🪷 Mahābhārata · Karṇa-Parva · Chapter 48

The Book of Karṇa · Parva 8 · 15 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 15 Shlokas

MBh 8.48.1
संजय उवाच श्रुत्वा कर्णं कल्यमुदारवीर्यं; क्रुद्धः पार्थः फल्गुनस्यामितौजाः धनंजयं वाक्यमुवाच चेदं; युधिष्ठिरः कर्णशराभितप्तः
MBh 8.48.2
इदं यदि द्वैतवने ह्यवक्ष्यः; कर्णं योद्धुं न प्रसहे नृपेति वयं तदा प्राप्तकालानि सर्वे; वृत्तान्युपैष्याम तदैव पार्थ
MBh 8.48.3
मयि प्रतिश्रुत्य वधं हि तस्य; बलस्य चाप्तस्य तथैव वीर आनीय नः शत्रुमध्यं स कस्मा;त्समुत्क्षिप्य स्थण्डिले प्रत्यपिंष्ठाः
MBh 8.48.4
अन्वाशिष्म वयमर्जुन त्वयि; यियासवो बहु कल्याणमिष्टम् तन्नः सर्वं विफलं राजपुत्र; फलार्थिनां निचुल इवातिपुष्पः
MBh 8.48.5
प्रच्छादितं बडिशमिवामिषेण; प्रच्छादितो गवय इवापवाचा अनर्थकं मे दर्शितवानसि त्वं; राज्यार्थिनो राज्यरूपं विनाशम्
MBh 8.48.6
यत्तत्पृथां वागुवाचान्तरिक्षे; सप्ताहजाते त्वयि मन्दबुद्धौ जातः पुत्रो वासवविक्रमोऽयं; सर्वाञ्शूराञ्शात्रवाञ्जेष्यतीति
MBh 8.48.7
अयं जेता खाण्डवे देवसंघा;न्सर्वाणि भूतान्यपि चोत्तमौजाः अयं जेता मद्रकलिङ्गकेकया;नयं कुरून्हन्ति च राजमध्ये
MBh 8.48.8
अस्मात्परो न भविता धनुर्धरो; न वै भूतः कश्चन जातु जेता इच्छन्नार्यः सर्वभूतानि कुर्या;द्वशे वशी सर्वसमाप्तविद्यः
MBh 8.48.9
कान्त्या शशाङ्कस्य जवेन वायोः; स्थैर्येण मेरोः क्षमया पृथिव्याः सूर्यस्य भासा धनदस्य लक्ष्म्या; शौर्येण शक्रस्य बलेन विष्णोः
MBh 8.48.10
तुल्यो महात्मा तव कुन्ति पुत्रो; जातोऽदितेर्विष्णुरिवारिहन्ता स्वेषां जयाय द्विषतां वधाय; ख्यातोऽमितौजाः कुलतन्तुकर्ता
MBh 8.48.11
इत्यन्तरिक्षे शतशृङ्गमूर्ध्नि; तपस्विनां शृण्वतां वागुवाच एवंविधं त्वां तच्च नाभूत्तवाद्य; देवा हि नूनमनृतं वदन्ति
MBh 8.48.12
तथापरेषामृषिसत्तमानां; श्रुत्वा गिरं पूजयतां सदैव न संनतिं प्रैमि सुयोधनस्य; न त्वा जानाम्याधिरथेर्भयार्तम्
MBh 8.48.13
त्वष्ट्रा कृतं वाहमकूजनाक्षं; शुभं समास्थाय कपिध्वजं त्वम् खड्गं गृहीत्वा हेमचित्रं समिद्धं; धनुश्चेदं गाण्डिवं तालमात्रम् स केशवेनोह्यमानः कथं नु; कर्णाद्भीतो व्यपयातोऽसि पार्थ
MBh 8.48.14
धनुश्चैतत्केशवाय प्रदाय; यन्ताभविष्यस्त्वं रणे चेद्दुरात्मन् ततोऽहनिष्यत्केशवः कर्णमुग्रं; मरुत्पतिर्वृत्रमिवात्तवज्रः
MBh 8.48.15
मासेऽपतिष्यः पञ्चमे त्वं प्रकृच्छ्रे; न वा गर्भोऽप्यभविष्यः पृथायाः तत्ते श्रमो राजपुत्राभविष्य;न्न संग्रामादपयातुं दुरात्मन्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 15 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.48local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷