🪷 Mahābhārata · Karṇa-Parva · Chapter 19

The Book of Karṇa · Parva 8 · 75 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 75 Shlokas

MBh 8.19.1
संजय उवाच श्वेताश्वोऽपि महाराज व्यधमत्तावकं बलम् यथा वायुः समासाद्य तूलराशिं समन्ततः
MBh 8.19.2
प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह शाल्वाः संशप्तकाश्चैव नारायणबलं च यत्
MBh 8.19.3
सत्यसेनः सत्यकीर्तिर्मित्रदेवः श्रुतंजयः सौश्रुतिश्चित्रसेनश्च मित्रवर्मा च भारत
MBh 8.19.4
त्रिगर्तराजः समरे भ्रातृभिः परिवारितः पुत्रैश्चैव महेष्वासैर्नानाशस्त्रधरैर्युधि
MBh 8.19.5
ते सृजन्तः शरव्रातान्किरन्तोऽर्जुनमाहवे अभ्यद्रवन्त समरे वार्योघा इव सागरम्
MBh 8.19.6
ते त्वर्जुनं समासाद्य योधाः शतसहस्रशः अगच्छन्विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः
MBh 8.19.7
ते वध्यमानाः समरे नाजहुः पाण्डवं तदा दह्यमाना यथा राजञ्शलभा इव पावकम्
MBh 8.19.8
सत्यसेनस्त्रिभिर्बाणैर्विव्याध युधि पाण्डवम् मित्रदेवस्त्रिषष्ट्या च चन्द्रदेवश्च सप्तभिः
MBh 8.19.9
मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि पञ्चभिः शत्रुंजयश्च विंशत्या सुशर्मा नवभिः शरैः
MBh 8.19.10
शत्रुंजयं च राजानं हत्वा तत्र शिलाशितैः सौश्रुतेः सशिरस्त्राणं शिरः कायादपाहरत् त्वरितश्चन्द्रदेवं च शरैर्निन्ये यमक्षयम्
MBh 8.19.11
अथेतरान्महाराज यतमानान्महारथान् पञ्चभिः पञ्चभिर्बाणैरेकैकं प्रत्यवारयत्
MBh 8.19.12
सत्यसेनस्तु संक्रुद्धस्तोमरं व्यसृजन्महत् समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च
MBh 8.19.13
स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः अयस्मयो महाचण्डो जगाम धरणीं तदा
MBh 8.19.14
माधवस्य तु विद्धस्य तोमरेण महारणे प्रतोदः प्रापतद्धस्ताद्रश्मयश्च विशां पते
MBh 8.19.15
स प्रतोदं पुनर्गृह्य रश्मींश्चैव महायशाः वाहयामास तानश्वान्सत्यसेनरथं प्रति
MBh 8.19.16
विष्वक्सेनं तु निर्भिन्नं प्रेक्ष्य पार्थो धनंजयः सत्यसेनं शरैस्तीक्ष्णैर्दारयित्वा महाबलः
MBh 8.19.17
ततः सुनिशितैर्बाणै राज्ञस्तस्य महच्छिरः कुण्डलोपचितं कायाच्चकर्त पृतनान्तरे
MBh 8.19.18
तं निहत्य शितैर्बाणैर्मित्रवर्माणमाक्षिपत् वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष
MBh 8.19.19
ततः शरशतैर्भूयः संशप्तकगणान्वशी पातयामास संक्रुद्धः शतशोऽथ सहस्रशः
MBh 8.19.20
ततो रजतपुङ्खेन राज्ञः शीर्षं महात्मनः मित्रदेवस्य चिच्छेद क्षुरप्रेण महायशाः सुशर्माणं च संक्रुद्धो जत्रुदेशे समार्दयत्
MBh 8.19.21
ततः संशप्तकाः सर्वे परिवार्य धनंजयम् शस्त्रौघैर्ममृदुः क्रुद्धा नादयन्तो दिशो दश
MBh 8.19.22
अभ्यर्दितस्तु तैर्जिष्णुः शक्रतुल्यपराक्रमः ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे महारथः ततः शरसहस्राणि प्रादुरासन्विशां पते
MBh 8.19.23
ध्वजानां छिद्यमानानां कार्मुकाणां च संयुगे रथानां सपताकानां तूणीराणां शरैः सह
MBh 8.19.24
अक्षाणामथ योक्त्राणां चक्राणां रश्मिभिः सह कूबराणां वरूथानां पृषत्कानां च संयुगे
MBh 8.19.25
अश्मनां पततां चैव प्रासानामृष्टिभिः सह गदानां परिघाणां च शक्तीनां तोमरैः सह
MBh 8.19.26
शतघ्नीनां सचक्राणां भुजानामूरुभिः सह कण्ठसूत्राङ्गदानां च केयूराणां च मारिष
MBh 8.19.27
हाराणामथ निष्काणां तनुत्राणां च भारत छत्राणां व्यजनानां च शिरसां मुकुटैः सह अश्रूयत महाञ्शब्दस्तत्र तत्र विशां पते
MBh 8.19.28
सकुण्डलानि स्वक्षीणि पूर्णचन्द्रनिभानि च शिरांस्युर्व्यामदृश्यन्त तारागण इवाम्बरे
MBh 8.19.29
सुस्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च शरीराणि व्यदृश्यन्त हतानां च महीतले गन्धर्वनगराकारं घोरमायोधनं तदा
MBh 8.19.30
निहतै राजपुत्रैश्च क्षत्रियैश्च महाबलैः हस्तिभिः पतितैश्चैव तुरगैश्चाभवन्मही अगम्यमार्गा समरे विशीर्णैरिव पर्वतैः
MBh 8.19.31
नासीच्चक्रपथश्चैव पाण्डवस्य महात्मनः निघ्नतः शात्रवान्भल्लैर्हस्त्यश्वं चामितं महत्
MBh 8.19.32
आ तुम्बादवसीदन्ति रथचक्राणि मारिष रणे विचरतस्तस्य तस्मिँल्लोहितकर्दमे
MBh 8.19.33
सीदमानानि चक्राणि समूहुस्तुरगा भृशम् श्रमेण महता युक्ता मनोमारुतरंहसः
MBh 8.19.34
वध्यमानं तु तत्सैन्यं पाण्डुपुत्रेण धन्विना प्रायशो विमुखं सर्वं नावतिष्ठत संयुगे
MBh 8.19.35
ताञ्जित्वा समरे जिष्णुः संशप्तकगणान्बहून् रराज स महाराज विधूमोऽग्निरिव ज्वलन्
MBh 8.19.36
युधिष्ठिरं महाराज विसृजन्तं शरान्बहून् स्वयं दुर्योधनो राजा प्रत्यगृह्णादभीतवत्
MBh 8.19.37
तमापतन्तं सहसा तव पुत्रं महाबलम् धर्मराजो द्रुतं विद्ध्वा तिष्ठ तिष्ठेति चाब्रवीत्
MBh 8.19.38
स च तं प्रतिविव्याध नवभिर्निशितैः शरैः सारथिं चास्य भल्लेन भृशं क्रुद्धोऽभ्यताडयत्
MBh 8.19.39
ततो युधिष्ठिरो राजा हेमपुङ्खाञ्शिलीमुखान् दुर्योधनाय चिक्षेप त्रयोदश शिलाशितान्
MBh 8.19.40
चतुर्भिश्चतुरो वाहांस्तस्य हत्वा महारथः पञ्चमेन शिरः कायात्सारथेस्तु समाक्षिपत्
MBh 8.19.41
षष्ठेन च ध्वजं राज्ञः सप्तमेन च कार्मुकम् अष्टमेन तथा खड्गं पातयामास भूतले पञ्चभिर्नृपतिं चापि धर्मराजोऽर्दयद्भृशम्
MBh 8.19.42
हताश्वात्तु रथात्तस्मादवप्लुत्य सुतस्तव उत्तमं व्यसनं प्राप्तो भूमावेव व्यतिष्ठत
MBh 8.19.43
तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः अभ्यवर्तन्त सहिताः परीप्सन्तो नराधिपम्
MBh 8.19.44
अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम् अभ्ययुः समरे राजंस्ततो युद्धमवर्तत
MBh 8.19.45
अथ तूर्यसहस्राणि प्रावाद्यन्त महामृधे क्ष्वेडाः किलकिलाशब्दाः प्रादुरासन्महीपते यदभ्यगच्छन्समरे पाञ्चालाः कौरवैः सह
MBh 8.19.46
नरा नरैः समाजग्मुर्वारणा वरवारणैः रथाश्च रथिभिः सार्धं हयाश्च हयसादिभिः
MBh 8.19.47
द्वंद्वान्यासन्महाराज प्रेक्षणीयानि संयुगे विस्मापनान्यचिन्त्यानि शस्त्रवन्त्युत्तमानि च
MBh 8.19.48
अयुध्यन्त महावेगाः परस्परवधैषिणः अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः न हि ते समरं चक्रुः पृष्ठतो वै कथंचन
MBh 8.19.49
मुहूर्तमेव तद्युद्धमासीन्मधुरदर्शनम् तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत
MBh 8.19.50
रथी नागं समासाद्य विचरन्रणमूर्धनि प्रेषयामास कालाय शरैः संनतपर्वभिः
MBh 8.19.51
नागा हयान्समासाद्य विक्षिपन्तो बहूनथ द्रावयामासुरत्युग्रास्तत्र तत्र तदा तदा
MBh 8.19.52
विद्राव्य च बहूनश्वान्नागा राजन्बलोत्कटाः विषाणैश्चापरे जघ्नुर्ममृदुश्चापरे भृशम्
MBh 8.19.53
साश्वारोहांश्च तुरगान्विषाणैर्बिभिदू रणे अपरांश्चिक्षिपुर्वेगात्प्रगृह्यातिबलास्तथा
MBh 8.19.54
पादातैराहता नागा विवरेषु समन्ततः चक्रुरार्तस्वरं घोरं व्यद्रवन्त दिशो दश
MBh 8.19.55
पदातीनां तु सहसा प्रद्रुतानां महामृधे उत्सृज्याभरणं तूर्णमवप्लुत्य रणाजिरे
MBh 8.19.56
निमित्तं मन्यमानास्तु परिणम्य महागजाः जगृहुर्बिभिदुश्चैव चित्राण्याभरणानि च
MBh 8.19.57
प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः
MBh 8.19.58
निगृह्य च गदाः केचित्पार्श्वस्थैर्भृशदारुणैः रथाश्वसादिभिस्तत्र संभिन्ना न्यपतन्भुवि
MBh 8.19.59
सरथं सादिनं तत्र अपरे तु महागजाः भूमावमृद्नन्वेगेन सवर्माणं पताकिनम्
MBh 8.19.60
रथं नागाः समासाद्य धुरि गृह्य च मारिष व्याक्षिपन्सहसा तत्र घोररूपे महामृधे
MBh 8.19.61
नाराचैर्निहतश्चापि निपपात महागजः पर्वतस्येव शिखरं वज्रभग्नं महीतले
MBh 8.19.62
योधा योधान्समासाद्य मुष्टिभिर्व्यहनन्युधि केशेष्वन्योन्यमाक्षिप्य चिच्छिदुर्बिभिदुः सह
MBh 8.19.63
उद्यम्य च भुजावन्यो निक्षिप्य च महीतले पदा चोरः समाक्रम्य स्फुरतो व्यहनच्छिरः
MBh 8.19.64
मृतमन्यो महाराज पद्भ्यां ताडितवांस्तदा जीवतश्च तथैवान्यः शस्त्रं काये न्यमज्जयत्
MBh 8.19.65
मुष्टियुद्धं महच्चासीद्योधानां तत्र भारत तथा केशग्रहश्चोग्रो बाहुयुद्धं च केवलम्
MBh 8.19.66
समासक्तस्य चान्येन अविज्ञातस्तथापरः जहार समरे प्राणान्नानाशस्त्रैरनेकधा
MBh 8.19.67
संसक्तेषु च योधेषु वर्तमाने च संकुले कबन्धान्युत्थितानि स्म शतशोऽथ सहस्रशः
MBh 8.19.68
लोहितैः सिच्यमानानि शस्त्राणि कवचानि च महारङ्गानुरक्तानि वस्त्राणीव चकाशिरे
MBh 8.19.69
एवमेतन्महायुद्धं दारुणं भृशसंकुलम् उन्मत्तरङ्गप्रतिमं शब्देनापूरयज्जगत्
MBh 8.19.70
नैव स्वे न परे राजन्विज्ञायन्ते शरातुराः योद्धव्यमिति युध्यन्ते राजानो जयगृद्धिनः
MBh 8.19.71
स्वान्स्वे जघ्नुर्महाराज परांश्चैव समागतान् उभयोः सेनयोर्वीरैर्व्याकुलं समपद्यत
MBh 8.19.72
रथैर्भग्नैर्महाराज वारणैश्च निपातितैः हयैश्च पतितैस्तत्र नरैश्च विनिपातितैः
MBh 8.19.73
अगम्यरूपा पृथिवी मांसशोणितकर्दमा क्षणेनासीन्महाराज क्षतजौघप्रवर्तिनी
MBh 8.19.74
पाञ्चालानवधीत्कर्णस्त्रिगर्तांश्च धनंजयः भीमसेनः कुरून्राजन्हस्त्यनीकं च सर्वशः
MBh 8.19.75
एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः अपराह्णे महाराज काङ्क्षन्त्योर्विपुलं जयम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 75 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.19local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷