🪷 Mahābhārata · Karṇa-Parva · Chapter 59

The Book of Karṇa · Parva 8 · 45 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 45 Shlokas

MBh 8.59.1
संजय उवाच तं तु यान्तं महावेगैरश्वैः कपिवरध्वजम् युद्धायाभ्यद्रवन्वीराः कुरूणां नवती रथाः परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम्
MBh 8.59.2
कृष्णः श्वेतान्महावेगानश्वान्कनकभूषणान् मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति
MBh 8.59.3
ततः कर्णरथं यान्तमरीन्घ्नन्तं धनंजयम् बाणवर्षैरभिघ्नन्तः संशप्तकरथा ययुः
MBh 8.59.4
त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान् जघान नवतिं वीरानर्जुनो निशितैः शरैः
MBh 8.59.5
तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना सविमाना यथा सिद्धाः स्वर्गात्पुण्यक्षये तथा
MBh 8.59.6
ततः सरथनागाश्वाः कुरवः कुरुसत्तम निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम्
MBh 8.59.7
तदायस्तममुक्तास्त्रमुदीर्णवरवारणम् पुत्राणां ते महत्सैन्यं समरौत्सीद्धनंजयः
MBh 8.59.8
शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैः प्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम्
MBh 8.59.9
तां कुरूणां प्रविततां शस्त्रवृष्टिं समुद्यताम् व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः
MBh 8.59.10
ततो म्लेच्छाः स्थितैर्मत्तैस्त्रयोदशशतैर्गजैः पार्श्वतोऽभ्यहनन्पार्थं तव पुत्रस्य शासनात्
MBh 8.59.11
कर्णिनालीकनाराचैस्तोमरैः प्रासशक्तिभिः कम्पनैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन्
MBh 8.59.12
तामस्त्रवृष्टिं प्रहितां द्विपस्थैर्यवनैः स्मयन् चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः
MBh 8.59.13
अथ तान्द्विरदान्सर्वान्नानालिङ्गैर्महाशरैः सपताकान्सहारोहान्गिरीन्वज्रैरिवाभिनत्
MBh 8.59.14
ते हेमपुङ्खैरिषुभिराचिता हेममालिनः हताः पेतुर्महानागाः साग्निज्वाला इवाद्रयः
MBh 8.59.15
ततो गाण्डीवनिर्घोषो महानासीद्विशां पते स्तनतां कूजतां चैव मनुष्यगजवाजिनाम्
MBh 8.59.16
कुञ्जराश्च हता राजन्प्राद्रवंस्ते समन्ततः अश्वाश्च पर्यधावन्त हतारोहा दिशो दश
MBh 8.59.17
रथा हीना महाराज रथिभिर्वाजिभिस्तथा गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः
MBh 8.59.18
अश्वारोहा महाराज धावमानास्ततस्ततः तत्र तत्रैव दृश्यन्ते पतिताः पार्थसायकैः
MBh 8.59.19
तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि
MBh 8.59.20
ततस्त्र्यङ्गेण महता बलेन भरतर्षभ दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम्
MBh 8.59.21
हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान् जवेनाभ्यद्रवद्राजन्धनंजयरथं प्रति
MBh 8.59.22
ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम् दृष्ट्वा यदर्जुनं भीमो जगाम भ्रातरं प्रति
MBh 8.59.23
हतावशिष्टांस्तुरगानर्जुनेन महाजवान् भीमो व्यधमदभ्रान्तो गदापाणिर्महाहवे
MBh 8.59.24
कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम् प्राकाराट्टपुरद्वारदारणीमतिदारुणाम्
MBh 8.59.25
ततो गदां नृनागाश्वेष्वाशु भीमो व्यवासृजत् सा जघान बहूनश्वानश्वारोहांश्च मारिष
MBh 8.59.26
कांस्यायसतनुत्रांस्तान्नरानश्वांश्च पाण्डवः पोथयामास गदया सशब्दं तेऽपतन्हताः
MBh 8.59.27
हत्वा तु तद्गजानीकं भीमसेनो महाबलः पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमन्वगात्
MBh 8.59.28
हतं पराङ्मुखप्रायं निरुत्साहं परं बलम् व्यालम्बत महाराज प्रायशः शस्त्रवेष्टितम्
MBh 8.59.29
विलम्बमानं तत्सैन्यमप्रगल्भमवस्थितम् दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः प्राणतापनैः
MBh 8.59.30
ततः कुरूणामभवदार्तनादो महामृधे रथाश्वनागासुहरैर्वध्यतामर्जुनेषुभिः
MBh 8.59.31
हाहाकृतं भृशं तस्थौ लीयमानं परस्परम् अलातचक्रवत्सैन्यं तदाभ्रमत तावकम्
MBh 8.59.32
आदीप्तं तव तत्सैन्यं शरैश्छिन्नतनुच्छदम् आसीत्स्वशोणितक्लिन्नं फुल्लाशोकवनं यथा
MBh 8.59.33
तद्दृष्ट्वा कुरवस्तत्र विक्रान्तं सव्यसाचिनः निराशाः समपद्यन्त सर्वे कर्णस्य जीविते
MBh 8.59.34
अविषह्यं तु पार्थस्य शरसंपातमाहवे मत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना
MBh 8.59.35
ते हित्वा समरे पार्थं वध्यमानाश्च सायकैः प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम्
MBh 8.59.36
अभ्यद्रवत तान्पार्थः किरञ्शरशतान्बहून् हर्षयन्पाण्डवान्योधान्भीमसेनपुरोगमान्
MBh 8.59.37
पुत्रास्तु ते महाराज जग्मुः कर्णरथं प्रति अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा
MBh 8.59.38
कुरवो हि महाराज निर्विषाः पन्नगा इव कर्णमेवोपलीयन्त भयाद्गाण्डीवधन्वनः
MBh 8.59.39
यथा सर्वाणि भूतानि मृत्योर्भीतानि भारत धर्ममेवोपलीयन्ते कर्मवन्ति हि यानि च
MBh 8.59.40
तथा कर्णं महेष्वासं पुत्रास्तव नराधिप उपालीयन्त संत्रासात्पाण्डवस्य महात्मनः
MBh 8.59.41
ताञ्शोणितपरिक्लिन्नान्विषमस्थाञ्शरातुरान् मा भैष्टेत्यब्रवीत्कर्णो ह्यभितो मामितेति च
MBh 8.59.42
संभग्नं हि बलं दृष्ट्वा बलात्पार्थेन तावकम् धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसया पाञ्चालान्पुनराधावत्पश्यतः सव्यसाचिनः
MBh 8.59.43
ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः कर्णं ववर्षुर्बाणौघैर्यथा मेघा महीधरम्
MBh 8.59.44
ततः शरसहस्राणि कर्णमुक्तानि मारिष व्ययोजयन्त पाञ्चालान्प्राणैः प्राणभृतां वर
MBh 8.59.45
ततो रणो महानासीत्पाञ्चालानां विशां पते वध्यतां सूतपुत्रेण मित्रार्थेऽमित्रघातिनाम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 45 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.59local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷