🪷 Mahābhārata · Karṇa-Parva · Chapter 30
The Book of Karṇa · Parva 8 · 88 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 88 Shlokas
MBh 8.30.1
संजय उवाच
ततः पुनर्महाराज मद्रराजमरिंदमम्
अभ्यभाषत राधेयः संनिवार्योत्तरं वचः
MBh 8.30.2
यत्त्वं निदर्शनार्थं मां शल्य जल्पितवानसि
नाहं शक्यस्त्वया वाचा विभीषयितुमाहवे
MBh 8.30.3
यदि मां देवताः सर्वा योधयेयुः सवासवाः
तथापि मे भयं न स्यात्किमु पार्थात्सकेशवात्
MBh 8.30.4
नाहं भीषयितुं शक्यो वाङ्मात्रेण कथंचन
अन्यं जानीहि यः शक्यस्त्वया भीषयितुं रणे
MBh 8.30.5
नीचस्य बलमेतावत्पारुष्यं यत्त्वमात्थ माम्
अशक्तोऽस्मद्गुणान्प्राप्तुं वल्गसे बहु दुर्मते
MBh 8.30.6
न हि कर्णः समुद्भूतो भयार्थमिह मारिष
विक्रमार्थमहं जातो यशोर्थं च तथैव च
MBh 8.30.7
इदं तु मे त्वमेकाग्रः शृणु मद्रजनाधिप
संनिधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम्
MBh 8.30.8
देशांश्च विविधांश्चित्रान्पूर्ववृत्तांश्च पार्थिवान्
ब्राह्मणाः कथयन्तः स्म धृतराष्ट्रमुपासते
MBh 8.30.9
तत्र वृद्धः पुरावृत्ताः कथाः काश्चिद्द्विजोत्तमः
बाह्लीकदेशं मद्रांश्च कुत्सयन्वाक्यमब्रवीत्
MBh 8.30.10
बहिष्कृता हिमवता गङ्गया च तिरस्कृताः
सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये
MBh 8.30.11
पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः
तान्धर्मबाह्यानशुचीन्बाह्लीकान्परिवर्जयेत्
MBh 8.30.12
गोवर्धनो नाम वटः सुभाण्डं नाम चत्वरम्
एतद्राजकुलद्वारमाकुमारः स्मराम्यहम्
MBh 8.30.13
कार्येणात्यर्थगाढेन बाह्लीकेषूषितं मया
तत एषां समाचारः संवासाद्विदितो मम
MBh 8.30.14
शाकलं नाम नगरमापगा नाम निम्नगा
जर्तिका नाम बाह्लीकास्तेषां वृत्तं सुनिन्दितम्
MBh 8.30.15
धानागौडासवे पीत्वा गोमांसं लशुनैः सह
अपूपमांसवाट्यानामाशिनः शीलवर्जिताः
MBh 8.30.16
हसन्ति गान्ति नृत्यन्ति स्त्रीभिर्मत्ता विवाससः
नगरागारवप्रेषु बहिर्माल्यानुलेपनाः
MBh 8.30.17
मत्तावगीतैर्विविधैः खरोष्ट्रनिनदोपमैः
आहुरन्योन्यमुक्तानि प्रब्रुवाणा मदोत्कटाः
MBh 8.30.18
हा हते हा हतेत्येव स्वामिभर्तृहतेति च
आक्रोशन्त्यः प्रनृत्यन्ति मन्दाः पर्वस्वसंयताः
MBh 8.30.19
तेषां किलावलिप्तानां निवसन्कुरुजाङ्गले
कश्चिद्बाह्लीकमुख्यानां नातिहृष्टमना जगौ
MBh 8.30.20
सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी
मामनुस्मरती शेते बाह्लीकं कुरुवासिनम्
MBh 8.30.21
शतद्रुकनदीं तीर्त्वा तां च रम्यामिरावतीम्
गत्वा स्वदेशं द्रक्ष्यामि स्थूलशङ्खाः शुभाः स्त्रियः
MBh 8.30.22
मनःशिलोज्ज्वलापाङ्गा गौर्यस्त्रिककुदाञ्जनाः
केवलाजिनसंवीताः कूर्दन्त्यः प्रियदर्शनाः
MBh 8.30.23
मृदङ्गानकशङ्खानां मर्दलानां च निस्वनैः
खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम्
MBh 8.30.24
शमीपीलुकरीराणां वनेषु सुखवर्त्मसु
अपूपान्सक्तुपिण्डीश्च खादन्तो मथितान्विताः
MBh 8.30.25
पथिषु प्रबला भूत्वा कदासमृदितेऽध्वनि
खलोपहारं कुर्वाणास्ताडयिष्याम भूयसः
MBh 8.30.26
एवं हीनेषु व्रात्येषु बाह्लीकेषु दुरात्मसु
कश्चेतयानो निवसेन्मुहूर्तमपि मानवः
MBh 8.30.27
ईदृशा ब्राह्मणेनोक्ता बाह्लीका मोघचारिणः
येषां षड्भागहर्ता त्वमुभयोः शुभपापयोः
MBh 8.30.28
इत्युक्त्वा ब्राह्मणः साधुरुत्तरं पुनरुक्तवान्
बाह्लीकेष्वविनीतेषु प्रोच्यमानं निबोधत
MBh 8.30.29
तत्र स्म राक्षसी गाति सदा कृष्णचतुर्दशीम्
नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम्
MBh 8.30.30
कदा वा घोषिका गाथाः पुनर्गास्यन्ति शाकले
गव्यस्य तृप्ता मांसस्य पीत्वा गौडं महासवम्
MBh 8.30.31
गौरीभिः सह नारीभिर्बृहतीभिः स्वलंकृताः
पलाण्डुगण्डूषयुतान्खादन्ते चैडकान्बहून्
MBh 8.30.32
वाराहं कौक्कुटं मांसं गव्यं गार्दभमौष्ट्रकम्
ऐडं च ये न खादन्ति तेषां जन्म निरर्थकम्
MBh 8.30.33
इति गायन्ति ये मत्ताः शीधुना शाकलावतः
सबालवृद्धाः कूर्दन्तस्तेषु वृत्तं कथं भवेत्
MBh 8.30.34
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते
यदन्योऽप्युक्तवानस्मान्ब्राह्मणः कुरुसंसदि
MBh 8.30.35
पञ्च नद्यो वहन्त्येता यत्र पीलुवनान्यपि
शतद्रुश्च विपाशा च तृतीयेरावती तथा
चन्द्रभागा वितस्ता च सिन्धुषष्ठा बहिर्गताः
MBh 8.30.36
आरट्टा नाम ते देशा नष्टधर्मान्न तान्व्रजेत्
व्रात्यानां दासमीयानां विदेहानामयज्वनाम्
MBh 8.30.37
न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास्तथा
तेषां प्रनष्टधर्माणां बाह्लीकानामिति श्रुतिः
MBh 8.30.38
ब्राह्मणेन तथा प्रोक्तं विदुषा साधुसंसदि
काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते
सक्तुवाट्यावलिप्तेषु श्वादिलीढेषु निर्घृणाः
MBh 8.30.39
आविकं चौष्ट्रिकं चैव क्षीरं गार्दभमेव च
तद्विकारांश्च बाह्लीकाः खादन्ति च पिबन्ति च
MBh 8.30.40
पुत्रसंकरिणो जाल्माः सर्वान्नक्षीरभोजनाः
आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता
MBh 8.30.41
उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते
यदन्योऽप्युक्तवान्सभ्यो ब्राह्मणः कुरुसंसदि
MBh 8.30.42
युगंधरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले
तद्वद्भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति
MBh 8.30.43
पञ्च नद्यो वहन्त्येता यत्र निःसृत्य पर्वतात्
आरट्टा नाम बाह्लीका न तेष्वार्यो द्व्यहं वसेत्
MBh 8.30.44
बहिश्च नाम ह्लीकश्च विपाशायां पिशाचकौ
तयोरपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः
MBh 8.30.45
कारस्करान्महिषकान्कलिङ्गान्कीकटाटवीन्
कर्कोटकान्वीरकांश्च दुर्धर्मांश्च विवर्जयेत्
MBh 8.30.46
इति तीर्थानुसर्तारं राक्षसी काचिदब्रवीत्
एकरात्रा शमीगेहे महोलूखलमेखला
MBh 8.30.47
आरट्टा नाम ते देशा बाह्लीका नाम ते जनाः
वसातिसिन्धुसौवीरा इति प्रायो विकुत्सिताः
MBh 8.30.48
उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते
उच्यमानं मया सम्यक्तदेकाग्रमनाः शृणु
MBh 8.30.49
ब्राह्मणः शिल्पिनो गेहमभ्यगच्छत्पुरातिथिः
आचारं तत्र संप्रेक्ष्य प्रीतः शिल्पिनमब्रवीत्
MBh 8.30.50
मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम्
दृष्टाश्च बहवो देशा नानाधर्मसमाकुलाः
MBh 8.30.51
न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः
सर्वे हि तेऽब्रुवन्धर्मं यथोक्तं वेदपारगैः
MBh 8.30.52
अटता तु सदा देशान्नानाधर्मसमाकुलान्
आगच्छता महाराज बाह्लीकेषु निशामितम्
MBh 8.30.53
तत्रैव ब्राह्मणो भूत्वा ततो भवति क्षत्रियः
वैश्यः शूद्रश्च बाह्लीकस्ततो भवति नापितः
MBh 8.30.54
नापितश्च ततो भूत्वा पुनर्भवति ब्राह्मणः
द्विजो भूत्वा च तत्रैव पुनर्दासोऽपि जायते
MBh 8.30.55
भवत्येकः कुले विप्रः शिष्टान्ये कामचारिणः
गान्धारा मद्रकाश्चैव बाह्लीकाः केऽप्यचेतसः
MBh 8.30.56
एतन्मया श्रुतं तत्र धर्मसंकरकारकम्
कृत्स्नामटित्वा पृथिवीं बाह्लीकेषु विपर्ययः
MBh 8.30.57
उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते
यदप्यन्योऽब्रवीद्वाक्यं बाह्लीकानां विकुत्सितम्
MBh 8.30.58
सती पुरा हृता काचिदारट्टा किल दस्युभिः
अधर्मतश्चोपयाता सा तानभ्यशपत्ततः
MBh 8.30.59
बालां बन्धुमतीं यन्मामधर्मेणोपगच्छथ
तस्मान्नार्यो भविष्यन्ति बन्धक्यो वै कुलेषु वः
न चैवास्मात्प्रमोक्ष्यध्वं घोरात्पापान्नराधमाः
MBh 8.30.60
कुरवः सहपाञ्चालाः शाल्वा मत्स्याः सनैमिषाः
कोसलाः काशयोऽङ्गाश्च कलिङ्गा मगधास्तथा
MBh 8.30.61
चेदयश्च महाभागा धर्मं जानन्ति शाश्वतम्
नानादेशेषु सन्तश्च प्रायो बाह्या लयादृते
MBh 8.30.62
आ मत्स्येभ्यः कुरुपाञ्चालदेश्या; आ नैमिषाच्चेदयो ये विशिष्टाः
धर्मं पुराणमुपजीवन्ति सन्तो; मद्रानृते पञ्चनदांश्च जिह्मान्
MBh 8.30.63
एवं विद्वन्धर्मकथांश्च राजं;स्तूष्णींभूतो जडवच्छल्य भूयाः
त्वं तस्य गोप्ता च जनस्य राजा; षड्भागहर्ता शुभदुष्कृतस्य
MBh 8.30.64
अथ वा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता
रक्षिता पुण्यभाग्राजा प्रजानां त्वं त्वपुण्यभाक्
MBh 8.30.65
पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते
धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः
MBh 8.30.66
व्रात्यानां दाशमीयानां कृतेऽप्यशुभकर्मणाम्
इति पाञ्चनदं धर्ममवमेने पितामहः
स्वधर्मस्थेषु वर्णेषु सोऽप्येतं नाभिपूजयेत्
MBh 8.30.67
उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते
कल्माषपादः सरसि निमज्जन्राक्षसोऽब्रवीत्
MBh 8.30.68
क्षत्रियस्य मलं भैक्षं ब्राह्मणस्यानृतं मलम्
मलं पृथिव्या बाह्लीकाः स्त्रीणां मद्रस्त्रियो मलम्
MBh 8.30.69
निमज्जमानमुद्धृत्य कश्चिद्राजा निशाचरम्
अपृच्छत्तेन चाख्यातं प्रोक्तवान्यन्निबोध तत्
MBh 8.30.70
मानुषाणां मलं म्लेच्छा म्लेच्छानां मौष्टिका मलम्
मौष्टिकानां मलं शण्डाः शण्डानां राजयाजकाः
MBh 8.30.71
राजयाजकयाज्यानां मद्रकाणां च यन्मलम्
तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि
MBh 8.30.72
इति रक्षोपसृष्टेषु विषवीर्यहतेषु च
राक्षसं भेषजं प्रोक्तं संसिद्धं वचनोत्तरम्
MBh 8.30.73
ब्राह्मं पाञ्चालाः कौरवेयाः स्वधर्मः; सत्यं मत्स्याः शूरसेनाश्च यज्ञः
प्राच्या दासा वृषला दाक्षिणात्याः; स्तेना बाह्लीकाः संकरा वै सुराष्ट्राः
MBh 8.30.74
कृतघ्नता परवित्तापहारः; सुरापानं गुरुदारावमर्शः
येषां धर्मस्तान्प्रति नास्त्यधर्म; आरट्टकान्पाञ्चनदान्धिगस्तु
MBh 8.30.75
आ पाञ्चालेभ्यः कुरवो नैमिषाश्च; मत्स्याश्चैवाप्यथ जानन्ति धर्मम्
कलिङ्गकाश्चाङ्गका मागधाश्च; शिष्टान्धर्मानुपजीवन्ति वृद्धाः
MBh 8.30.76
प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः
दक्षिणां पितरो गुप्तां यमेन शुभकर्मणा
MBh 8.30.77
प्रतीचीं वरुणः पाति पालयन्नसुरान्बली
उदीचीं भगवान्सोमो ब्रह्मण्यो ब्राह्मणैः सह
MBh 8.30.78
रक्षःपिशाचान्हिमवान्गुह्यकान्गन्धमादनः
ध्रुवः सर्वाणि भूतानि विष्णुर्लोकाञ्जनार्दनः
MBh 8.30.79
इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः
अर्धोक्ताः कुरुपाञ्चालाः शाल्वाः कृत्स्नानुशासनाः
पार्वतीयाश्च विषमा यथैव गिरयस्तथा
MBh 8.30.80
सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः
म्लेच्छाः स्वसंज्ञानियता नानुक्त इतरो जनः
MBh 8.30.81
प्रतिरब्धास्तु बाह्लीका न च केचन मद्रकाः
स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि
MBh 8.30.82
एतज्ज्ञात्वा जोषमास्स्व प्रतीपं मा स्म वै कृथाः
स त्वां पूर्वमहं हत्वा हनिष्ये केशवार्जुनौ
MBh 8.30.83
शल्य उवाच
आतुराणां परित्यागः स्वदारसुतविक्रयः
अङ्गेषु वर्तते कर्ण येषामधिपतिर्भवान्
MBh 8.30.84
रथातिरथसंख्यायां यत्त्वा भीष्मस्तदाब्रवीत्
तान्विदित्वात्मनो दोषान्निर्मन्युर्भव मा क्रुधः
MBh 8.30.85
सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः
वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः
MBh 8.30.86
रमन्ते चोपहासेन पुरुषाः पुरुषैः सह
अन्योन्यमवतक्षन्तो देशे देशे समैथुनाः
MBh 8.30.87
परवाच्येषु निपुणः सर्वो भवति सर्वदा
आत्मवाच्यं न जानीते जानन्नपि विमुह्यति
MBh 8.30.88
संजय उवाच
कर्णोऽपि नोत्तरं प्राह शल्योऽप्यभिमुखः परान्
पुनः प्रहस्य राधेयः पुनर्याहीत्यचोदयत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 29
- Next chapter · Karṇa-Parva Ch 31 →
Sources and Connected Readings
Continue from these 88 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.30local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷