🪷 Mahābhārata · Karṇa-Parva · Chapter 49

The Book of Karṇa · Parva 8 · 116 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 116 Shlokas

MBh 8.49.1
संजय उवाच युधिष्ठिरेणैवमुक्तः कौन्तेयः श्वेतवाहनः असिं जग्राह संक्रुद्धो जिघांसुर्भरतर्षभम्
MBh 8.49.2
तस्य कोपं समुद्वीक्ष्य चित्तज्ञः केशवस्तदा उवाच किमिदं पार्थ गृहीतः खड्ग इत्युत
MBh 8.49.3
नेह पश्यामि योद्धव्यं तव किंचिद्धनंजय ते ध्वस्ता धार्तराष्ट्रा हि सर्वे भीमेन धीमता
MBh 8.49.4
अपयातोऽसि कौन्तेय राजा द्रष्टव्य इत्यपि स राजा भवता दृष्टः कुशली च युधिष्ठिरः
MBh 8.49.5
तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम् हर्षकाले तु संप्राप्ते कस्मात्त्वा मन्युराविशत्
MBh 8.49.6
न तं पश्यामि कौन्तेय यस्ते वध्यो भवेदिह कस्माद्भवान्महाखड्गं परिगृह्णाति सत्वरम्
MBh 8.49.7
तत्त्वा पृच्छामि कौन्तेय किमिदं ते चिकीर्षितम् परामृशसि यत्क्रुद्धः खड्गमद्भुतविक्रम
MBh 8.49.8
एवमुक्तस्तु कृष्णेन प्रेक्षमाणो युधिष्ठिरम् अर्जुनः प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन्
MBh 8.49.9
दद गाण्डीवमन्यस्मा इति मां योऽभिचोदयेत् छिन्द्यामहं शिरस्तस्य इत्युपांशुव्रतं मम
MBh 8.49.10
तदुक्तोऽहमदीनात्मन्राज्ञामितपराक्रम समक्षं तव गोविन्द न तत्क्षन्तुमिहोत्सहे
MBh 8.49.11
तस्मादेनं वधिष्यामि राजानं धर्मभीरुकम् प्रतिज्ञां पालयिष्यामि हत्वेमं नरसत्तमम् एतदर्थं मया खड्गो गृहीतो यदुनन्दन
MBh 8.49.12
सोऽहं युधिष्ठिरं हत्वा सत्येऽप्यानृण्यतां गतः विशोको विज्वरश्चापि भविष्यामि जनार्दन
MBh 8.49.13
किं वा त्वं मन्यसे प्राप्तमस्मिन्काले समुत्थिते त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम् तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान्
MBh 8.49.14
कृष्ण उवाच इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया अकाले पुरुषव्याघ्र संरम्भक्रिययानया न हि धर्मविभागज्ञः कुर्यादेवं धनंजय
MBh 8.49.15
अकार्याणां च कार्याणां संयोगं यः करोति वै कार्याणामक्रियाणां च स पार्थ पुरुषाधमः
MBh 8.49.16
अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः समासविस्तरविदां न तेषां वेत्थ निश्चयम्
MBh 8.49.17
अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये अवशो मुह्यते पार्थ यथा त्वं मूढ एव तु
MBh 8.49.18
न हि कार्यमकार्यं वा सुखं ज्ञातुं कथंचन श्रुतेन ज्ञायते सर्वं तच्च त्वं नावबुध्यसे
MBh 8.49.19
अविज्ञानाद्भवान्यच्च धर्मं रक्षति धर्मवित् प्राणिनां हि वधं पार्थ धार्मिको नावबुध्यते
MBh 8.49.20
प्राणिनामवधस्तात सर्वज्यायान्मतो मम अनृतं तु भवेद्वाच्यं न च हिंस्यात्कथंचन
MBh 8.49.21
स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम् हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव
MBh 8.49.22
अयुध्यमानस्य वधस्तथाशस्त्रस्य भारत पराङ्मुखस्य द्रवतः शरणं वाभिगच्छतः कृताञ्जलेः प्रपन्नस्य न वधः पूज्यते बुधैः
MBh 8.49.23
त्वया चैव व्रतं पार्थ बालेनैव कृतं पुरा तस्मादधर्मसंयुक्तं मौढ्यात्कर्म व्यवस्यसि
MBh 8.49.24
स गुरुं पार्थ कस्मात्त्वं हन्या धर्ममनुस्मरन् असंप्रधार्य धर्माणां गतिं सूक्ष्मां दुरन्वयाम्
MBh 8.49.25
इदं धर्मरहस्यं च वक्ष्यामि भरतर्षभ यद्ब्रूयात्तव भीष्मो वा धर्मज्ञो वा युधिष्ठिरः
MBh 8.49.26
विदुरो वा तथा क्षत्ता कुन्ती वापि यशस्विनी तत्ते वक्ष्यामि तत्त्वेन तन्निबोध धनंजय
MBh 8.49.27
सत्यस्य वचनं साधु न सत्याद्विद्यते परम् तत्त्वेनैतत्सुदुर्ज्ञेयं यस्य सत्यमनुष्ठितम्
MBh 8.49.28
भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत् सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत्
MBh 8.49.29
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् यत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत्
MBh 8.49.30
तादृशं पश्यते बालो यस्य सत्यमनुष्ठितम् सत्यानृते विनिश्चित्य ततो भवति धर्मवित्
MBh 8.49.31
किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव
MBh 8.49.32
किमाश्चर्यं पुनर्मूढो धर्मकामोऽप्यपण्डितः सुमहत्प्राप्नुयात्पापमापगामिव कौशिकः
MBh 8.49.33
अर्जुन उवाच आचक्ष्व भगवन्नेतद्यथा विद्यामहं तथा बलाकान्धाभिसंबद्धं नदीनां कौशिकस्य च
MBh 8.49.34
कृष्ण उवाच मृगव्याधोऽभवत्कश्चिद्बलाको नाम भारत यात्रार्थं पुत्रदारस्य मृगान्हन्ति न कामतः
MBh 8.49.35
सोऽन्धौ च मातापितरौ बिभर्त्यन्यांश्च संश्रितान् स्वधर्मनिरतो नित्यं सत्यवागनसूयकः
MBh 8.49.36
स कदाचिन्मृगाँल्लिप्सुर्नान्वविन्दत्प्रयत्नवान् अथापश्यत्स पीतोदं श्वापदं घ्राणचक्षुषम्
MBh 8.49.37
अदृष्टपूर्वमपि तत्सत्त्वं तेन हतं तदा अन्वेव च ततो व्योम्नः पुष्पवर्षमवापतत्
MBh 8.49.38
अप्सरोगीतवादित्रैर्नादितं च मनोरमम् विमानमागमत्स्वर्गान्मृगव्याधनिनीषया
MBh 8.49.39
तद्भूतं सर्वभूतानामभावाय किलार्जुन तपस्तप्त्वा वरं प्राप्तं कृतमन्धं स्वयंभुवा
MBh 8.49.40
तद्धत्वा सर्वभूतानामभावकृतनिश्चयम् ततो बलाकः स्वरगादेवं धर्मः सुदुर्विदः
MBh 8.49.41
कौशिकोऽप्यभवद्विप्रस्तपस्वी न बहुश्रुतः नदीनां संगमे ग्रामाददूरे स किलावसत्
MBh 8.49.42
सत्यं मया सदा वाच्यमिति तस्याभवद्व्रतम् सत्यवादीति विख्यातः स तदासीद्धनंजय
MBh 8.49.43
अथ दस्युभयात्केचित्तदा तद्वनमाविशन् दस्यवोऽपि गताः क्रूरा व्यमार्गन्त प्रयत्नतः
MBh 8.49.44
अथ कौशिकमभ्येत्य प्राहुस्तं सत्यवादिनम् कतमेन पथा याता भगवन्बहवो जनाः सत्येन पृष्टः प्रब्रूहि यदि तान्वेत्थ शंस नः
MBh 8.49.45
स पृष्टः कौशिकः सत्यं वचनं तानुवाच ह बहुवृक्षलतागुल्ममेतद्वनमुपाश्रिताः ततस्ते तान्समासाद्य क्रूरा जघ्नुरिति श्रुतिः
MBh 8.49.46
तेनाधर्मेण महता वाग्दुरुक्तेन कौशिकः गतः सुकष्टं नरकं सूक्ष्मधर्मेष्वकोविदः अप्रभूतश्रुतो मूढो धर्माणामविभागवित्
MBh 8.49.47
वृद्धानपृष्ट्वा संदेहं महच्छ्वभ्रमितोऽर्हति तत्र ते लक्षणोद्देशः कश्चिदेव भविष्यति
MBh 8.49.48
दुष्करं परमज्ञानं तर्केणात्र व्यवस्यति श्रुतिर्धर्म इति ह्येके वदन्ति बहवो जनाः
MBh 8.49.49
न त्वेतत्प्रतिसूयामि न हि सर्वं विधीयते प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम्
MBh 8.49.50
धारणाद्धर्ममित्याहुर्धर्मो धारयति प्रजाः यः स्याद्धारणसंयुक्तः स धर्म इति निश्चयः
MBh 8.49.51
येऽन्यायेन जिहीर्षन्तो जना इच्छन्ति कर्हिचित् अकूजनेन चेन्मोक्षो नात्र कूजेत्कथंचन
MBh 8.49.52
अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजतः श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम्
MBh 8.49.53
प्राणात्यये विवाहे वा सर्वज्ञातिधनक्षये नर्मण्यभिप्रवृत्ते वा प्रवक्तव्यं मृषा भवेत् अधर्मं नात्र पश्यन्ति धर्मतत्त्वार्थदर्शिनः
MBh 8.49.54
यः स्तेनैः सह संबन्धान्मुच्यते शपथैरपि श्रेयस्तत्रानृतं वक्तुं तत्सत्यमविचारितम्
MBh 8.49.55
न च तेभ्यो धनं देयं शक्ये सति कथंचन पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् तस्माद्धर्मार्थमनृतमुक्त्वा नानृतवाग्भवेत्
MBh 8.49.56
एष ते लक्षणोद्देशः समुद्दिष्टो यथाविधि एतच्छ्रुत्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः
MBh 8.49.57
अर्जुन उवाच यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महामतिः हितं चैव यथास्माकं तथैतद्वचनं तव
MBh 8.49.58
भवान्मातृसमोऽस्माकं तथा पितृसमोऽपि च गतिश्च परमा कृष्ण तेन ते वाक्यमद्भुतम्
MBh 8.49.59
न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्वचित् तस्माद्भवान्परं धर्मं वेद सर्वं यथातथम्
MBh 8.49.60
अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम् तस्मिन्समयसंयोगे ब्रूहि किंचिदनुग्रहम् इदं चापरमत्रैव शृणु हृत्स्थं विवक्षितम्
MBh 8.49.61
जानासि दाशार्ह मम व्रतं त्वं; यो मां ब्रूयात्कश्चन मानुषेषु अन्यस्मै त्वं गाण्डिवं देहि पार्थ; यस्त्वत्तोऽस्त्रैर्भविता वा विशिष्टः
MBh 8.49.62
हन्यामहं केशव तं प्रसह्य; भीमो हन्यात्तूबरकेति चोक्तः तन्मे राजा प्रोक्तवांस्ते समक्षं; धनुर्देहीत्यसकृद्वृष्णिसिंह
MBh 8.49.63
तं हत्वा चेत्केशव जीवलोके; स्थाता कालं नाहमप्यल्पमात्रम् सा च प्रतिज्ञा मम लोकप्रबुद्धा; भवेत्सत्या धर्मभृतां वरिष्ठ यथा जीवेत्पाण्डवोऽहं च कृष्ण; तथा बुद्धिं दातुमद्यार्हसि त्वम्
MBh 8.49.64
वासुदेव उवाच राजा श्रान्तो जगतो विक्षतश्च; कर्णेन संख्ये निशितैर्बाणसंघैः तस्मात्पार्थ त्वां परुषाण्यवोच;त्कर्णे द्यूतं ह्यद्य रणे निबद्धम्
MBh 8.49.65
तस्मिन्हते कुरवो निर्जिताः स्यु;रेवंबुद्धिः पार्थिवो धर्मपुत्रः यदावमानं लभते महान्तं; तदा जीवन्मृत इत्युच्यते सः
MBh 8.49.66
तन्मानितः पार्थिवोऽयं सदैव; त्वया सभीमेन तथा यमाभ्याम् वृद्धैश्च लोके पुरुषप्रवीरै;स्तस्यावमानं कलया त्वं प्रयुङ्क्ष्व
MBh 8.49.67
त्वमित्यत्रभवन्तं त्वं ब्रूहि पार्थ युधिष्ठिरम् त्वमित्युक्तो हि निहतो गुरुर्भवति भारत
MBh 8.49.68
एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे अधर्मयुक्तं संयोगं कुरुष्वैवं कुरूद्वह
MBh 8.49.69
अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः अविचार्यैव कार्यैषा श्रेयःकामैर्नरैः सदा
MBh 8.49.70
वधो ह्ययं पाण्डव धर्मराज्ञ;स्त्वत्तो युक्तो वेत्स्यते चैवमेषः ततोऽस्य पादावभिवाद्य पश्चा;च्छमं ब्रूयाः सान्त्वपूर्वं च पार्थम्
MBh 8.49.71
भ्राता प्राज्ञस्तव कोपं न जातु; कुर्याद्राजा कंचन पाण्डवेयः मुक्तोऽनृताद्भ्रातृवधाच्च पार्थ; हृष्टः कर्णं त्वं जहि सूतपुत्रम्
MBh 8.49.72
संजय उवाच इत्येवमुक्तस्तु जनार्दनेन; पार्थः प्रशस्याथ सुहृद्वधं तम् ततोऽब्रवीदर्जुनो धर्मराज;मनुक्तपूर्वं परुषं प्रसह्य
MBh 8.49.73
मा त्वं राजन्व्याहर व्याहरत्सु; न तिष्ठसे क्रोशमात्रे रणार्धे भीमस्तु मामर्हति गर्हणाय; यो युध्यते सर्वयोधप्रवीरः
MBh 8.49.74
काले हि शत्रून्प्रतिपीड्य संख्ये; हत्वा च शूरान्पृथिवीपतींस्तान् यः कुञ्जराणामधिकं सहस्रं; हत्वानदत्तुमुलं सिंहनादम्
MBh 8.49.75
सुदुष्करं कर्म करोति वीरः; कर्तुं यथा नार्हसि त्वं कदाचित् रथादवप्लुत्य गदां परामृशं;स्तया निहन्त्यश्वनरद्विपान्रणे
MBh 8.49.76
वरासिना वाजिरथाश्वकुञ्जरां;स्तथा रथाङ्गैर्धनुषा च हन्त्यरीन् प्रमृद्य पद्भ्यामहितान्निहन्ति यः; पुनश्च दोर्भ्यां शतमन्युविक्रमः
MBh 8.49.77
महाबलो वैश्रवणान्तकोपमः; प्रसह्य हन्ता द्विषतां यथार्हम् स भीमसेनोऽर्हति गर्हणां मे; न त्वं नित्यं रक्ष्यसे यः सुहृद्भिः
MBh 8.49.78
महारथान्नागवरान्हयांश्च; पदातिमुख्यानपि च प्रमथ्य एको भीमो धार्तराष्ट्रेषु मग्नः; स मामुपालब्धुमरिंदमोऽर्हति
MBh 8.49.79
कलिङ्गवङ्गाङ्गनिषादमागधा;न्सदामदान्नीलबलाहकोपमान् निहन्ति यः शत्रुगणाननेकशः; स माभिवक्तुं प्रभवत्यनागसम्
MBh 8.49.80
सुयुक्तमास्थाय रथं हि काले; धनुर्विकर्षञ्शरपूर्णमुष्टिः सृजत्यसौ शरवर्षाणि वीरो; महाहवे मेघ इवाम्बुधाराः
MBh 8.49.81
बलं तु वाचि द्विजसत्तमानां; क्षात्रं बुधा बाहुबलं वदन्ति त्वं वाग्बलो भारत निष्ठुरश्च; त्वमेव मां वेत्सि यथाविधोऽहम्
MBh 8.49.82
यतामि नित्यं तव कर्तुमिष्टं; दारैः सुतैर्जीवितेनात्मना च एवं च मां वाग्विशिखैर्निहंसि; त्वत्तः सुखं न वयं विद्म किंचित्
MBh 8.49.83
अवामंस्था मां द्रौपदीतल्पसंस्थो; महारथान्प्रतिहन्मि त्वदर्थे तेनातिशङ्की भारत निष्ठुरोऽसि; त्वत्तः सुखं नाभिजानामि किंचित्
MBh 8.49.84
प्रोक्तः स्वयं सत्यसंधेन मृत्यु;स्तव प्रियार्थं नरदेव युद्धे वीरः शिखण्डी द्रौपदोऽसौ महात्मा; मयाभिगुप्तेन हतश्च तेन
MBh 8.49.85
न चाभिनन्दामि तवाधिराज्यं; यतस्त्वमक्षेष्वहिताय सक्तः स्वयं कृत्वा पापमनार्यजुष्ट;मेभिर्युद्धे तर्तुमिच्छस्यरींस्तु
MBh 8.49.86
अक्षेषु दोषा बहवो विधर्माः; श्रुतास्त्वया सहदेवोऽब्रवीद्यान् तान्नैषि संतर्तुमसाधुजुष्टा;न्येन स्म सर्वे निरयं प्रपन्नाः
MBh 8.49.87
त्वं देविता त्वत्कृते राज्यनाश;स्त्वत्संभवं व्यसनं नो नरेन्द्र मास्मान्क्रूरैर्वाक्प्रतोदैस्तुद त्वं; भूयो राजन्कोपयन्नल्पभाग्यान्
MBh 8.49.88
एता वाचः परुषाः सव्यसाची; स्थिरप्रज्ञं श्रावयित्वा ततक्ष तदानुतेपे सुरराजपुत्रो; विनिःश्वसंश्चाप्यसिमुद्बबर्ह
MBh 8.49.89
तमाह कृष्णः किमिदं पुनर्भवा;न्विकोशमाकाशनिभं करोत्यसिम् प्रब्रूहि सत्यं पुनरुत्तरं विधे;र्वचः प्रवक्ष्याम्यहमर्थसिद्धये
MBh 8.49.90
इत्येव पृष्टः पुरुषोत्तमेन; सुदुःखितः केशवमाह वाक्यम् अहं हनिष्ये स्वशरीरमेव; प्रसह्य येनाहितमाचरं वै
MBh 8.49.91
निशम्य तत्पार्थवचोऽब्रवीदिदं; धनंजयं धर्मभृतां वरिष्ठः प्रब्रूहि पार्थ स्वगुणानिहात्मन;स्तथा स्वहार्दं भवतीह सद्यः
MBh 8.49.92
तथास्तु कृष्णेत्यभिनन्द्य वाक्यं; धनंजयः प्राह धनुर्विनाम्य युधिष्ठिरं धर्मभृतां वरिष्ठं; शृणुष्व राजन्निति शक्रसूनुः
MBh 8.49.93
न मादृशोऽन्यो नरदेव विद्यते; धनुर्धरो देवमृते पिनाकिनम् अहं हि तेनानुमतो महात्मना; क्षणेन हन्यां सचराचरं जगत्
MBh 8.49.94
मया हि राजन्सदिगीश्वरा दिशो; विजित्य सर्वा भवतः कृता वशे स राजसूयश्च समाप्तदक्षिणः; सभा च दिव्या भवतो ममौजसा
MBh 8.49.95
पाणौ पृषत्का लिखिता ममेमे; धनुश्च संख्ये विततं सबाणम् पादौ च मे सशरौ सहध्वजौ; न मादृशं युद्धगतं जयन्ति
MBh 8.49.96
हता उदीच्या निहताः प्रतीच्याः; प्राच्या निरस्ता दाक्षिणात्या विशस्ताः संशप्तकानां किंचिदेवावशिष्टं; सर्वस्य सैन्यस्य हतं मयार्धम्
MBh 8.49.97
शेते मया निहता भारती च; चमू राजन्देवचमूप्रकाशा ये नास्त्रज्ञास्तानहं हन्मि शस्त्रै;स्तस्माल्लोकं नेह करोमि भस्मसात्
MBh 8.49.98
इत्येवमुक्त्वा पुनराह पार्थो; युधिष्ठिरं धर्मभृतां वरिष्ठम् अप्यपुत्रा तेन राधा भवित्री; कुन्ती मया वा तदृतं विद्धि राजन् प्रसीद राजन्क्षम यन्मयोक्तं; काले भवान्वेत्स्यति तन्नमस्ते
MBh 8.49.99
प्रसाद्य राजानममित्रसाहं; स्थितोऽब्रवीच्चैनमभिप्रपन्नः याम्येष भीमं समरात्प्रमोक्तुं; सर्वात्मना सूतपुत्रं च हन्तुम्
MBh 8.49.100
तव प्रियार्थं मम जीवितं हि; ब्रवीमि सत्यं तदवेहि राजन् इति प्रायादुपसंगृह्य पादौ; समुत्थितो दीप्ततेजाः किरीटी नेदं चिरात्क्षिप्रमिदं भविष्य;त्यावर्ततेऽसावभियामि चैनम्
MBh 8.49.101
एतच्छ्रुत्वा पाण्डवो धर्मराजो; भ्रातुर्वाक्यं परुषं फल्गुनस्य उत्थाय तस्माच्छयनादुवाच; पार्थं ततो दुःखपरीतचेताः
MBh 8.49.102
कृतं मया पार्थ यथा न साधु; येन प्राप्तं व्यसनं वः सुघोरम् तस्माच्छिरश्छिन्द्धि ममेदमद्य; कुलान्तकस्याधमपूरुषस्य
MBh 8.49.103
पापस्य पापव्यसनान्वितस्य; विमूढबुद्धेरलसस्य भीरोः वृद्धावमन्तुः परुषस्य चैव; किं ते चिरं मामनुवृत्य रूक्षम्
MBh 8.49.104
गच्छाम्यहं वनमेवाद्य पापः; सुखं भवान्वर्ततां मद्विहीनः योग्यो राजा भीमसेनो महात्मा; क्लीबस्य वा मम किं राज्यकृत्यम्
MBh 8.49.105
न चास्मि शक्तः परुषाणि सोढुं; पुनस्तवेमानि रुषान्वितस्य भीमोऽस्तु राजा मम जीवितेन; किं कार्यमद्यावमतस्य वीर
MBh 8.49.106
इत्येवमुक्त्वा सहसोत्पपात; राजा ततस्तच्छयनं विहाय इयेष निर्गन्तुमथो वनाय; तं वासुदेवः प्रणतोऽभ्युवाच
MBh 8.49.107
राजन्विदितमेतत्ते यथा गाण्डीवधन्वनः प्रतिज्ञा सत्यसंधस्य गाण्डीवं प्रति विश्रुता
MBh 8.49.108
ब्रूयाद्य एवं गाण्डीवं देह्यन्यस्मै त्वमित्युत स वध्योऽस्य पुमाँल्लोके त्वया चोक्तोऽयमीदृशम्
MBh 8.49.109
अतः सत्यां प्रतिज्ञां तां पार्थेन परिरक्षता मच्छन्दादवमानोऽयं कृतस्तव महीपते गुरूणामवमानो हि वध इत्यभिधीयते
MBh 8.49.110
तस्मात्त्वं वै महाबाहो मम पार्थस्य चोभयोः व्यतिक्रममिमं राजन्संक्षमस्वार्जुनं प्रति
MBh 8.49.111
शरणं त्वां महाराज प्रपन्नौ स्व उभावपि क्षन्तुमर्हसि मे राजन्प्रणतस्याभियाचतः
MBh 8.49.112
राधेयस्याद्य पापस्य भूमिः पास्यति शोणितम् सत्यं ते प्रतिजानामि हतं विद्ध्यद्य सूतजम् यस्येच्छसि वधं तस्य गतमेवाद्य जीवितम्
MBh 8.49.113
इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः ससंभ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा कृताञ्जलिमिदं वाक्यमुवाचानन्तरं वचः
MBh 8.49.114
एवमेतद्यथात्थ त्वमस्त्येषोऽतिक्रमो मम अनुनीतोऽस्मि गोविन्द तारितश्चाद्य माधव मोक्षिता व्यसनाद्घोराद्वयमद्य त्वयाच्युत
MBh 8.49.115
भवन्तं नाथमासाद्य आवां व्यसनसागरात् घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ
MBh 8.49.116
त्वद्बुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वयम् समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 116 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.49local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷