🪷 Mahābhārata · Karṇa-Parva · Chapter 36

The Book of Karṇa · Parva 8 · 40 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 40 Shlokas

MBh 8.36.1
संजय उवाच क्षत्रियास्ते महाराज परस्परवधैषिणः अन्योन्यं समरे जघ्नुः कृतवैराः परस्परम्
MBh 8.36.2
रथौघाश्च हयौघाश्च नरौघाश्च समन्ततः गजौघाश्च महाराज संसक्ताः स्म परस्परम्
MBh 8.36.3
गदानां परिघाणां च कणपानां च सर्पताम् प्रासानां भिण्डिपालानां भुशुण्डीनां च सर्वशः
MBh 8.36.4
संपातं चान्वपश्याम संग्रामे भृशदारुणे शलभा इव संपेतुः समन्ताच्छरवृष्टयः
MBh 8.36.5
नागा नागान्समासाद्य व्यधमन्त परस्परम् हया हयांश्च समरे रथिनो रथिनस्तथा पत्तयः पत्तिसंघैश्च हयसंघैर्हयास्तथा
MBh 8.36.6
पत्तयो रथमातङ्गान्रथा हस्त्यश्वमेव च नागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप
MBh 8.36.7
पततां तत्र शूराणां क्रोशतां च परस्परम् घोरमायोधनं जज्ञे पशूनां वैशसं यथा
MBh 8.36.8
रुधिरेण समास्तीर्णा भाति भारत मेदिनी शक्रगोपगणाकीर्णा प्रावृषीव यथा धरा
MBh 8.36.9
यथा वा वाससी शुक्ले महारजनरञ्जिते बिभृयाद्युवतिः श्यामा तद्वदासीद्वसुंधरा मांसशोणितचित्रेव शातकौम्भमयीव च
MBh 8.36.10
छिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सह कुण्डलानां प्रविद्धानां भूषणानां च भारत
MBh 8.36.11
निष्काणामधिसूत्राणां शरीराणां च धन्विनाम् वर्मणां सपताकानां संघास्तत्रापतन्भुवि
MBh 8.36.12
गजान्गजाः समासाद्य विषाणाग्रैरदारयन् विषाणाभिहतास्ते च भ्राजन्ते द्विरदा यथा
MBh 8.36.13
रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव यथा भ्राजन्ति स्यन्दन्तः पर्वता धातुमण्डिताः
MBh 8.36.14
तोमरान्गजिभिर्मुक्तान्प्रतीपानास्थितान्बहून् हस्तैर्विचेरुस्ते नागा बभञ्जुश्चापरे तथा
MBh 8.36.15
नाराचैश्छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाः हिमागमे महाराज व्यभ्रा इव महीधराः
MBh 8.36.16
शरैः कनकपुङ्खैस्तु चिता रेजुर्गजोत्तमाः उल्काभिः संप्रदीप्ताग्राः पर्वता इव मारिष
MBh 8.36.17
केचिदभ्याहता नागा नागैर्नगनिभा भुवि निपेतुः समरे तस्मिन्पक्षवन्त इवाद्रयः
MBh 8.36.18
अपरे प्राद्रवन्नागाः शल्यार्ता व्रणपीडिताः प्रतिमानैश्च कुम्भैश्च पेतुरुर्व्यां महाहवे
MBh 8.36.19
निषेदुः सिंहवच्चान्ये नदन्तो भैरवान्रवान् मम्लुश्च बहवो राजंश्चुकूजुश्चापरे तथा
MBh 8.36.20
हयाश्च निहता बाणैः स्वर्णभाण्डपरिच्छदाः निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश
MBh 8.36.21
अपरे कृष्यमाणाश्च विवेष्टन्तो महीतले भावान्बहुविधांश्चक्रुस्ताडिताः शरतोमरैः
MBh 8.36.22
नरास्तु निहता भूमौ कूजन्तस्तत्र मारिष दृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान्
MBh 8.36.23
धावमानान्परांश्चैव दृष्ट्वान्ये तत्र भारत गोत्रनामानि ख्यातानि शशंसुरितरेतरम्
MBh 8.36.24
तेषां छिन्ना महाराज भुजाः कनकभूषणाः उद्वेष्टन्ते विवेष्टन्ते पतन्ते चोत्पतन्ति च
MBh 8.36.25
निपतन्ति तथा भूमौ स्फुरन्ति च सहस्रशः वेगांश्चान्ये रणे चक्रुः स्फुरन्त इव पन्नगाः
MBh 8.36.26
ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशां पते लोहितार्द्रा भृशं रेजुस्तपनीयध्वजा इव
MBh 8.36.27
वर्तमाने तथा घोरे संकुले सर्वतोदिशम् अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम्
MBh 8.36.28
भौमेन रजसा कीर्णे शस्त्रसंपातसंकुले नैव स्वे न परे राजन्व्यज्ञायन्त तमोवृते
MBh 8.36.29
तथा तदभवद्युद्धं घोररूपं भयानकम् शोणितोदा महानद्यः प्रसस्रुस्तत्र चासकृत्
MBh 8.36.30
शीर्षपाषाणसंछन्नाः केशशैवलशाद्वलाः अस्थिसंघातसंकीर्णा धनुःशरवरोत्तमाः
MBh 8.36.31
मांसकर्दमपङ्काश्च शोणितौघाः सुदारुणाः नदीः प्रवर्तयामासुर्यमराष्ट्रविवर्धनीः
MBh 8.36.32
ता नद्यो घोररूपाश्च नयन्त्यो यमसादनम् अवगाढा मज्जयन्त्यः क्षत्रस्याजनयन्भयम्
MBh 8.36.33
क्रव्यादानां नरव्याघ्र नर्दतां तत्र तत्र ह घोरमायोधनं जज्ञे प्रेतराजपुरोपमम्
MBh 8.36.34
उत्थितान्यगणेयानि कबन्धानि समन्ततः नृत्यन्ति वै भूतगणाः संतृप्ता मांसशोणितैः
MBh 8.36.35
पीत्वा च शोणितं तत्र वसां पीत्वा च भारत मेदोमज्जावसातृप्तास्तृप्ता मांसस्य चैव हि धावमानाश्च दृश्यन्ते काकगृध्रबलास्तथा
MBh 8.36.36
शूरास्तु समरे राजन्भयं त्यक्त्वा सुदुस्त्यजम् योधव्रतसमाख्याताश्चक्रुः कर्माण्यभीतवत्
MBh 8.36.37
शरशक्तिसमाकीर्णे क्रव्यादगणसंकुले व्यचरन्त गणैः शूराः ख्यापयन्तः स्वपौरुषम्
MBh 8.36.38
अन्योन्यं श्रावयन्ति स्म नामगोत्राणि भारत पितृनामानि च रणे गोत्रनामानि चाभितः
MBh 8.36.39
श्रावयन्तो हि बहवस्तत्र योधा विशां पते अन्योन्यमवमृद्नन्तः शक्तितोमरपट्टिशैः
MBh 8.36.40
वर्तमाने तदा युद्धे घोररूपे सुदारुणे व्यषीदत्कौरवी सेना भिन्ना नौरिव सागरे

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 40 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.36local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷