🪷 Mahābhārata · Karṇa-Parva · Chapter 61

The Book of Karṇa · Parva 8 · 17 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 17 Shlokas

MBh 8.61.1
संजय उवाच तत्राकरोद्दुष्करं राजपुत्रो; दुःशासनस्तुमुले युध्यमानः चिच्छेद भीमस्य धनुः क्षुरेण; षड्भिः शरैः सारथिमप्यविध्यत्
MBh 8.61.2
ततोऽभिनद्बहुभिः क्षिप्रमेव; वरेषुभिर्भीमसेनं महात्मा स विक्षरन्नाग इव प्रभिन्नो; गदामस्मै तुमुले प्राहिणोद्वै
MBh 8.61.3
तयाहरद्दश धन्वन्तराणि; दुःशासनं भीमसेनः प्रसह्य तया हतः पतितो वेपमानो; दुःशासनो गदया वेगवत्या
MBh 8.61.4
हयाः ससूताश्च हता नरेन्द्र; चूर्णीकृतश्चास्य रथः पतन्त्या विध्वस्तवर्माभरणाम्बरस्र;ग्विचेष्टमानो भृशवेदनार्तः
MBh 8.61.5
ततः स्मृत्वा भीमसेनस्तरस्वी; सापत्नकं यत्प्रयुक्तं सुतैस्ते रथादवप्लुत्य गतः स भूमौ; यत्नेन तस्मिन्प्रणिधाय चक्षुः
MBh 8.61.6
असिं समुद्धृत्य शितं सुधारं; कण्ठे समाक्रम्य च वेपमानम् उत्कृत्य वक्षः पतितस्य भूमा;वथापिबच्छोणितमस्य कोष्णम् आस्वाद्य चास्वाद्य च वीक्षमाणः; क्रुद्धोऽतिवेलं प्रजगाद वाक्यम्
MBh 8.61.7
स्तन्यस्य मातुर्मधुसर्पिषो वा; माध्वीकपानस्य च सत्कृतस्य दिव्यस्य वा तोयरसस्य पाना;त्पयोदधिभ्यां मथिताच्च मुख्यात् सर्वेभ्य एवाभ्यधिको रसोऽयं; मतो ममाद्याहितलोहितस्य
MBh 8.61.8
एवं ब्रुवाणं पुनराद्रवन्त;मास्वाद्य वल्गन्तमतिप्रहृष्टम् ये भीमसेनं ददृशुस्तदानीं; भयेन तेऽपि व्यथिता निपेतुः
MBh 8.61.9
ये चापि तत्रापतिता मनुष्या;स्तेषां करेभ्यः पतितं च शस्त्रम् भयाच्च संचुक्रुशुरुच्चकैस्ते; निमीलिताक्षा ददृशुश्च तन्न
MBh 8.61.10
ये तत्र भीमं ददृशुः समन्ता;द्दौःशासनं तद्रुधिरं पिबन्तम् सर्वे पलायन्त भयाभिपन्ना; नायं मनुष्य इति भाषमाणाः
MBh 8.61.11
शृण्वतां लोकवीराणामिदं वचनमब्रवीत् एष ते रुधिरं कण्ठात्पिबामि पुरुषाधम ब्रूहीदानीं सुसंरब्धः पुनर्गौरिति गौरिति
MBh 8.61.12
प्रमाणकोट्यां शयनं कालकूटस्य भोजनम् दशनं चाहिभिः कष्टं दाहं च जतुवेश्मनि
MBh 8.61.13
द्यूतेन राज्यहरणमरण्ये वसतिश्च या इष्वस्त्राणि च संग्रामेष्वसुखानि च वेश्मनि
MBh 8.61.14
दुःखान्येतानि जानीमो न सुखानि कदाचन धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य सदा वयम्
MBh 8.61.15
इत्युक्त्वा वचनं राजञ्जयं प्राप्य वृकोदरः पुनराह महाराज स्मयंस्तौ केशवार्जुनौ
MBh 8.61.16
दुःशासने यद्रणे संश्रुतं मे; तद्वै सर्वं कृतमद्येह वीरौ अद्यैव दास्याम्यपरं द्वितीयं; दुर्योधनं यज्ञपशुं विशस्य शिरो मृदित्वा च पदा दुरात्मनः; शान्तिं लप्स्ये कौरवाणां समक्षम्
MBh 8.61.17
एतावदुक्त्वा वचनं प्रहृष्टो; ननाद चोच्चै रुधिरार्द्रगात्रः ननर्त चैवातिबलो महात्मा; वृत्रं निहत्येव सहस्रनेत्रः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 17 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.61local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷