशैर्भीमवेगैः कुणिन्दाः
MBh 8.62.36
सुकल्पिता हैमवता मदोत्कटा; रणाभिकामैः कृतिभिः समास्थिताः सुवर्णजालावतता बभुर्गजा;स्तथा यथा वै जलदाः सविद्युतः
MBh 8.62.37
कुणिन्दपुत्रो दशभिर्महायसैः; कृपं ससूताश्वमपीडयद्भृशम् ततः शरद्वत्सुतसायकैर्हतः; सहैव नागेन पपात भूतले
MBh 8.62.38
कुणिन्दपुत्रावरजस्तु तोमरै;र्दिवाकरांशुप्रतिमैरयस्मयैः रथं च विक्षोभ्य ननाद नर्दत;स्ततोऽस्य गान्धारपतिः शिरोऽहरत्
MBh 8.62.39
ततः कुणिन्देषु हतेषु तेष्वथ; प्रहृष्टरूपास्तव ते महारथाः भृशं प्रदध्मुर्लवणाम्बुसंभवा;न्परांश्च बाणासनपाणयोऽभ्ययुः
MBh 8.62.40
अथाभवद्युद्धमतीव दारुणं; पुनः कुरूणां सह पाण्डुसृञ्जयैः शरासिशक्त्यृष्टिगदापरश्वधै;र्नराश्वनागासुहरं भृशाकुलम्
MBh 8.62.41
रथाश्वमातङ्गपदातिभिस्ततः; परस्परं विप्रहतापतन्क्षितौ यथा सविद्युत्स्तनिता बलाहकाः; समास्थिता दिग्भ्य इवोग्रमारुतैः
MBh 8.62.42
ततः शतानीकहतान्महागजां;स्तथा रथान्पत्तिगणांश्च तावकान् जघान भोजश्च हयानथापत;न्विशस्त्रकृत्ताः कृतवर्मणा द्विपाः
MBh 8.62.43
अथापरे द्रौणिशराहता द्विपा;स्त्रयः ससर्वायुधयोधकेतवः निपेतुरुर्व्यां व्यसवः प्रपातिता;स्तथा यथा वज्रहता महाचलाः
MBh 8.62.44
कुणिन्दराजावरजादनन्तरः; स्तनान्तरे पत्रिवरैरताडयत् तवात्मजं तस्य तवात्मजः शरैः; शितैः शरीरं बिभिदे द्विपं च तम्
MBh 8.62.45
स नागराजः सह राजसूनुना; पपात रक्तं बहु सर्वतः क्षरन् शचीशवज्रप्रहतोऽम्बुदागमे; यथा जलं गैरिकपर्वतस्तथा
MBh 8.62.46
कुणिन्दपुत्रप्रहितोऽपरद्विपः; शुकं ससूताश्वरथं व्यपोथयत् ततोऽपतत्क्राथशराभिदारितः; सहेश्वरो वज्रहतो यथा गिरिः
MBh 8.62.47
रथी द्विपस्थेन हतोऽपतच्छरैः; क्राथाधिपः पर्वतजेन दुर्जयः सवाजिसूतेष्वसनस्तथापत;द्यथा महावातहतो महाद्रुमः
MBh 8.62.48
वृको द्विपस्थं गिरिराजवासिनं; भृशं शरैर्द्वादशभिः पराभिनत् ततो वृकं साश्वरथं महाजवं; त्वरंश्चतुर्भिश्चरणे व्यपोथयत्
MBh 8.62.49
स नागराजः सनियन्तृकोऽपत;त्पराहतो बभ्रुसुतेषुभिर्भृशम् स चापि देवावृधसूनुरर्दितः; पपात नुन्नः सहदेवसूनुना
MBh 8.62.50
विषाणपोत्रापरगात्रघातिना; गजेन हन्तुं शकुनेः कुणिन्दजः जगाम वेगेन भृशार्दयंश्च तं; ततोऽस्य गान्धारपतिः शिरोऽहरत्
MBh 8.62.51
ततः शतानीकहता महागजा; हया रथाः पत्तिगणाश्च तावकाः सुपर्णवातप्रहता यथा नगा;स्तथा गता गामवशा विचूर्णिताः
MBh 8.62.52
ततोऽभ्यविध्यद्बहुभिः शितैः शरैः; कुणिन्दपुत्रो नकुलात्मजं स्मयन् ततोऽस्य कायान्निचकर्त नाकुलिः; शिरः क्षुरेणाम्बुजसंनिभाननम्
MBh 8.62.53
ततः शतानीकमविध्यदाशुगै;स्त्रिभिः शितैः कर्णसुतोऽर्जुनं त्रिभिः त्रिभिश्च भीमं नकुलं च सप्तभि;र्जनार्दनं द्वादशभिश्च सायकैः
MBh 8.62.54
तदस्य कर्मातिमनुष्यकर्मणः; समीक्ष्य हृष्टाः कुरवोऽभ्यपूजयन् पराक्रमज्ञास्तु धनंजयस्य ते; हुतोऽयमग्नाविति तं तु मेनिरे
MBh 8.62.55
ततः किरीटी परवीरघाती; हताश्वमालोक्य नरप्रवीरम् तमभ्यधावद्वृषसेनमाहवे; स सूतजस्य प्रमुखे स्थितं तदा
MBh 8.62.56
तमापतन्तं नरवीरमुग्रं; महाहवे बाणसहस्रधारिणम् अभ्यापतत्कर्णसुतो महारथो; यथैव चेन्द्रं नमुचिः पुरातने
MBh 8.62.57
ततोऽद्भुतेनैकशतेन पार्थं; शरैर्विद्ध्वा सूतपुत्रस्य पुत्रः ननाद नादं सुमहानुभावो; विद्ध्वेव शक्रं नमुचिः पुरा वै
MBh 8.62.58
पुनः स पार्थं वृषसेन उग्रै;र्बाणैरविध्यद्भुजमूलमध्ये तथैव कृष्णं नवभिः समार्दय;त्पुनश्च पार्थं दशभिः शिताग्रैः
MBh 8.62.59
ततः किरीटी रणमूर्ध्नि कोपा;त्कृत्वा त्रिशाखां भ्रुकुटिं ललाटे मुमोच बाणान्विशिखान्महात्मा; वधाय राजन्सूतपुत्रस्य संख्ये
MBh 8.62.60
विव्याध चैनं दशभिः पृषत्कै;र्मर्मस्वसक्तं प्रसभं किरीटी चिच्छेद चास्येष्वसनं भुजौ च; क्षुरैश्चतुर्भिः शिर एव चोग्रैः
MBh 8.62.61
स पार्थबाणाभिहतः पपात; रथाद्विबाहुर्विशिरा धरायाम् सुपुष्पितः पर्णधरोऽतिकायो; वातेरितः शाल इवाद्रिशृङ्गात्
MBh 8.62.62
तं प्रेक्ष्य बाणाभिहतं पतन्तं; रथात्सुतं सूतजः क्षिप्रकारी रथं रथेनाशु जगाम वेगा;त्किरीटिनः पुत्रवधाभितप्तः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 62 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.62local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷