🪷 Mahābhārata · Karṇa-Parva · Chapter 50

The Book of Karṇa · Parva 8 · 65 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 65 Shlokas

MBh 8.50.1
संजय उवाच इति स्म कृष्णवचनात्प्रत्युच्चार्य युधिष्ठिरम् बभूव विमनाः पार्थः किंचित्कृत्वेव पातकम्
MBh 8.50.2
ततोऽब्रवीद्वासुदेवः प्रहसन्निव पाण्डवम् कथं नाम भवेदेतद्यदि त्वं पार्थ धर्मजम् असिना तीक्ष्णधारेण हन्या धर्मे व्यवस्थितम्
MBh 8.50.3
त्वमित्युक्त्वैव राजानमेवं कश्मलमाविशः हत्वा तु नृपतिं पार्थ अकरिष्यः किमुत्तरम् एवं सुदुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः
MBh 8.50.4
स भवान्धर्मभीरुत्वाद्ध्रुवमैष्यन्महत्तमः नरकं घोररूपं च भ्रातुर्ज्येष्ठस्य वै वधात्
MBh 8.50.5
स त्वं धर्मभृतां श्रेष्ठं राजानं धर्मसंहितम् प्रसादय कुरुश्रेष्ठमेतदत्र मतं मम
MBh 8.50.6
प्रसाद्य भक्त्या राजानं प्रीतं चैव युधिष्ठिरम् प्रयामस्त्वरिता योद्धुं सूतपुत्ररथं प्रति
MBh 8.50.7
हत्वा सुदुर्जयं कर्णं त्वमद्य निशितैः शरैः विपुलां प्रीतिमाधत्स्व धर्मपुत्रस्य मानद
MBh 8.50.8
एतदत्र महाबाहो प्राप्तकालं मतं मम एवं कृते कृतं चैव तव कार्यं भविष्यति
MBh 8.50.9
ततोऽर्जुनो महाराज लज्जया वै समन्वितः धर्मराजस्य चरणौ प्रपेदे शिरसानघ
MBh 8.50.10
उवाच भरतश्रेष्ठ प्रसीदेति पुनः पुनः क्षमस्व राजन्यत्प्रोक्तं धर्मकामेन भीरुणा
MBh 8.50.11
पादयोः पतितं दृष्ट्वा धर्मराजो युधिष्ठिरः धनंजयममित्रघ्नं रुदन्तं भरतर्षभ
MBh 8.50.12
उत्थाप्य भ्रातरं राजा धर्मराजो धनंजयम् समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः
MBh 8.50.13
रुदित्वा तु चिरं कालं भ्रातरौ सुमहाद्युती कृतशौचौ नरव्याघ्रौ प्रीतिमन्तौ बभूवतुः
MBh 8.50.14
तत आश्लिष्य स प्रेम्णा मूर्ध्नि चाघ्राय पाण्डवम् प्रीत्या परमया युक्तः प्रस्मयंश्चाब्रवीज्जयम्
MBh 8.50.15
कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः कवचं च ध्वजश्चैव धनुः शक्तिर्हया गदा शरैः कृत्ता महेष्वास यतमानस्य संयुगे
MBh 8.50.16
सोऽहं ज्ञात्वा रणे तस्य कर्म दृष्ट्वा च फल्गुन व्यवसीदामि दुःखेन न च मे जीवितं प्रियम्
MBh 8.50.17
तमद्य यदि वै वीर न हनिष्यसि सूतजम् प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम
MBh 8.50.18
एवमुक्तः प्रत्युवाच विजयो भरतर्षभ सत्येन ते शपे राजन्प्रसादेन तवैव च भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते
MBh 8.50.19
यथाद्य समरे कर्णं हनिष्यामि हतोऽथ वा महीतले पतिष्यामि सत्येनायुधमालभे
MBh 8.50.20
एवमाभाष्य राजानमब्रवीन्माधवं वचः अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः तदनुध्याहि भद्रं ते वधं तस्य दुरात्मनः
MBh 8.50.21
एवमुक्तोऽब्रवीत्पार्थं केशवो राजसत्तम शक्तोऽस्मि भरतश्रेष्ठ यत्नं कर्तुं यथाबलम्
MBh 8.50.22
एवं चापि हि मे कामो नित्यमेव महारथ कथं भवान्रणे कर्णं निहन्यादिति मे मतिः
MBh 8.50.23
भूयश्चोवाच मतिमान्माधवो धर्मनन्दनम् युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुमर्हसि अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः
MBh 8.50.24
श्रुत्वा ह्ययमहं चैव त्वां कर्णशरपीडितम् प्रवृत्तिं ज्ञातुमायाताविह पाण्डवनन्दन
MBh 8.50.25
दिष्ट्यासि राजन्निरुजो दिष्ट्या न ग्रहणं गतः परिसान्त्वय बीभत्सुं जयमाशाधि चानघ
MBh 8.50.26
युधिष्ठिर उवाच एह्येहि पार्थ बीभत्सो मां परिष्वज पाण्डव वक्तव्यमुक्तोऽस्म्यहितं त्वया क्षान्तं च तन्मया
MBh 8.50.27
अहं त्वामनुजानामि जहि कर्णं धनंजय मन्युं च मा कृथाः पार्थ यन्मयोक्तोऽसि दारुणम्
MBh 8.50.28
संजय उवाच ततो धनंजयो राजञ्शिरसा प्रणतस्तदा पादौ जग्राह पाणिभ्यां भ्रातुर्ज्येष्ठस्य मारिष
MBh 8.50.29
समुत्थाप्य ततो राजा परिष्वज्य च पीडितम् मूर्ध्न्युपाघ्राय चैवैनमिदं पुनरुवाच ह
MBh 8.50.30
धनंजय महाबाहो मानितोऽस्मि दृढं त्वया माहात्म्यं विजयं चैव भूयः प्राप्नुहि शाश्वतम्
MBh 8.50.31
अर्जुन उवाच अद्य तं पापकर्माणं सानुबन्धं रणे शरैः नयाम्यन्तं समासाद्य राधेयं बलगर्वितम्
MBh 8.50.32
येन त्वं पीडितो बाणैर्दृढमायम्य कार्मुकम् तस्याद्य कर्मणः कर्णः फलं प्राप्स्यति दारुणम्
MBh 8.50.33
अद्य त्वामहमेष्यामि कर्णं हत्वा महीपते सभाजयितुमाक्रन्दादिति सत्यं ब्रवीमि ते
MBh 8.50.34
नाहत्वा विनिवर्तेऽहं कर्णमद्य रणाजिरात् इति सत्येन ते पादौ स्पृशामि जगतीपते
MBh 8.50.35
संजय उवाच प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना पार्थः प्रोवाच गोविन्दं सूतपुत्रवधोद्यतः
MBh 8.50.36
कल्प्यतां च रथो भूयो युज्यन्तां च हयोत्तमाः आयुधानि च सर्वाणि सज्ज्यन्तां वै महारथे
MBh 8.50.37
उपावृत्ताश्च तुरगाः शिक्षिताश्चाश्वसादिनः रथोपकरणैः सर्वैरुपायान्तु त्वरान्विताः
MBh 8.50.38
एवमुक्ते महाराज फल्गुनेन महात्मना उवाच दारुकं कृष्णः कुरु सर्वं यथाब्रवीत् अर्जुनो भरतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्
MBh 8.50.39
आज्ञप्तस्त्वथ कृष्णेन दारुको राजसत्तम योजयामास स रथं वैयाघ्रं शत्रुतापनम्
MBh 8.50.40
युक्तं तु रथमास्थाय दारुकेण महात्मना आपृच्छ्य धर्मराजानं ब्राह्मणान्स्वस्ति वाच्य च समङ्गलस्वस्त्ययनमारुरोह रथोत्तमम्
MBh 8.50.41
तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः आशिषोऽयुङ्क्त परमा युक्ताः कर्णवधं प्रति
MBh 8.50.42
तं प्रयान्तं महेष्वासं दृष्ट्वा भूतानि भारत निहतं मेनिरे कर्णं पाण्डवेन महात्मना
MBh 8.50.43
बभूवुर्विमलाः सर्वा दिशो राजन्समन्ततः चाषाश्च शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम्
MBh 8.50.44
बहवः पक्षिणो राजन्पुंनामानः शुभाः शिवाः त्वरयन्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे
MBh 8.50.45
कङ्का गृध्रा वडाश्चैव वायसाश्च विशां पते अग्रतस्तस्य गच्छन्ति भक्ष्यहेतोर्भयानकाः
MBh 8.50.46
निमित्तानि च धन्यानि पार्थस्य प्रशशंसिरे विनाशमरिसैन्यानां कर्णस्य च वधं तथा
MBh 8.50.47
प्रयातस्याथ पार्थस्य महान्स्वेदो व्यजायत चिन्ता च विपुला जज्ञे कथं न्वेतद्भविष्यति
MBh 8.50.48
ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः दृष्ट्वा पार्थं तदायस्तं चिन्तापरिगतं तदा
MBh 8.50.49
गाण्डीवधन्वन्संग्रामे ये त्वया धनुषा जिताः न तेषां मानुषो जेता त्वदन्य इह विद्यते
MBh 8.50.50
दृष्टा हि बहवः शूराः शक्रतुल्यपराक्रमाः त्वां प्राप्य समरे वीरं ये गताः परमां गतिम्
MBh 8.50.51
को हि द्रोणं च भीष्मं च भगदत्तं च मारिष विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम्
MBh 8.50.52
श्रुतायुषं महावीर्यमच्युतायुषमेव च प्रत्युद्गम्य भवेत्क्षेमी यो न स्यात्त्वमिव क्षमी
MBh 8.50.53
तव ह्यस्त्राणि दिव्यानि लाघवं बलमेव च वेधः पातश्च लक्षश्च योगश्चैव तवार्जुन असंमोहश्च युद्धेषु विज्ञानस्य च संनतिः
MBh 8.50.54
भवान्देवासुरान्सर्वान्हन्यात्सहचराचरान् पृथिव्यां हि रणे पार्थ न योद्धा त्वत्समः पुमान्
MBh 8.50.55
धनुर्ग्रहा हि ये केचित्क्षत्रिया युद्धदुर्मदाः आ देवात्त्वत्समं तेषां न पश्यामि शृणोमि वा
MBh 8.50.56
ब्रह्मणा च प्रजाः सृष्टा गाण्डीवं च महाद्भुतम् येन त्वं युध्यसे पार्थ तस्मान्नास्ति त्वया समः
MBh 8.50.57
अवश्यं तु मया वाच्यं यत्पथ्यं तव पाण्डव मावमंस्था महाबाहो कर्णमाहवशोभिनम्
MBh 8.50.58
कर्णो हि बलवान्धृष्टः कृतास्त्रश्च महारथः कृती च चित्रयोधी च देशे काले च कोविदः
MBh 8.50.59
तेजसा वह्निसदृशो वायुवेगसमो जवे अन्तकप्रतिमः क्रोधे सिंहसंहननो बली
MBh 8.50.60
अयोरत्निर्महाबाहुर्व्यूढोरस्कः सुदुर्जयः अतिमानी च शूरश्च प्रवीरः प्रियदर्शनः
MBh 8.50.61
सर्वैर्योधगुणैर्युक्तो मित्राणामभयंकरः सततं पाण्डवद्वेषी धार्तराष्ट्रहिते रतः
MBh 8.50.62
सर्वैरवध्यो राधेयो देवैरपि सवासवैः ऋते त्वामिति मे बुद्धिस्त्वमद्य जहि सूतजम्
MBh 8.50.63
देवैरपि हि संयत्तैर्बिभ्रद्भिर्मांसशोणितम् अशक्यः समरे जेतुं सर्वैरपि युयुत्सुभिः
MBh 8.50.64
दुरात्मानं पापमतिं नृशंसं; दुष्टप्रज्ञं पाण्डवेयेषु नित्यम् हीनस्वार्थं पाण्डवेयैर्विरोधे; हत्वा कर्णं धिष्ठितार्थो भवाद्य
MBh 8.50.65
वीरं मन्यत आत्मानं येन पापः सुयोधनः तमद्य मूलं पापानां जय सौतिं धनंजय

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 65 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.50local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷