🪷 Mahābhārata · Karṇa-Parva · Chapter 29

The Book of Karṇa · Parva 8 · 40 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 40 Shlokas

MBh 8.29.1
संजय उवाच मद्राधिपस्याधिरथिस्तदैवं; वचो निशम्याप्रियमप्रतीतः उवाच शल्यं विदितं ममैत;द्यथाविधावर्जुनवासुदेवौ
MBh 8.29.2
शौरे रथं वाहयतोऽर्जुनस्य; बलं महास्त्राणि च पाण्डवस्य अहं विजानामि यथावदद्य; परोक्षभूतं तव तत्तु शल्य
MBh 8.29.3
तौ चाप्रधृष्यौ शस्त्रभृतां वरिष्ठौ; व्यपेतभीर्योधयिष्यामि कृष्णौ संतापयत्यभ्यधिकं तु रामा;च्छापोऽद्य मां ब्राह्मणसत्तमाच्च
MBh 8.29.4
अवात्सं वै ब्राह्मणच्छद्मनाहं; रामे पुरा दिव्यमस्त्रं चिकीर्षुः तत्रापि मे देवराजेन विघ्नो; हितार्थिना फल्गुनस्यैव शल्य
MBh 8.29.5
कृतोऽवभेदेन ममोरुमेत्य; प्रविश्य कीटस्य तनुं विरूपाम् गुरोर्भयाच्चापि न चेलिवानहं; तच्चावबुद्धो ददृशे स विप्रः
MBh 8.29.6
पृष्टश्चाहं तमवोचं महर्षिं; सूतोऽहमस्मीति स मां शशाप सूतोपधावाप्तमिदं त्वयास्त्रं; न कर्मकाले प्रतिभास्यति त्वाम्
MBh 8.29.7
अन्यत्र यस्मात्तव मृत्युकाला;दब्राह्मणे ब्रह्म न हि ध्रुवं स्यात् तदद्य पर्याप्तमतीव शस्त्र;मस्मिन्संग्रामे तुमुले तात भीमे
MBh 8.29.8
अपां पतिर्वेगवानप्रमेयो; निमज्जयिष्यन्निवहान्प्रजानाम् महानगं यः कुरुते समुद्रं; वेलैव तं वारयत्यप्रमेयम्
MBh 8.29.9
प्रमुञ्चन्तं बाणसंघानमोघा;न्मर्मच्छिदो वीरहणः सपत्रान् कुन्तीपुत्रं प्रतियोत्स्यामि युद्धे; ज्याकर्षिणामुत्तममद्य लोके
MBh 8.29.10
एवं बलेनातिबलं महास्त्रं; समुद्रकल्पं सुदुरापमुग्रम् शरौघिणं पार्थिवान्मज्जयन्तं; वेलेव पार्थमिषुभिः संसहिष्ये
MBh 8.29.11
अद्याहवे यस्य न तुल्यमन्यं; मन्ये मनुष्यं धनुराददानम् सुरासुरान्वै युधि यो जयेत; तेनाद्य मे पश्य युद्धं सुघोरम्
MBh 8.29.12
अतिमानी पाण्डवो युद्धकामो; अमानुषैरेष्यति मे महास्त्रैः तस्यास्त्रमस्त्रैरभिहत्य संख्ये; शरोत्तमैः पातयिष्यामि पार्थम्
MBh 8.29.13
दिवाकरेणापि समं तपन्तं; समाप्तरश्मिं यशसा ज्वलन्तम् तमोनुदं मेघ इवातिमात्रो; धनंजयं छादयिष्यामि बाणैः
MBh 8.29.14
वैश्वानरं धूमशिखं ज्वलन्तं; तेजस्विनं लोकमिमं दहन्तम् मेघो भूत्वा शरवर्षैर्यथाग्निं; तथा पार्थं शमयिष्यामि युद्धे
MBh 8.29.15
प्रमाथिनं बलवन्तं प्रहारिणं; प्रभञ्जनं मातरिश्वानमुग्रम् युद्धे सहिष्ये हिमवानिवाचलो; धनंजयं क्रुद्धममृष्यमाणम्
MBh 8.29.16
विशारदं रथमार्गेष्वसक्तं; धुर्यं नित्यं समरेषु प्रवीरम् लोके वरं सर्वधनुर्धराणां; धनंजयं संयुगे संसहिष्ये
MBh 8.29.17
अद्याहवे यस्य न तुल्यमन्यं; मध्येमनुष्यं धनुराददानम् सर्वामिमां यः पृथिवीं सहेत; तथा विद्वान्योत्स्यमानोऽस्मि तेन
MBh 8.29.18
यः सर्वभूतानि सदेवकानि; प्रस्थेऽजयत्खाण्डवे सव्यसाची को जीवितं रक्षमाणो हि तेन; युयुत्सते मामृते मानुषोऽन्यः
MBh 8.29.19
अहं तस्य पौरुषं पाण्डवस्य; ब्रूयां हृष्टः समितौ क्षत्रियाणाम् किं त्वं मूर्खः प्रभषन्मूढचेता; मामवोचः पौरुषमर्जुनस्य
MBh 8.29.20
अप्रियो यः परुषो निष्ठुरो हि; क्षुद्रः क्षेप्ता क्षमिणश्चाक्षमावान् हन्यामहं तादृशानां शतानि; क्षमामि त्वां क्षमया कालयोगात्
MBh 8.29.21
अवोचस्त्वं पाण्डवार्थेऽप्रियाणि; प्रधर्षयन्मां मूढवत्पापकर्मन् मय्यार्जवे जिह्मगतिर्हतस्त्वं; मित्रद्रोही सप्तपदं हि मित्रम्
MBh 8.29.22
कालस्त्वयं मृत्युमयोऽतिदारुणो; दुर्योधनो युद्धमुपागमद्यत् तस्यार्थसिद्धिमभिकाङ्क्षमाण;स्तमभ्येष्ये यत्र नैकान्त्यमस्ति
MBh 8.29.23
मित्रं मिदेर्नन्दतेः प्रीयतेर्वा; संत्रायतेर्मानद मोदतेर्वा ब्रवीति तच्चामुत विप्रपूर्वा;त्तच्चापि सर्वं मम दुर्योधनेऽस्ति
MBh 8.29.24
शत्रुः शदेः शासतेः शायतेर्वा; शृणातेर्वा श्वयतेर्वापि सर्गे उपसर्गाद्बहुधा सूदतेश्च; प्रायेण सर्वं त्वयि तच्च मह्यम्
MBh 8.29.25
दुर्योधनार्थं तव चाप्रियार्थं; यशोर्थमात्मार्थमपीश्वरार्थम् तस्मादहं पाण्डववासुदेवौ; योत्स्ये यत्नात्कर्म तत्पश्य मेऽद्य
MBh 8.29.26
अस्त्राणि पश्याद्य ममोत्तमानि; ब्राह्माणि दिव्यान्यथ मानुषाणि आसादयिष्याम्यहमुग्रवीर्यं; द्विपोत्तमं मत्तमिवाभिमत्तः
MBh 8.29.27
अस्त्रं ब्राह्मं मनसा तद्ध्यजय्यं; क्षेप्स्ये पार्थायाप्रतिमं जयाय तेनापि मे नैव मुच्येत युद्धे; न चेत्पतेद्विषमे मेऽद्य चक्रम्
MBh 8.29.28
वैवस्वताद्दण्डहस्ताद्वरुणाद्वापि पाशिनः सगदाद्वा धनपतेः सवज्राद्वापि वासवात्
MBh 8.29.29
नान्यस्मादपि कस्माच्चिद्बिभिमो ह्याततायिनः इति शल्य विजानीहि यथा नाहं बिभेम्यभीः
MBh 8.29.30
तस्माद्भयं न मे पार्थान्नापि चैव जनार्दनात् अद्य युद्धं हि ताभ्यां मे संपराये भविष्यति
MBh 8.29.31
श्वभ्रे ते पततां चक्रमिति मे ब्राह्मणोऽवदत् युध्यमानस्य संग्रामे प्राप्तस्यैकायने भयम्
MBh 8.29.32
तस्माद्बिभेमि बलवद्ब्राह्मणव्याहृतादहम् एते हि सोमराजान ईश्वराः सुखदुःखयोः
MBh 8.29.33
होमधेन्वा वत्समस्य प्रमत्त इषुणाहनम् चरन्तमजने शल्य ब्राह्मणात्तपसो निधेः
MBh 8.29.34
ईषादन्तान्सप्तशतान्दासीदासशतानि च ददतो द्विजमुख्याय प्रसादं न चकार मे
MBh 8.29.35
कृष्णानां श्वेतवत्सानां सहस्राणि चतुर्दश आहरन्न लभे तस्मात्प्रसादं द्विजसत्तमात्
MBh 8.29.36
ऋद्धं गेहं सर्वकामैर्यच्च मे वसु किंचन तत्सर्वमस्मै सत्कृत्य प्रयच्छामि न चेच्छति
MBh 8.29.37
ततोऽब्रवीन्मां याचन्तमपराद्धं प्रयत्नतः व्याहृतं यन्मया सूत तत्तथा न तदन्यथा
MBh 8.29.38
अनृतोक्तं प्रजा हन्यात्ततः पापमवाप्नुयात् तस्माद्धर्माभिरक्षार्थं नानृतं वक्तुमुत्सहे
MBh 8.29.39
मा त्वं ब्रह्मगतिं हिंस्याः प्रायश्चित्तं कृतं त्वया मद्वाक्यं नानृतं लोके कश्चित्कुर्यात्समाप्नुहि
MBh 8.29.40
इत्येतत्ते मया प्रोक्तं क्षिप्तेनापि सुहृत्तया जानामि त्वाधिक्षिपन्तं जोषमास्स्वोत्तरं शृणु

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 40 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.29local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷