🪷 Mahābhārata · Karṇa-Parva · Chapter 35

The Book of Karṇa · Parva 8 · 60 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 60 Shlokas

MBh 8.35.1
धृतराष्ट्र उवाच सुदुष्करमिदं कर्म कृतं भीमेन संजय येन कर्णो महाबाहू रथोपस्थे निपातितः
MBh 8.35.2
कर्णो ह्येको रणे हन्ता सृञ्जयान्पाण्डवैः सह इति दुर्योधनः सूत प्राब्रवीन्मां मुहुर्मुहुः
MBh 8.35.3
पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे ततः परं किमकरोत्पुत्रो दुर्योधनो मम
MBh 8.35.4
संजय उवाच विभ्रान्तं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे महत्या सेनया राजन्सोदर्यान्समभाषत
MBh 8.35.5
शीघ्रं गच्छत भद्रं वो राधेयं परिरक्षत भीमसेनभयागाधे मज्जन्तं व्यसनार्णवे
MBh 8.35.6
ते तु राज्ञा समादिष्टा भीमसेनजिघांसवः अभ्यवर्तन्त संक्रुद्धाः पतंगा इव पावकम्
MBh 8.35.7
श्रुतायुर्दुर्धरः क्राथो विवित्सुर्विकटः समः निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ
MBh 8.35.8
दुष्प्रधर्षः सुबाहुश्च वातवेगसुवर्चसौ धनुर्ग्राहो दुर्मदश्च तथा सत्त्वसमः सहः
MBh 8.35.9
एते रथैः परिवृता वीर्यवन्तो महाबलाः भीमसेनं समासाद्य समन्तात्पर्यवारयन् ते व्यमुञ्चञ्शरव्रातान्नानालिङ्गान्समन्ततः
MBh 8.35.10
स तैरभ्यर्द्यमानस्तु भीमसेनो महाबलः तेषामापततां क्षिप्रं सुतानां ते नराधिप रथैः पञ्चाशता सार्धं पञ्चाशन्न्यहनद्रथान्
MBh 8.35.11
विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तदा भीमेन च महाराज स पपात हतो भुवि
MBh 8.35.12
तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतः प्रभो अभ्यद्रवन्त समरे भीमं भीमपराक्रमम्
MBh 8.35.13
ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे जहार समरे प्राणान्भीमो भीमपराक्रमः
MBh 8.35.14
तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ विकटश्च समश्चोभौ देवगर्भसमौ नृप
MBh 8.35.15
ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षयम् नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि
MBh 8.35.16
हाहाकारस्ततस्तीव्रः संबभूव जनेश्वर वध्यमानेषु ते राजंस्तदा पुत्रेषु धन्विषु
MBh 8.35.17
तेषां संलुलिते सैन्ये भीमसेनो महाबलः नन्दोपनन्दौ समरे प्रापयद्यमसादनम्
MBh 8.35.18
ततस्ते प्राद्रवन्भीताः पुत्रास्ते विह्वलीकृताः भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम्
MBh 8.35.19
पुत्रांस्ते निहतान्दृष्ट्वा सूतपुत्रो महामनाः हंसवर्णान्हयान्भूयः प्राहिणोद्यत्र पाण्डवः
MBh 8.35.20
ते प्रेषिता महाराज मद्रराजेन वाजिनः भीमसेनरथं प्राप्य समसज्जन्त वेगिताः
MBh 8.35.21
स संनिपातस्तुमुलो घोररूपो विशां पते आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे
MBh 8.35.22
दृष्ट्वा मम महाराज तौ समेतौ महारथौ आसीद्बुद्धिः कथं नूनमेतदद्य भविष्यति
MBh 8.35.23
ततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्धसन्निव विरथं भीमकर्माणं भीमं कर्णश्चकार ह
MBh 8.35.24
विरथो भरतश्रेष्ठः प्रहसन्ननिलोपमः गदाहस्तो महाबाहुरपतत्स्यन्दनोत्तमात्
MBh 8.35.25
नागान्सप्तशतान्राजन्नीषादन्तान्प्रहारिणः व्यधमत्सहसा भीमः क्रुद्धरूपः परंतपः
MBh 8.35.26
दन्तवेष्टेषु नेत्रेषु कम्भेषु स कटेषु च मर्मस्वपि च मर्मज्ञो निनदन्व्यधमद्भृशम्
MBh 8.35.27
ततस्ते प्राद्रवन्भीताः प्रतीपं प्रहिताः पुनः महामात्रैस्तमावव्रुर्मेघा इव दिवाकरम्
MBh 8.35.28
तान्स सप्तशतान्नागान्सारोहायुधकेतनान् भूमिष्ठो गदया जघ्ने शरन्मेघानिवानिलः
MBh 8.35.29
ततः सुबलपुत्रस्य नागानतिबलान्पुनः पोथयामास कौन्तेयो द्वापञ्चाशतमाहवे
MBh 8.35.30
तथा रथशतं साग्रं पत्तींश्च शतशोऽपरान् न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम्
MBh 8.35.31
प्रताप्यमानं सूर्येण भीमेन च महात्मना तव सैन्यं संचुकोच चर्म वह्निगतं यथा
MBh 8.35.32
ते भीमभयसंत्रस्तास्तावका भरतर्षभ विहाय समरे भीमं दुद्रुवुर्वै दिशो दश
MBh 8.35.33
रथाः पञ्चशताश्चान्ये ह्रादिनश्चर्मवर्मिणः भीममभ्यद्रवंस्तूर्णं शरपूगैः समन्ततः
MBh 8.35.34
तान्ससूतरथान्सर्वान्सपताकाध्वजायुधान् पोथयामास गदया भीमो विष्णुरिवासुरान्
MBh 8.35.35
ततः शकुनिनिर्दिष्टाः सादिनः शूरसंमताः त्रिसाहस्रा ययुर्भीमं शक्त्यृष्टिप्रासपाणयः
MBh 8.35.36
तान्प्रत्युद्गम्य यवनानश्वारोहान्वरारिहा विचरन्विविधान्मार्गान्घातयामास पोथयन्
MBh 8.35.37
तेषामासीन्महाञ्शब्दस्ताडितानां च सार्वशः असिभिश्छिद्यमानानां नडानामिव भारत
MBh 8.35.38
एवं सुबलपुत्रस्य त्रिसाहस्रान्हयोत्तमान् हत्वान्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात्
MBh 8.35.39
कर्णोऽपि समरे राजन्धर्मपुत्रमरिंदमम् शरैः प्रच्छादयामास सारथिं चाप्यपातयत्
MBh 8.35.40
ततः संप्रद्रुतं संख्ये रथं दृष्ट्वा महारथः अन्वधावत्किरन्बाणैः कङ्कपत्रैरजिह्मगैः
MBh 8.35.41
राजानमभि धावन्तं शरैरावृत्य रोदसी क्रुद्धः प्रच्छादयामास शरजालेन मारुतिः
MBh 8.35.42
संनिवृत्तस्ततस्तूर्णं राधेयः शत्रुकर्शनः भीमं प्रच्छादयामास समन्तान्निशितैः शरैः
MBh 8.35.43
भीमसेनरथव्यग्रं कर्णं भारत सात्यकिः अभ्यर्दयदमेयात्मा पार्ष्णिग्रहणकारणात् अभ्यवर्तत कर्णस्तमर्दितोऽपि शरैर्भृशम्
MBh 8.35.44
तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम् विसृजन्तौ शरांश्चित्रान्विभ्राजेतां मनस्विनौ
MBh 8.35.45
ताभ्यां वियति राजेन्द्र विततं भीमदर्शनम् क्रौञ्चपृष्ठारुणं रौद्रं बाणजालं व्यदृश्यत
MBh 8.35.46
नैव सूर्यप्रभां खं वा न दिशः प्रदिशः कुतः प्राज्ञासिष्म वयं ताभ्यां शरैर्मुक्तैः सहस्रशः
MBh 8.35.47
मध्याह्ने तपतो राजन्भास्करस्य महाप्रभाः हृताः सर्वाः शरौघैस्तैः कर्णमाधवयोस्तदा
MBh 8.35.48
सौबलं कृतवर्माणं द्रौणिमाधिरथिं कृपम् संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः
MBh 8.35.49
तेषामापततां शब्दस्तीव्र आसीद्विशां पते उद्धूतानां यथा वृष्ट्या सागराणां भयावहः
MBh 8.35.50
ते सेने भृशसंविग्ने दृष्ट्वान्योन्यं महारणे हर्षेण महता युक्ते परिगृह्य परस्परम्
MBh 8.35.51
ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे यादृशं न कदाचिद्धि दृष्टपूर्वं न च श्रुतम्
MBh 8.35.52
बलौघस्तु समासाद्य बलौघं सहसा रणे उपासर्पत वेगेन जलौघ इव सागरम्
MBh 8.35.53
आसीन्निनादः सुमहान्बलौघानां परस्परम् गर्जतां सागरौघाणां यथा स्यान्निस्वनो महान्
MBh 8.35.54
ते तु सेने समासाद्य वेगवत्यौ परस्परम् एकीभावमनुप्राप्ते नद्याविव समागमे
MBh 8.35.55
ततः प्रववृते युद्धं घोररूपं विशां पते कुरूणां पाण्डवानां च लिप्सतां सुमहद्यशः
MBh 8.35.56
कुरूणां गर्जतां तत्र अविच्छेदकृता गिरः श्रूयन्ते विविधा राजन्नामान्युद्दिश्य भारत
MBh 8.35.57
यस्य यद्धि रणे न्यङ्गं पितृतो मातृतोऽपि वा कर्मतः शीलतो वापि स तच्छ्रावयते युधि
MBh 8.35.58
तान्दृष्ट्वा समरे शूरांस्तर्जयानान्परस्परम् अभवन्मे मती राजन्नैषामस्तीति जीवितम्
MBh 8.35.59
तेषां दृष्ट्वा तु क्रुद्धानां वपूंष्यमिततेजसाम् अभवन्मे भयं तीव्रं कथमेतद्भविष्यति
MBh 8.35.60
ततस्ते पाण्डवा राजन्कौरवाश्च महारथाः ततक्षुः सायकैस्तीक्ष्णैर्निघ्नन्तो हि परस्परम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 60 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.35local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷