🪷 Mahābhārata · Karṇa-Parva · Chapter 28

The Book of Karṇa · Parva 8 · 66 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 66 Shlokas

MBh 8.28.1
संजय उवाच मारिषाधिरथेः श्रुत्वा वचो युद्धाभिनन्दिनः शल्योऽब्रवीत्पुनः कर्णं निदर्शनमुदाहरन्
MBh 8.28.2
यथैव मत्तो मद्येन त्वं तथा न च वा तथा तथाहं त्वां प्रमाद्यन्तं चिकित्सामि सुहृत्तया
MBh 8.28.3
इमां काकोपमां कर्ण प्रोच्यमानां निबोध मे श्रुत्वा यथेष्टं कुर्यास्त्वं विहीन कुलपांसन
MBh 8.28.4
नाहमात्मनि किंचिद्वै किल्बिषं कर्ण संस्मरे येन त्वं मां महाबाहो हन्तुमिच्छस्यनागसम्
MBh 8.28.5
अवश्यं तु मया वाच्यं बुध्यतां यदि ते हितम् विशेषतो रथस्थेन राज्ञश्चैव हितैषिणा
MBh 8.28.6
समं च विषमं चैव रथिनश्च बलाबलम् श्रमः खेदश्च सततं हयानां रथिना सह
MBh 8.28.7
आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम् भारश्चाप्यतिभारश्च शल्यानां च प्रतिक्रिया
MBh 8.28.8
अस्त्रयोगश्च युद्धं च निमित्तानि तथैव च सर्वमेतन्मया ज्ञेयं रथस्यास्य कुटुम्बिना अतस्त्वां कथये कर्ण निदर्शनमिदं पुनः
MBh 8.28.9
वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान् यज्वा दानपतिः क्षान्तः स्वकर्मस्थोऽभवच्छुचिः
MBh 8.28.10
बहुपुत्रः प्रियापत्यः सर्वभूतानुकम्पकः राज्ञो धर्मप्रधानस्य राष्ट्रे वसति निर्भयः
MBh 8.28.11
पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम् काको बहूनामभवदुच्छिष्टकृतभोजनः
MBh 8.28.12
तस्मै सदा प्रयच्छन्ति वैश्यपुत्राः कुमारकाः मांसोदनं दधि क्षीरं पायसं मधुसर्पिषी
MBh 8.28.13
स चोच्छिष्टभृतः काको वैश्यपुत्रैः कुमारकैः सदृशान्पक्षिणो दृप्तः श्रेयसश्चावमन्यते
MBh 8.28.14
अथ हंसाः समुद्रान्ते कदाचिदभिपातिनः गरुडस्य गतौ तुल्याश्चक्राङ्गा हृष्टचेतसः
MBh 8.28.15
कुमारकास्ततो हंसान्दृष्ट्वा काकमथाब्रुवन् भवानेव विशिष्टो हि पतत्रिभ्यो विहंगम
MBh 8.28.16
प्रतार्यमाणस्तु स तैरल्पबुद्धिभिरण्डजः तद्वचः सत्यमित्येव मौर्ख्याद्दर्पाच्च मन्यते
MBh 8.28.17
तान्सोऽभिपत्य जिज्ञासुः क एषां श्रेष्ठभागिति उच्छिष्टदर्पितः काको बहूनां दूरपातिनाम्
MBh 8.28.18
तेषां यं प्रवरं मेने हंसानां दूरपातिनाम् तमाह्वयत दुर्बुद्धिः पताम इति पक्षिणम्
MBh 8.28.19
तच्छ्रुत्वा प्राहसन्हंसा ये तत्रासन्समागताः भाषतो बहु काकस्य बलिनः पततां वराः इदमूचुश्च चक्राङ्गा वचः काकं विहंगमाः
MBh 8.28.20
वयं हंसाश्चरामेमां पृथिवीं मानसौकसः पक्षिणां च वयं नित्यं दूरपातेन पूजिताः
MBh 8.28.21
कथं नु हंसं बलिनं वज्राङ्गं दूरपातिनम् काको भूत्वा निपतने समाह्वयसि दुर्मते कथं त्वं पतनं काक सहास्माभिर्ब्रवीषि तत्
MBh 8.28.22
अथ हंसवचो मूढः कुत्सयित्वा पुनः पुनः प्रजगादोत्तरं काकः कत्थनो जातिलाघवात्
MBh 8.28.23
शतमेकं च पातानां पतितास्मि न संशयः शतयोजनमेकैकं विचित्रं विविधं तथा
MBh 8.28.24
उड्डीनमवडीनं च प्रडीनं डीनमेव च निडीनमथ संडीनं तिर्यक्चातिगतानि च
MBh 8.28.25
विडीनं परिडीनं च पराडीनं सुडीनकम् अतिडीनं महाडीनं निडीनं परिडीनकम्
MBh 8.28.26
गतागतप्रतिगता बह्वीश्च निकुडीनिकाः कर्तास्मि मिषतां वोऽद्य ततो द्रक्ष्यथ मे बलम्
MBh 8.28.27
एवमुक्ते तु काकेन प्रहस्यैको विहंगमः उवाच हंसस्तं काकं वचनं तन्निबोध मे
MBh 8.28.28
शतमेकं च पातानां त्वं काक पतिता ध्रुवम् एकमेव तु ये पातं विदुः सर्वे विहंगमाः
MBh 8.28.29
तमहं पतिता काक नान्यं जानामि कंचन पत त्वमपि रक्ताक्ष येन वा तेन मन्यसे
MBh 8.28.30
अथ काकाः प्रजहसुर्ये तत्रासन्समागताः कथमेकेन पातेन हंसः पातशतं जयेत्
MBh 8.28.31
एकेनैव शतस्यैकं पातेनाभिभविष्यति हंसस्य पतितं काको बलवानाशुविक्रमः
MBh 8.28.32
प्रपेततुः स्पर्धयाथ ततस्तौ हंसवायसौ एकपाती च चक्राङ्गः काकः पातशतेन च
MBh 8.28.33
पेतिवानथ चक्राङ्गः पेतिवानथ वायसः विसिस्मापयिषुः पातैराचक्षाणोऽऽत्मनः क्रियाम्
MBh 8.28.34
अथ काकस्य चित्राणि पतितानीतराणि च दृष्ट्वा प्रमुदिताः काका विनेदुरथ तैः स्वरैः
MBh 8.28.35
हंसांश्चावहसन्ति स्म प्रावदन्नप्रियाणि च उत्पत्योत्पत्य च प्राहुर्मुहूर्तमिति चेति च
MBh 8.28.36
वृक्षाग्रेभ्यः स्थलेभ्यश्च निपतन्त्युत्पतन्ति च कुर्वाणा विविधान्रावानाशंसन्तस्तदा जयम्
MBh 8.28.37
हंसस्तु मृदुकेनैव विक्रान्तुमुपचक्रमे प्रत्यहीयत काकाच्च मुहूर्तमिव मारिष
MBh 8.28.38
अवमन्य रयं हंसानिदं वचनमब्रवीत् योऽसावुत्पतितो हंसः सोऽसावेव प्रहीयते
MBh 8.28.39
अथ हंसः स तच्छ्रुत्वा प्रापतत्पश्चिमां दिशम् उपर्युपरि वेगेन सागरं वरुणालयम्
MBh 8.28.40
ततो भीः प्राविशत्काकं तदा तत्र विचेतसम् द्वीपद्रुमानपश्यन्तं निपतन्तं श्रमान्वितम् निपतेयं क्व नु श्रान्त इति तस्मिञ्जलार्णवे
MBh 8.28.41
अविषह्यः समुद्रो हि बहुसत्त्वगणालयः महाभूतशतोद्भासी नभसोऽपि विशिष्यते
MBh 8.28.42
गाम्भीर्याद्धि समुद्रस्य न विशेषः कुलाधम दिगम्बराम्भसां कर्ण समुद्रस्था हि दुर्जयाः विदूरपातात्तोयस्य किं पुनः कर्ण वायसः
MBh 8.28.43
अथ हंसोऽभ्यतिक्रम्य मुहूर्तमिति चेति च अवेक्षमाणस्तं काकं नाशक्नोद्व्यपसर्पितुम् अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत
MBh 8.28.44
तं तथा हीयमानं च हंसो दृष्ट्वाब्रवीदिदम् उज्जिहीर्षुर्निमज्जन्तं स्मरन्सत्पुरुषव्रतम्
MBh 8.28.45
बहूनि पतनानि त्वमाचक्षाणो मुहुर्मुहुः पतस्यव्याहरंश्चेदं न नो गुह्यं प्रभाषसे
MBh 8.28.46
किं नाम पतनं काक यत्त्वं पतसि सांप्रतम् जलं स्पृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः
MBh 8.28.47
स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन जलमर्णवे काको दृढं परिश्रान्तः सहसा निपपात ह
MBh 8.28.48
हंस उवाच शतमेकं च पातानां यत्प्रभाषसि वायस नानाविधानीह पुरा तच्चानृतमिहाद्य ते
MBh 8.28.49
काक उवाच उच्छिष्टदर्पितो हंस मन्येऽऽत्मानं सुपर्णवत् अवमन्य बहूंश्चाहं काकानन्यांश्च पक्षिणः प्राणैर्हंस प्रपद्ये त्वां द्वीपान्तं प्रापयस्व माम्
MBh 8.28.50
यद्यहं स्वस्तिमान्हंस स्वदेशं प्राप्नुयां पुनः न कंचिदवमन्येयमापदो मां समुद्धर
MBh 8.28.51
तमेवंवादिनं दीनं विलपन्तमचेतनम् काक काकेति वाशन्तं निमज्जन्तं महार्णवे
MBh 8.28.52
तथैत्य वायसं हंसो जलक्लिन्नं सुदुर्दशम् पद्भ्यामुत्क्षिप्य वेपन्तं पृष्ठमारोपयच्छनैः
MBh 8.28.53
आरोप्य पृष्ठं काकं तं हंसः कर्ण विचेतसम् आजगाम पुनर्द्वीपं स्पर्धया पेततुर्यतः
MBh 8.28.54
संस्थाप्य तं चापि पुनः समाश्वास्य च खेचरम् गतो यथेप्सितं देशं हंसो मन इवाशुगः
MBh 8.28.55
उच्छिष्टभोजनात्काको यथा वैश्यकुले तु सः एवं त्वमुच्छिष्टभृतो धार्तराष्ट्रैर्न संशयः सदृशाञ्श्रेयसश्चापि सर्वान्कर्णातिमन्यसे
MBh 8.28.56
द्रोणद्रौणिकृपैर्गुप्तो भीष्मेणान्यैश्च कौरवैः विराटनगरे पार्थमेकं किं नावधीस्तदा
MBh 8.28.57
यत्र व्यस्ताः समस्ताश्च निर्जिताः स्थ किरीटिना सृगाला इव सिंहेन क्व ते वीर्यमभूत्तदा
MBh 8.28.58
भ्रातरं च हतं दृष्ट्वा निर्जितः सव्यसाचिना पश्यतां कुरुवीराणां प्रथमं त्वं पलायथाः
MBh 8.28.59
तथा द्वैतवने कर्ण गन्धर्वैः समभिद्रुतः कुरून्समग्रानुत्सृज्य प्रथमं त्वं पलायथाः
MBh 8.28.60
हत्वा जित्वा च गन्धर्वांश्चित्रसेनमुखान्रणे कर्ण दुर्योधनं पार्थः सभार्यं सममोचयत्
MBh 8.28.61
पुनः प्रभावः पार्थस्य पुराणः केशवस्य च कथितः कर्ण रामेण सभायां राजसंसदि
MBh 8.28.62
सततं च तदश्रौषीर्वचनं द्रोणभीष्मयोः अवध्यौ वदतोः कृष्णौ संनिधौ वै महीक्षिताम्
MBh 8.28.63
कियन्तं तत्र वक्ष्यामि येन येन धनंजयः त्वत्तोऽतिरिक्तः सर्वेभ्यो भूतेभ्यो ब्राह्मणो यथा
MBh 8.28.64
इदानीमेव द्रष्टासि प्रधने स्यन्दने स्थितौ पुत्रं च वसुदेवस्य पाण्डवं च धनंजयम्
MBh 8.28.65
देवासुरमनुष्येषु प्रख्यातौ यौ नरर्षभौ प्रकाशेनाभिविख्यातौ त्वं तु खद्योतवन्नृषु
MBh 8.28.66
एवं विद्वान्मावमंस्थाः सूतपुत्राच्युतार्जुनौ नृसिंहौ तौ नरश्वा त्वं जोषमास्स्व विकत्थन

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 66 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.28local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷