🪷 Mahābhārata · Karṇa-Parva · Chapter 18

The Book of Karṇa · Parva 8 · 76 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 76 Shlokas

MBh 8.18.1
संजय उवाच युयुत्सुं तव पुत्रं तु प्राद्रवन्तं महद्बलम् उलूकोऽभ्यपतत्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्
MBh 8.18.2
युयुत्सुस्तु ततो राजञ्शितधारेण पत्रिणा उलूकं ताडयामास वज्रेणेन्द्र इवाचलम्
MBh 8.18.3
उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगे क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना
MBh 8.18.4
तदपास्य धनुश्छिन्नं युयुत्सुर्वेगवत्तरम् अन्यदादत्त सुमहच्चापं संरक्तलोचनः
MBh 8.18.5
शाकुनिं च ततः षष्ट्या विव्याध भरतर्षभ सारथिं त्रिभिरानर्छत्तं च भूयो व्यविध्यत
MBh 8.18.6
उलूकस्तं तु विंशत्या विद्ध्वा हेमविभूषितैः अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम्
MBh 8.18.7
स च्छिन्नयष्टिः सुमहाञ्शीर्यमाणो महाध्वजः पपात प्रमुखे राजन्युयुत्सोः काञ्चनोज्ज्वलः
MBh 8.18.8
ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्छितः उलूकं पञ्चभिर्बाणैराजघान स्तनान्तरे
MBh 8.18.9
उलूकस्तस्य भल्लेन तैलधौतेन मारिष शिरश्चिच्छेद सहसा यन्तुर्भरतसत्तम
MBh 8.18.10
जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः सोऽतिविद्धो बलवता प्रत्यपायाद्रथान्तरम्
MBh 8.18.11
तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौ पाञ्चालान्सृञ्जयांश्चैव विनिघ्नन्निशितैः शरैः
MBh 8.18.12
शतानीकं महाराज श्रुतकर्मा सुतस्तव व्यश्वसूतरथं चक्रे निमेषार्धादसंभ्रमम्
MBh 8.18.13
हताश्वे तु रथे तिष्ठञ्शतानीको महाबलः गदां चिक्षेप संक्रुद्धस्तव पुत्रस्य मारिष
MBh 8.18.14
सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन् पपात धरणीं तूर्णं दारयन्तीव भारत
MBh 8.18.15
तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ अपाक्रमेतां युद्धार्तौ प्रेक्षमाणौ परस्परम्
MBh 8.18.16
पुत्रस्तु तव संभ्रान्तो विवित्सो रथमाविशत् शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः
MBh 8.18.17
सुतसोमस्तु शकुनिं विव्याध निशितैः शरैः नाकम्पयत संरब्धो वार्योघ इव पर्वतम्
MBh 8.18.18
सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम् शरैरनेकसाहस्रैश्छादयामास भारत
MBh 8.18.19
ताञ्शराञ्शकुनिस्तूर्णं चिच्छेदान्यैः पतत्रिभिः लघ्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे
MBh 8.18.20
निवार्य समरे चापि शरांस्तान्निशितैः शरैः आजघान सुसंक्रुद्धः सुतसोमं त्रिभिः शरैः
MBh 8.18.21
तस्याश्वान्केतनं सूतं तिलशो व्यधमच्छरैः स्यालस्तव महावीर्यस्ततस्ते चुक्रुशुर्जनाः
MBh 8.18.22
हताश्वो विरथश्चैव छिन्नधन्वा च मारिष धन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठत व्यसृजत्सायकांश्चैव स्वर्णपुङ्खाञ्शिलाशितान्
MBh 8.18.23
छादयामासुरथ ते तव स्यालस्य तं रथम् पतंगानामिव व्राताः शरव्राता महारथम्
MBh 8.18.24
रथोपस्थान्समीक्ष्यापि विव्यथे नैव सौबलः प्रमृद्नंश्च शरांस्तांस्ताञ्शरव्रातैर्महायशाः
MBh 8.18.25
तत्रातुष्यन्त योधाश्च सिद्धाश्चापि दिवि स्थिताः सुतसोमस्य तत्कर्म दृष्ट्वाश्रद्धेयमद्भुतम् रथस्थं नृपतिं तं तु पदातिः सन्नयोधयत्
MBh 8.18.26
तस्य तीक्ष्णैर्महावेगैर्भल्लैः संनतपर्वभिः व्यहनत्कार्मुकं राजा तूणीरं चैव सर्वशः
MBh 8.18.27
स च्छिन्नधन्वा समरे खड्गमुद्यम्य नानदन् वैडूर्योत्पलवर्णाभं हस्तिदन्तमयत्सरुम्
MBh 8.18.28
भ्राम्यमाणं ततस्तं तु विमलाम्बरवर्चसम् कालोपमं ततो मेने सुतसोमस्य धीमतः
MBh 8.18.29
सोऽचरत्सहसा खड्गी मण्डलानि सहस्रशः चतुर्विंशन्महाराज शिक्षाबलसमन्वितः
MBh 8.18.30
सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान् तानापतत एवाशु चिच्छेद परमासिना
MBh 8.18.31
ततः क्रुद्धो महाराज सौबलः परवीरहा प्राहिणोत्सुतसोमस्य शरानाशीविषोपमान्
MBh 8.18.32
चिच्छेद तांश्च खड्गेन शिक्षया च बलेन च दर्शयँल्लाघवं युद्धे तार्क्ष्यवीर्यसमद्युतिः
MBh 8.18.33
तस्य संचरतो राजन्मण्डलावर्तने तदा क्षुरप्रेण सुतीक्ष्णेन खड्गं चिच्छेद सुप्रभम्
MBh 8.18.34
स च्छिन्नः सहसा भूमौ निपपात महानसिः अवशस्य स्थितं हस्ते तं खड्गं सत्सरुं तदा
MBh 8.18.35
छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् प्राविध्यत ततः शेषं सुतसोमो महारथः
MBh 8.18.36
स च्छित्त्वा सगुणं चापं रणे तस्य महात्मनः पपात धरणीं तूर्णं स्वर्णवज्रविभूषितः सुतसोमस्ततोऽगच्छच्छ्रुतकीर्तेर्महारथम्
MBh 8.18.37
सौबलोऽपि धनुर्गृह्य घोरमन्यत्सुदुःसहम् अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान्बहून्
MBh 8.18.38
तत्र नादो महानासीत्पाण्डवानां विशां पते सौबलं समरे दृष्ट्वा विचरन्तमभीतवत्
MBh 8.18.39
तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना
MBh 8.18.40
यथा दैत्यचमूं राजन्देवराजो ममर्द ह तथैव पाण्डवीं सेनां सौबलेयो व्यनाशयत्
MBh 8.18.41
धृष्टद्युम्नं कृपो राजन्वारयामास संयुगे यथा दृप्तं वने नागं शरभो वारयेद्युधि
MBh 8.18.42
निरुद्धः पार्षतस्तेन गौतमेन बलीयसा पदात्पदं विचलितुं नाशक्नोत्तत्र भारत
MBh 8.18.43
गौतमस्य वपुर्दृष्ट्वा धृष्टद्युम्नरथं प्रति वित्रेसुः सर्वभूतानि क्षयं प्राप्तं च मेनिरे
MBh 8.18.44
तत्रावोचन्विमनसो रथिनः सादिनस्तथा द्रोणस्य निधने नूनं संक्रुद्धो द्विपदां वरः
MBh 8.18.45
शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः अपि स्वस्ति भवेदद्य धृष्टद्युम्नस्य गौतमात्
MBh 8.18.46
अपीयं वाहिनी कृत्स्ना मुच्येत महतो भयात् अप्ययं ब्राह्मणः सर्वान्न नो हन्यात्समागतान्
MBh 8.18.47
यादृशं दृश्यते रूपमन्तकप्रतिमं भृशम् गमिष्यत्यद्य पदवीं भारद्वाजस्य संयुगे
MBh 8.18.48
आचार्यः क्षिप्रहस्तश्च विजयी च सदा युधि अस्त्रवान्वीर्यसंपन्नः क्रोधेन च समन्वितः
MBh 8.18.49
पार्षतश्च भृशं युद्धे विमुखोऽद्यापि लक्ष्यते इत्येवं विविधा वाचस्तावकानां परैः सह
MBh 8.18.50
विनिःश्वस्य ततः क्रुद्धः कृपः शारद्वतो नृप पार्षतं छादयामास निश्चेष्टं सर्वमर्मसु
MBh 8.18.51
स वध्यमानः समरे गौतमेन महात्मना कर्तव्यं न प्रजानाति मोहितः परमाहवे
MBh 8.18.52
तमब्रवीत्ततो यन्ता कच्चित्क्षेमं नु पार्षत ईदृशं व्यसनं युद्धे न ते दृष्टं कदाचन
MBh 8.18.53
दैवयोगात्तु ते बाणा नातरन्मर्मभेदिनः प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वशः
MBh 8.18.54
व्यावर्तये तत्र रथं नदीवेगमिवार्णवात् अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः
MBh 8.18.55
धृष्टद्युम्नस्ततो राजञ्शनकैरब्रवीद्वचः मुह्यते मे मनस्तात गात्रे स्वेदश्च जायते
MBh 8.18.56
वेपथुं च शरीरे मे रोमहर्षं च पश्य वै वर्जयन्ब्राह्मणं युद्धे शनैर्याहि यतोऽच्युतः
MBh 8.18.57
अर्जुनं भीमसेनं वा समरे प्राप्य सारथे क्षेममद्य भवेद्यन्तरिति मे नैष्ठिकी मतिः
MBh 8.18.58
ततः प्रायान्महाराज सारथिस्त्वरयन्हयान् यतो भीमो महेष्वासो युयुधे तव सैनिकैः
MBh 8.18.59
प्रद्रुतं तु रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष किरञ्शरशतान्येव गौतमोऽनुययौ तदा
MBh 8.18.60
शङ्खं च पूरयामास मुहुर्मुहुररिंदमः पार्षतं प्राद्रवद्यन्तं महेन्द्र इव शम्बरम्
MBh 8.18.61
शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम् हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः
MBh 8.18.62
शिखण्डी च समासाद्य हृदिकानां महारथम् पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समार्दयत्
MBh 8.18.63
कृतवर्मा तु संक्रुद्धो भित्त्वा षष्टिभिराशुगैः धनुरेकेन चिच्छेद हसन्राजन्महारथः
MBh 8.18.64
अथान्यद्धनुरादाय द्रुपदस्यात्मजो बली तिष्ठ तिष्ठेति संक्रुद्धो हार्दिक्यं प्रत्यभाषत
MBh 8.18.65
ततोऽस्य नवतिं बाणान्रुक्मपुङ्खान्सुतेजनान् प्रेषयामास राजेन्द्र तेऽस्याभ्रश्यन्त वर्मणः
MBh 8.18.66
वितथांस्तान्समालक्ष्य पतितांश्च महीतले क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे बली
MBh 8.18.67
अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम् अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्दयत्
MBh 8.18.68
कृतवर्मा तु संक्रुद्धो मार्गणैः कृतविक्षतः धनुरन्यत्समादाय समार्गणगणं प्रभो शिखण्डिनं बाणवरैः स्कन्धदेशेऽभ्यताडयत्
MBh 8.18.69
स्कन्धदेशे स्थितैर्बाणैः शिखण्डी च रराज ह शाखाप्रतानैर्विमलैः सुमहान्स यथा द्रुमः
MBh 8.18.70
तावन्योन्यं भृशं विद्ध्वा रुधिरेण समुक्षितौ अन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव
MBh 8.18.71
अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः
MBh 8.18.72
कृतवर्मा महाराज पार्षतं निशितैः शरैः रणे विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः
MBh 8.18.73
ततोऽस्य समरे बाणं भोजः प्रहरतां वरः जीवितान्तकरं घोरं व्यसृजत्त्वरयान्वितः
MBh 8.18.74
स तेनाभिहतो राजन्मूर्छामाशु समाविशत् ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः
MBh 8.18.75
अपोवाह रणात्तं तु सारथी रथिनां वरम् हार्दिक्यशरसंतप्तं निःश्वसन्तं पुनः पुनः
MBh 8.18.76
पराजिते ततः शूरे द्रुपदस्य सुते प्रभो प्राद्रवत्पाण्डवी सेना वध्यमाना समन्ततः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 76 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.18local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷