🪷 Mahābhārata · Karṇa-Parva · Chapter 51
The Book of Karṇa · Parva 8 · 110 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 110 Shlokas
MBh 8.51.1
संजय उवाच
ततः पुनरमेयात्मा केशवोऽर्जुनमब्रवीत्
कृतसंकल्पमायस्तं वधे कर्णस्य सर्वशः
MBh 8.51.2
अद्य सप्तदशाहानि वर्तमानस्य भारत
विनाशस्यातिघोरस्य नरवारणवाजिनाम्
MBh 8.51.3
भूत्वा हि विपुला सेना तावकानां परैः सह
अन्योन्यं समरे प्राप्य किंचिच्छेषा विशां पते
MBh 8.51.4
भूत्वा हि कौरवाः पार्थ प्रभूतगजवाजिनः
त्वां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि
MBh 8.51.5
एते च सर्वे पाञ्चालाः सृञ्जयाश्च सहान्वयाः
त्वां समासाद्य दुर्धर्षं पाण्डवाश्च व्यवस्थिताः
MBh 8.51.6
पाञ्चालैः पाण्डवैर्मत्स्यैः कारूषैश्चेदिकेकयैः
त्वया गुप्तैरमित्रघ्न कृतः शत्रुगणक्षयः
MBh 8.51.7
को हि शक्तो रणे जेतुं कौरवांस्तात संगतान्
अन्यत्र पाण्डवान्युद्धे त्वया गुप्तान्महारथान्
MBh 8.51.8
त्वं हि शक्तो रणे जेतुं ससुरासुरमानुषान्
त्रीँल्लोकान्सममुद्युक्तान्किं पुनः कौरवं बलम्
MBh 8.51.9
भगदत्तं हि राजानं कोऽन्यः शक्तस्त्वया विना
जेतुं पुरुषशार्दूल योऽपि स्याद्वासवोपमः
MBh 8.51.10
तथेमां विपुलां सेनां गुप्तां पार्थ त्वयानघ
न शेकुः पार्थिवाः सर्वे चक्षुर्भिरभिवीक्षितुम्
MBh 8.51.11
तथैव सततं पार्थ रक्षिताभ्यां त्वया रणे
धृष्टद्युम्नशिखण्डिभ्यां भीष्मद्रोणौ निपातितौ
MBh 8.51.12
को हि शक्तो रणे पार्थ पाञ्चालानां महारथौ
भीष्मद्रोणौ युधा जेतुं शक्रतुल्यपराक्रमौ
MBh 8.51.13
को हि शांतनवं संख्ये द्रोणं वैकर्तनं कृपम्
द्रौणिं च सौमदत्तिं च कृतवर्माणमेव च
सैन्धवं मद्रराजं च राजानं च सुयोधनम्
MBh 8.51.14
वीरान्कृतास्त्रान्समरे सर्वानेवानुवर्तिनः
अक्षौहिणीपतीनुग्रान्संरब्धान्युद्धदुर्मदान्
MBh 8.51.15
श्रेण्यश्च बहुलाः क्षीणाः प्रदीर्णाश्वरथद्विपाः
नानाजनपदाश्चोग्राः क्षत्रियाणाममर्षिणाम्
MBh 8.51.16
गोवासदासमीयानां वसातीनां च भारत
व्रात्यानां वाटधानानां भोजानां चापि मानिनाम्
MBh 8.51.17
उदीर्णाश्च महासेना ब्रह्मक्षत्रस्य भारत
त्वां समासाद्य निधनं गताः साश्वरथद्विपाः
MBh 8.51.18
उग्राश्च क्रूरकर्माणस्तुखारा यवनाः खशाः
दार्वाभिसारा दरदाः शका रमठतङ्गणाः
MBh 8.51.19
अन्ध्रकाश्च पुलिन्दाश्च किराताश्चोग्रविक्रमाः
म्लेच्छाश्च पार्वतीयाश्च सागरानूपवासिनः
संरम्भिणो युद्धशौण्डा बलिनो दृब्धपाणयः
MBh 8.51.20
एते सुयोधनस्यार्थे संरब्धाः कुरुभिः सह
न शक्या युधि निर्जेतुं त्वदन्येन परंतप
MBh 8.51.21
धार्तराष्ट्रमुदग्रं हि व्यूढं दृष्ट्वा महाबलम्
यस्य त्वं न भवेस्त्राता प्रतीयात्को नु मानवः
MBh 8.51.22
तत्सागरमिवोद्धूतं रजसा संवृतं बलम्
विदार्य पाण्डवैः क्रुद्धैस्त्वया गुप्तैर्हतं विभो
MBh 8.51.23
मागधानामधिपतिर्जयत्सेनो महाबलः
अद्य सप्तैव चाहानि हतः संख्येऽभिमन्युना
MBh 8.51.24
ततो दश सहस्राणि गजानां भीमकर्मणाम्
जघान गदया भीमस्तस्य राज्ञः परिच्छदम्
ततोऽन्येऽपि हता नागा रथाश्च शतशो बलात्
MBh 8.51.25
तदेवं समरे तात वर्तमाने महाभये
भीमसेनं समासाद्य त्वां च पाण्डव कौरवाः
सवाजिरथनागाश्च मृत्युलोकमितो गताः
MBh 8.51.26
तथा सेनामुखे तत्र निहते पार्थ पाण्डवैः
भीष्मः प्रासृजदुग्राणि शरवर्षाणि मारिष
MBh 8.51.27
स चेदिकाशिपाञ्चालान्करूषान्मत्स्यकेकयान्
शरैः प्रच्छाद्य निधनमनयत्परुषास्त्रवित्
MBh 8.51.28
तस्य चापच्युतैर्बाणैः परदेहविदारणैः
पूर्णमाकाशमभवद्रुक्मपुङ्खैरजिह्मगैः
MBh 8.51.29
गत्या दशम्या ते गत्वा जघ्नुर्वाजिरथद्विपान्
हित्वा नव गतीर्दुष्टाः स बाणान्व्यायतोऽमुचत्
MBh 8.51.30
दिनानि दश भीष्मेण निघ्नता तावकं बलम्
शून्याः कृता रथोपस्था हताश्च गजवाजिनः
MBh 8.51.31
दर्शयित्वात्मनो रूपं रुद्रोपेन्द्रसमं युधि
पाण्डवानामनीकानि प्रविगाह्य व्यशातयत्
MBh 8.51.32
विनिघ्नन्पृथिवीपालांश्चेदिपाञ्चालकेकयान्
व्यदहत्पाण्डवीं सेनां नराश्वगजसंकुलाम्
MBh 8.51.33
मज्जन्तमप्लवे मन्दमुज्जिहीर्षुः सुयोधनम्
तथा चरन्तं समरे तपन्तमिव भास्करम्
न शेकुः सृञ्जया द्रष्टुं तथैवान्ये महीक्षितः
MBh 8.51.34
विचरन्तं तथा तं तु संग्रामे जितकाशिनम्
सर्वोद्योगेन सहसा पाण्डवाः समुपाद्रवन्
MBh 8.51.35
स तु विद्राव्य समरे पाण्डवान्सृञ्जयानपि
एक एव रणे भीष्म एकवीरत्वमागतः
MBh 8.51.36
तं शिखण्डी समासाद्य त्वया गुप्तो महारथम्
जघान पुरुषव्याघ्रं शरैः संनतपर्वभिः
MBh 8.51.37
स एष पतितः शेते शरतल्पे पितामहः
त्वां प्राप्य पुरुषव्याघ्र गृध्रः प्राप्येव वायसम्
MBh 8.51.38
द्रोणः पञ्च दिनान्युग्रो विधम्य रिपुवाहिनीः
कृत्वा व्यूहं महायुद्धे पातयित्वा महारथान्
MBh 8.51.39
जयद्रथस्य समरे कृत्वा रक्षां महारथः
अन्तकप्रतिमश्चोग्रां रात्रिं युद्ध्वादहत्प्रजाः
MBh 8.51.40
अद्येति द्वे दिने वीरो भारद्वाजः प्रतापवान्
धृष्टद्युम्नं समासाद्य स गतः परमां गतिम्
MBh 8.51.41
यदि चैव परान्युद्धे सूतपुत्रमुखान्रथान्
नावारयिष्यः संग्रामे न स्म द्रोणो व्यनङ्क्ष्यत
MBh 8.51.42
भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम्
ततो द्रोणो हतो युद्धे पार्षतेन धनंजय
MBh 8.51.43
क इवान्यो रणे कुर्यात्त्वदन्यः क्षत्रियो युधि
यादृशं ते कृतं पार्थ जयद्रथवधं प्रति
MBh 8.51.44
निवार्य सेनां महतीं हत्वा शूरांश्च पार्थिवान्
निहतः सैन्धवो राजा त्वयास्त्रबलतेजसा
MBh 8.51.45
आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्थिवाः
अनाश्चर्यं हि तत्त्वत्तस्त्वं हि पार्थ महारथः
MBh 8.51.46
त्वां हि प्राप्य रणे क्षत्रमेकाहादिति भारत
तप्यमानमसंयुक्तं न भवेदिति मे मतिः
MBh 8.51.47
सेयं पार्थ चमूर्घोरा धार्तराष्ट्रस्य संयुगे
हता ससर्ववीरा हि भीष्मद्रोणौ यदा हतौ
MBh 8.51.48
शीर्णप्रवरयोधाद्य हतवाजिनरद्विपा
हीना सूर्येन्दुनक्षत्रैर्द्यौरिवाभाति भारती
MBh 8.51.49
विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रमात्
आसुरीव पुरा सेना शक्रस्येव पराक्रमैः
MBh 8.51.50
तेषां हतावशिष्टास्तु पञ्च सन्ति महारथाः
अश्वत्थामा कृतवर्मा कर्णो मद्राधिपः कृपः
MBh 8.51.51
तांस्त्वमद्य नरव्याघ्र हत्वा पञ्च महारथान्
हतामित्रः प्रयच्छोर्वीं राज्ञः सद्वीपपत्तनाम्
MBh 8.51.52
साकाशजलपातालां सपर्वतमहावनाम्
प्राप्नोत्वमितवीर्यश्रीरद्य पार्थो वसुंधराम्
MBh 8.51.53
एतां पुरा विष्णुरिव हत्वा दैतेयदानवान्
प्रयच्छ मेदिनीं राज्ञे शक्रायेव यथा हरिः
MBh 8.51.54
अद्य मोदन्तु पाञ्चाला निहतेष्वरिषु त्वया
विष्णुना निहतेष्वेव दानवेयेषु देवताः
MBh 8.51.55
यदि वा द्विपदां श्रेष्ठ द्रोणं मानयतो गुरुम्
अश्वत्थाम्नि कृपा तेऽस्ति कृपे चाचार्यगौरवात्
MBh 8.51.56
अत्यन्तोपचितान्वा त्वं मानयन्भ्रातृबान्धवान्
कृतवर्माणमासाद्य न नेष्यसि यमक्षयम्
MBh 8.51.57
भ्रातरं मातुरासाद्य शल्यं मद्रजनाधिपम्
यदि त्वमरविन्दाक्ष दयावान्न जिघांससि
MBh 8.51.58
इमं पापमतिं क्षुद्रमत्यन्तं पाण्डवान्प्रति
कर्णमद्य नरश्रेष्ठ जह्याशु निशितैः शरैः
MBh 8.51.59
एतत्ते सुकृतं कर्म नात्र किंचिन्न युज्यते
वयमप्यत्र जानीमो नात्र दोषोऽस्ति कश्चन
MBh 8.51.60
दहने यत्सपुत्राया निशि मातुस्तवानघ
द्यूतार्थे यच्च युष्मासु प्रावर्तत सुयोधनः
तत्र सर्वत्र दुष्टात्मा कर्णो मूलमिहार्जुन
MBh 8.51.61
कर्णाद्धि मन्यते त्राणं नित्यमेव सुयोधनः
ततो मामपि संरब्धो निग्रहीतुं प्रचक्रमे
MBh 8.51.62
स्थिरा बुद्धिर्नरेन्द्रस्य धार्तराष्ट्रस्य मानद
कर्णः पार्थान्रणे सर्वान्विजेष्यति न संशयः
MBh 8.51.63
कर्णमाश्रित्य कौन्तेय धार्तराष्ट्रेण विग्रहः
रोचितो भवता सार्धं जानतापि बलं तव
MBh 8.51.64
कर्णो हि भाषते नित्यमहं पार्थान्समागतान्
वासुदेवं सराजानं विजेष्यामि महारणे
MBh 8.51.65
प्रोत्साहयन्दुरात्मानं धार्तराष्ट्रं सुदुर्मतिः
समितौ गर्जते कर्णस्तमद्य जहि भारत
MBh 8.51.66
यच्च युष्मासु पापं वै धार्तराष्ट्रः प्रयुक्तवान्
तत्र सर्वत्र दुष्टात्मा कर्णः पापमतिर्मुखम्
MBh 8.51.67
यच्च तद्धार्तराष्ट्राणां क्रूरैः षड्भिर्महारथैः
अपश्यं निहतं वीरं सौभद्रमृषभेक्षणम्
MBh 8.51.68
द्रोणद्रौणिकृपान्वीरान्कम्पयन्तो महारथान्
निर्मनुष्यांश्च मातङ्गान्विरथांश्च महारथान्
MBh 8.51.69
व्यश्वारोहांश्च तुरगान्पत्तीन्व्यायुधजीवितान्
कुर्वन्तमृषभस्कन्धं कुरुवृष्णियशस्करम्
MBh 8.51.70
विधमन्तमनीकानि व्यथयन्तं महारथान्
मनुष्यवाजिमातङ्गान्प्रहिण्वन्तं यमक्षयम्
MBh 8.51.71
शरैः सौभद्रमायस्तं दहन्तमिव वाहिनीम्
तन्मे दहति गात्राणि सखे सत्येन ते शपे
MBh 8.51.72
यत्तत्रापि च दुष्टात्मा कर्णोऽभ्यद्रुह्यत प्रभो
अशक्नुवंश्चाभिमन्योः कर्णः स्थातुं रणेऽग्रतः
MBh 8.51.73
सौभद्रशरनिर्भिन्नो विसंज्ञः शोणितोक्षितः
निःश्वसन्क्रोधसंदीप्तो विमुखः सायकार्दितः
MBh 8.51.74
अपयानकृतोत्साहो निराशश्चापि जीविते
तस्थौ सुविह्वलः संख्ये प्रहारजनितश्रमः
MBh 8.51.75
अथ द्रोणस्य समरे तत्कालसदृशं तदा
श्रुत्वा कर्णो वचः क्रूरं ततश्चिच्छेद कार्मुकम्
MBh 8.51.76
ततश्छिन्नायुधं तेन रणे पञ्च महारथाः
स चैव निकृतिप्रज्ञः प्रावधीच्छरवृष्टिभिः
MBh 8.51.77
यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः
प्रमुखे पाण्डवेयानां कुरूणां च नृशंसवत्
MBh 8.51.78
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः
पतिमन्यं पृथुश्रोणि वृणीष्व मितभाषिणि
MBh 8.51.79
लेखाभ्रु धृतराष्ट्रस्य दासी भूत्वा निवेशनम्
प्रविशारालपक्ष्माक्षि न सन्ति पतयस्तव
MBh 8.51.80
इत्युक्तवानधर्मज्ञस्तदा परमदुर्मतिः
पापः पापं वचः कर्णः शृण्वतस्तव भारत
MBh 8.51.81
तस्य पापस्य तद्वाक्यं सुवर्णविकृताः शराः
शमयन्तु शिलाधौतास्त्वयास्ता जीवितच्छिदः
MBh 8.51.82
यानि चान्यानि दुष्टात्मा पापानि कृतवांस्त्वयि
तान्यद्य जीवितं चास्य शमयन्तु शरास्तव
MBh 8.51.83
गाण्डीवप्रहितान्घोरानद्य गात्रैः स्पृशञ्शरान्
कर्णः स्मरतु दुष्टात्मा वचनं द्रोणभीष्मयोः
MBh 8.51.84
सुवर्णपुङ्खा नाराचाः शत्रुघ्ना वैद्युतप्रभाः
त्वयास्तास्तस्य मर्माणि भित्त्वा पास्यन्ति शोणितम्
MBh 8.51.85
उग्रास्त्वद्भुजनिर्मुक्ता मर्म भित्त्वा शिताः शराः
अद्य कर्णं महावेगाः प्रेषयन्तु यमक्षयम्
MBh 8.51.86
अद्य हाहाकृता दीना विषण्णास्त्वच्छरार्दिताः
प्रपतन्तं रथात्कर्णं पश्यन्तु वसुधाधिपाः
MBh 8.51.87
अद्य स्वशोणिते मग्नं शयानं पतितं भुवि
अपविद्धायुधं कर्णं पश्यन्तु सुहृदो निजाः
MBh 8.51.88
हस्तिकक्ष्यो महानस्य भल्लेनोन्मथितस्त्वया
प्रकम्पमानः पततु भूमावाधिरथेर्ध्वजः
MBh 8.51.89
त्वया शरशतैश्छिन्नं रथं हेमविभूषितम्
हतयोधं समुत्सृज्य भीतः शल्यः पलायताम्
MBh 8.51.90
ततः सुयोधनो दृष्ट्वा हतमाधिरथिं त्वया
निराशो जीविते त्वद्य राज्ये चैव धनंजय
MBh 8.51.91
एते द्रवन्ति पाञ्चाला वध्यमानाः शितैः शरैः
कर्णेन भरतश्रेष्ठ पाण्डवानुज्जिहीर्षवः
MBh 8.51.92
पाञ्चालान्द्रौपदेयांश्च धृष्टद्युम्नशिखण्डिनौ
धृष्टद्युम्नतनूजांश्च शतानीकं च नाकुलिम्
MBh 8.51.93
नकुलं सहदेवं च दुर्मुखं जनमेजयम्
सुवर्माणं सात्यकिं च विद्धि कर्णवशं गतान्
MBh 8.51.94
अभ्याहतानां कर्णेन पाञ्चालानां महारणे
श्रूयते निनदो घोरस्त्वद्बन्धूनां परंतप
MBh 8.51.95
न त्वेव भीताः पाञ्चालाः कथंचित्स्युः पराङ्मुखाः
न हि मृत्युं महेष्वासा गणयन्ति महारथाः
MBh 8.51.96
य एकः पाण्डवीं सेनां शरौघैः समवेष्टयत्
तं समासाद्य पाञ्चाला भीष्मं नासन्पराङ्मुखाः
MBh 8.51.97
तथा ज्वलन्तमस्त्राग्निं गुरुं सर्वधनुष्मताम्
निर्दहन्तं समारोहन्दुर्धर्षं द्रोणमोजसा
MBh 8.51.98
ते नित्यमुदिता जेतुं युद्धे शत्रूनरिंदमाः
न जात्वाधिरथेर्भीताः पाञ्चालाः स्युः पराङ्मुखाः
MBh 8.51.99
तेषामापततां शूरः पाञ्चालानां तरस्विनाम्
आदत्तेऽसूञ्शरैः कर्णः पतंगानामिवानलः
MBh 8.51.100
तांस्तथाभिमुखान्वीरान्मित्रार्थे त्यक्तजीवितान्
क्षयं नयति राधेयः पाञ्चालाञ्शतशो रणे
MBh 8.51.101
अस्त्रं हि रामात्कर्णेन भार्गवादृषिसत्तमात्
यदुपात्तं पुरा घोरं तस्य रूपमुदीर्यते
MBh 8.51.102
तापनं सर्वसैन्यानां घोररूपं सुदारुणम्
समावृत्य महासेनां ज्वलति स्वेन तेजसा
MBh 8.51.103
एते चरन्ति संग्रामे कर्णचापच्युताः शराः
भ्रमराणामिव व्रातास्तापयन्तः स्म तावकान्
MBh 8.51.104
एते चरन्ति पाञ्चाला दिक्षु सर्वासु भारत
कर्णास्त्रं समरे प्राप्य दुर्निवारमनात्मभिः
MBh 8.51.105
एष भीमो दृढक्रोधो वृतः पार्थ समन्ततः
सृञ्जयैर्योधयन्कर्णं पीड्यते स्म शितैः शरैः
MBh 8.51.106
पाण्डवान्सृञ्जयांश्चैव पाञ्चालांश्चैव भारत
हन्यादुपेक्षितः कर्णो रोगो देहमिवाततः
MBh 8.51.107
नान्यं त्वत्तोऽभिपश्यामि योधं यौधिष्ठिरे बले
यः समासाद्य राधेयं स्वस्तिमानाव्रजेद्गृहम्
MBh 8.51.108
तमद्य निशितैर्बाणैर्निहत्य भरतर्षभ
यथाप्रतिज्ञं पार्थ त्वं कृत्वा कीर्तिमवाप्नुहि
MBh 8.51.109
त्वं हि शक्तो रणे जेतुं सकर्णानपि कौरवान्
नान्यो युधि युधां श्रेष्ठ सत्यमेतद्ब्रवीमि ते
MBh 8.51.110
एतत्कृत्वा महत्कर्म हत्वा कर्णं महारथम्
कृतार्थः सफलः पार्थ सुखी भव नरोत्तम
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 50
- Next chapter · Karṇa-Parva Ch 52 →
Sources and Connected Readings
Continue from these 110 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.51local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷