🪷 Mahābhārata · Karṇa-Parva · Chapter 37
The Book of Karṇa · Parva 8 · 38 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 38 Shlokas
MBh 8.37.1
संजय उवाच
वर्तमाने तदा युद्धे क्षत्रियाणां निमज्जने
गाण्डीवस्य महान्घोषः शुश्रुवे युधि मारिष
MBh 8.37.2
संशप्तकानां कदनमकरोद्यत्र पाण्डवः
कोसलानां तथा राजन्नारायणबलस्य च
MBh 8.37.3
संशप्तकास्तु समरे शरवृष्टिं समन्ततः
अपातयन्पार्थमूर्ध्नि जयगृद्धाः प्रमन्यवः
MBh 8.37.4
तां वृष्टिं सहसा राजंस्तरसा धारयन्प्रभुः
व्यगाहत रणे पार्थो विनिघ्नन्रथिनां वरः
MBh 8.37.5
निगृह्य तु रथानीकं कङ्कपत्रैः शिलाशितैः
आससाद रणे पार्थः सुशर्माणं महारथम्
MBh 8.37.6
स तस्य शरवर्षाणि ववर्ष रथिनां वरः
तथा संशप्तकाश्चैव पार्थस्य समरे स्थिताः
MBh 8.37.7
सुशर्मा तु ततः पार्थं विद्ध्वा नवभिराशुगैः
जनार्दनं त्रिभिर्बाणैरभ्यहन्दक्षिणे भुजे
ततोऽपरेण भल्लेन केतुं विव्याध मारिष
MBh 8.37.8
स वानरवरो राजन्विश्वकर्मकृतो महान्
ननाद सुमहन्नादं भीषयन्वै ननर्द च
MBh 8.37.9
कपेस्तु निनदं श्रुत्वा संत्रस्ता तव वाहिनी
भयं विपुलमादाय निश्चेष्टा समपद्यत
MBh 8.37.10
ततः सा शुशुभे सेना निश्चेष्टावस्थिता नृप
नानापुष्पसमाकीर्णं यथा चैत्ररथं वनम्
MBh 8.37.11
प्रतिलभ्य ततः संज्ञां योधास्ते कुरुसत्तम
अर्जुनं सिषिचुर्बाणैः पर्वतं जलदा इव
परिवव्रुस्तदा सर्वे पाण्डवस्य महारथम्
MBh 8.37.12
ते हयान्रथचक्रे च रथेषाश्चापि भारत
निगृह्य बलवत्तूर्णं सिंहनादमथानदन्
MBh 8.37.13
अपरे जगृहुश्चैव केशवस्य महाभुजौ
पार्थमन्ये महाराज रथस्थं जगृहुर्मुदा
MBh 8.37.14
केशवस्तु तदा बाहू विधुन्वन्रणमूर्धनि
पातयामास तान्सर्वान्दुष्टहस्तीव हस्तिनः
MBh 8.37.15
ततः क्रुद्धो रणे पार्थः संवृतस्तैर्महारथैः
निगृहीतं रथं दृष्ट्वा केशवं चाप्यभिद्रुतम्
रथारूढांश्च सुबहून्पदातींश्चाप्यपातयत्
MBh 8.37.16
आसन्नांश्च ततो योधाञ्शरैरासन्नयोधिभिः
च्यावयामास समरे केशवं चेदमब्रवीत्
MBh 8.37.17
पश्य कृष्ण महाबाहो संशप्तकगणान्मया
कुर्वाणान्दारुणं कर्म वध्यमानान्सहस्रशः
MBh 8.37.18
रथबन्धमिमं घोरं पृथिव्यां नास्ति कश्चन
यः सहेत पुमाँल्लोके मदन्यो यदुपुंगव
MBh 8.37.19
इत्येवमुक्त्वा बीभत्सुर्देवदत्तमथाधमत्
पाञ्चजन्यं च कृष्णोऽपि पूरयन्निव रोदसी
MBh 8.37.20
तं तु शङ्खस्वनं श्रुत्वा संशप्तकवरूथिनी
संचचाल महाराज वित्रस्ता चाभवद्भृशम्
MBh 8.37.21
पदबन्धं ततश्चक्रे पाण्डवः परवीरहा
नागमस्त्रं महाराज संप्रोदीर्य मुहुर्मुहुः
MBh 8.37.22
यानुद्दिश्य रणे पार्थः पदबन्धं चकार ह
ते बद्धाः पदबन्धेन पाण्डवेन महात्मना
निश्चेष्टा अभवन्राजन्नश्मसारमया इव
MBh 8.37.23
निश्चेष्टांस्तु ततो योधानवधीत्पाण्डुनन्दनः
यथेन्द्रः समरे दैत्यांस्तारकस्य वधे पुरा
MBh 8.37.24
ते वध्यमानाः समरे मुमुचुस्तं रथोत्तमम्
आयुधानि च सर्वाणि विस्रष्टुमुपचक्रमुः
MBh 8.37.25
ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम्
सौपर्णमस्त्रं त्वरितः प्रादुश्चक्रे महारथः
MBh 8.37.26
ततः सुपर्णाः संपेतुर्भक्षयन्तो भुजंगमान्
ते वै विदुद्रुवुर्नागा दृष्ट्वा तान्खचरान्नृप
MBh 8.37.27
बभौ बलं तद्विमुक्तं पदबन्धाद्विशां पते
मेघवृन्दाद्यथा मुक्तो भास्करस्तापयन्प्रजाः
MBh 8.37.28
विप्रमुक्तास्तु ते योधाः फल्गुनस्य रथं प्रति
ससृजुर्बाणसंघांश्च शस्त्रसंघांश्च मारिष
MBh 8.37.29
तां महास्त्रमयीं वृष्टिं संछिद्य शरवृष्टिभिः
व्यवातिष्ठत्ततो योधान्वासविः परवीरहा
MBh 8.37.30
सुशर्मा तु ततो राजन्बाणेनानतपर्वणा
अर्जुनं हृदये विद्ध्वा विव्याधान्यैस्त्रिभिः शरैः
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्
MBh 8.37.31
प्रतिलभ्य ततः संज्ञां श्वेताश्वः कृष्णसारथिः
ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे त्वरान्वितः
ततो बाणसहस्राणि समुत्पन्नानि मारिष
MBh 8.37.32
सर्वदिक्षु व्यदृश्यन्त सूदयन्तो नृप द्विपान्
हयान्रथांश्च समरे शस्त्रैः शतसहस्रशः
MBh 8.37.33
वध्यमाने ततः सैन्ये विपुला भीः समाविशत्
संशप्तकगणानां च गोपालानां च भारत
न हि कश्चित्पुमांस्तत्र योऽर्जुनं प्रत्ययुध्यत
MBh 8.37.34
पश्यतां तत्र वीराणामहन्यत महद्बलम्
हन्यमानमपश्यंश्च निश्चेष्टाः स्म पराक्रमे
MBh 8.37.35
अयुतं तत्र योधानां हत्वा पाण्डुसुतो रणे
व्यभ्राजत रणे राजन्विधूमोऽग्निरिव ज्वलन्
MBh 8.37.36
चतुर्दश सहस्राणि यानि शिष्टानि भारत
रथानामयुतं चैव त्रिसाहस्राश्च दन्तिनः
MBh 8.37.37
ततः संशप्तका भूयः परिवव्रुर्धनंजयम्
मर्तव्यमिति निश्चित्य जयं वापि निवर्तनम्
MBh 8.37.38
तत्र युद्धं महद्ध्यासीत्तावकानां विशां पते
शूरेण बलिना सार्धं पाण्डवेन किरीटिना
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 36
- Next chapter · Karṇa-Parva Ch 38 →
Sources and Connected Readings
Continue from these 38 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.37local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷