🪷 Mahābhārata · Karṇa-Parva · Chapter 60

The Book of Karṇa · Parva 8 · 33 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 33 Shlokas

MBh 8.60.1
संजय उवाच ततः कर्णः कुरुषु प्रद्रुतेषु; वरूथिना श्वेतहयेन राजन् पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो; महेषुभिर्वात इवाभ्रसंघान्
MBh 8.60.2
सूतं रथादञ्जलिकेन पात्य; जघान चाश्वाञ्जनमेजयस्य शतानीकं सुतसोमं च भल्लै;रवाकिरद्धनुषी चाप्यकृन्तत्
MBh 8.60.3
धृष्टद्युम्नं निर्बिभेदाथ षड्भि;र्जघान चाश्वं दक्षिणं तस्य संख्ये हत्वा चाश्वान्सात्यकेः सूतपुत्रः; कैकेयपुत्रं न्यवधीद्विशोकम्
MBh 8.60.4
तमभ्यधावन्निहते कुमारे; कैकेयसेनापतिरुग्रधन्वा शरैर्विभिन्नं भृशमुग्रवेगैः; कर्णात्मजं सोऽभ्यहनत्सुषेणम्
MBh 8.60.5
तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त; प्रसह्य बाहू च शिरश्च कर्णः स स्यन्दनाद्गामपतद्गतासुः; परश्वधैः शाल इवावरुग्णः
MBh 8.60.6
हताश्वमञ्जोगतिभिः सुषेणः; शिनिप्रवीरं निशितैः पृषत्कैः प्रच्छाद्य नृत्यन्निव सौतिपुत्रः; शैनेयबाणाभिहतः पपात
MBh 8.60.7
पुत्रे हते क्रोधपरीतचेताः; कर्णः शिनीनामृषभं जिघांसुः हतोऽसि शैनेय इति ब्रुवन्स; व्यवासृजद्बाणममित्रसाहम्
MBh 8.60.8
स तस्य चिच्छेद शरं शिखण्डी; त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम् शिखण्डिनः कार्मुकं स ध्वजं च; च्छित्त्वा शराभ्यामहनत्सुजातम्
MBh 8.60.9
शिखण्डिनं षड्भिरविध्यदुग्रो; दान्तो धार्ष्टद्युम्नशिरश्चकर्त अथाभिनत्सुतसोमं शरेण; स संशितेनाधिरथिर्महात्मा
MBh 8.60.10
अथाक्रन्दे तुमुले वर्तमाने; धार्ष्टद्युम्ने निहते तत्र कृष्णः अपाञ्चाल्यं क्रियते याहि पार्थ; कर्णं जहीत्यब्रवीद्राजसिंह
MBh 8.60.11
ततः प्रहस्याशु नरप्रवीरो; रथं रथेनाधिरथेर्जगाम भये तेषां त्राणमिच्छन्सुबाहु;रभ्याहतानां रथयूथपेन
MBh 8.60.12
विस्फार्य गाण्डीवमथोग्रघोषं; ज्यया समाहत्य तले भृशं च बाणान्धकारं सहसैव कृत्वा; जघान नागाश्वरथान्नरांश्च
MBh 8.60.13
तं भीमसेनोऽनु ययौ रथेन; पृष्ठे रक्षन्पाण्डवमेकवीरम् तौ राजपुत्रौ त्वरितौ रथाभ्यां; कर्णाय यातावरिभिर्विमुक्तौ
MBh 8.60.14
अत्रान्तरे सुमहत्सूतपुत्र;श्चक्रे युद्धं सोमकान्संप्रमृद्नन् रथाश्वमातङ्गगणाञ्जघान; प्रच्छादयामास दिशः शरैश्च
MBh 8.60.15
तमुत्तमौजा जनमेजयश्च; क्रुद्धौ युधामन्युशिखण्डिनौ च कर्णं विनेदुः सहिताः पृषत्कैः; संमर्दमानाः सह पार्षतेन
MBh 8.60.16
ते पञ्च पाञ्चालरथाः सुरूपै;र्वैकर्तनं कर्णमभिद्रवन्तः तस्माद्रथाच्च्यावयितुं न शेकु;र्धैर्यात्कृतात्मानमिवेन्द्रियाणि
MBh 8.60.17
तेषां धनूंषि ध्वजवाजिसूतां;स्तूणं पताकाश्च निकृत्य बाणैः तान्पञ्चभिः स त्वहनत्पृषत्कैः; कर्णस्ततः सिंह इवोन्ननाद
MBh 8.60.18
तस्यास्यतस्तानभिनिघ्नतश्च; ज्याबाणहस्तस्य धनुःस्वनेन साद्रिद्रुमा स्यात्पृथिवी विशीर्णा; इत्येव मत्वा जनता व्यषीदत्
MBh 8.60.19
स शक्रचापप्रतिमेन धन्वना; भृशाततेनाधिरथिः शरान्सृजन् बभौ रणे दीप्तमरीचिमण्डलो; यथांशुमाली परिवेषवांस्तथा
MBh 8.60.20
शिखण्डिनं द्वादशभिः पराभिन;च्छितैः शरैः षड्भिरथोत्तमौजसम् त्रिभिर्युधामन्युमविध्यदाशुगै;स्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ
MBh 8.60.21
पराजिताः पञ्च महारथास्तु ते; महाहवे सूतसुतेन मारिष निरुद्यमास्तस्थुरमित्रमर्दना; यथेन्द्रियार्थात्मवता पराजिताः
MBh 8.60.22
निमज्जतस्तानथ कर्णसागरे; विपन्ननावो वणिजो यथार्णवे उद्दध्रिरे नौभिरिवार्णवाद्रथैः; सुकल्पितैर्द्रौपदिजाः स्वमातुलान्
MBh 8.60.23
ततः शिनीनामृषभः शितैः शरै;र्निकृत्य कर्णप्रहितानिषून्बहून् विदार्य कर्णं निशितैरयस्मयै;स्तवात्मजं ज्येष्ठमविध्यदष्टभिः
MBh 8.60.24
कृपोऽथ भोजश्च तवात्मजस्तथा; स्वयं च कर्णो निशितैरताडयत् स तैश्चतुर्भिर्युयुधे यदूत्तमो; दिगीश्वरैर्दैत्यपतिर्यथा तथा
MBh 8.60.25
समानतेनेष्वसनेन कूजता; भृशाततेनामितबाणवर्षिणा बभूव दुर्धर्षतरः स सात्यकिः; शरन्नभोमध्यगतो यथा रविः
MBh 8.60.26
पुनः समासाद्य रथान्सुदंशिताः; शिनिप्रवीरं जुगुपुः परंतपाः समेत्य पाञ्चालरथा महारणे; मरुद्गणाः शक्रमिवारिनिग्रहे
MBh 8.60.27
ततोऽभवद्युद्धमतीव दारुणं; तवाहितानां तव सैनिकैः सह रथाश्वमातङ्गविनाशनं तथा; यथा सुराणामसुरैः पुराभवत्
MBh 8.60.28
रथद्विपा वाजिपदातयोऽपि वा; भ्रमन्ति नानाविधशस्त्रवेष्टिताः परस्परेणाभिहताश्च चस्खलु;र्विनेदुरार्ता व्यसवोऽपतन्त च
MBh 8.60.29
तथा गते भीममभीस्तवात्मजः; ससार राजावरजः किरञ्शरैः तमभ्यधावत्त्वरितो वृकोदरो; महारुरुं सिंह इवाभिपेतिवान्
MBh 8.60.30
ततस्तयोर्युद्धमतीतमानुषं; प्रदीव्यतोः प्राणदुरोदरेऽभवत् परस्परेणाभिनिविष्टरोषयो;रुदग्रयोः शम्बरशक्रयोर्यथा
MBh 8.60.31
शरैः शरीरान्तकरैः सुतेजनै;र्निजघ्नतुस्तावितरेतरं भृशम् सकृत्प्रभिन्नाविव वाशितान्तरे; महागजौ मन्मथसक्तचेतसौ
MBh 8.60.32
तवात्मजस्याथ वृकोदरस्त्वर;न्धनुः क्षुराभ्यां ध्वजमेव चाच्छिनत् ललाटमप्यस्य बिभेद पत्रिणा; शिरश्च कायात्प्रजहार सारथेः
MBh 8.60.33
स राजपुत्रोऽन्यदवाप्य कार्मुकं; वृकोदरं द्वादशभिः पराभिनत् स्वयं नियच्छंस्तुरगानजिह्मगैः; शरैश्च भीमं पुनरभ्यवीवृषत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 33 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.60local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷