🪷 Mahābhārata · Karṇa-Parva · Chapter 17

The Book of Karṇa · Parva 8 · 120 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 120 Shlokas

MBh 8.17.1
संजय उवाच हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः धृष्टद्युम्नं जिघांसन्तः क्रुद्धाः पार्षतमभ्ययुः
MBh 8.17.2
प्राच्याश्च दाक्षिणात्याश्च प्रवीरा गजयोधिनः अङ्गा वङ्गाश्च पुण्ड्राश्च मागधास्ताम्रलिप्तकाः
MBh 8.17.3
मेकलाः कोशला मद्रा दशार्णा निषधास्तथा गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत
MBh 8.17.4
शरतोमरनाराचैर्वृष्टिमन्त इवाम्बुदाः सिषिचुस्ते ततः सर्वे पाञ्चालाचलमाहवे
MBh 8.17.5
तान्संमिमर्दिषुर्नागान्पार्ष्ण्यङ्गुष्ठाङ्कुशैर्भृशम् पोथितान्पार्षतो बाणैर्नाराचैश्चाभ्यवीवृषत्
MBh 8.17.6
एकैकं दशभिः षड्भिरष्टाभिरपि भारत द्विरदानभिविव्याध क्षिप्तैर्गिरिनिभाञ्शरैः प्रच्छाद्यमानो द्विरदैर्मेघैरिव दिवाकरः
MBh 8.17.7
पर्यासुः पाण्डुपाञ्चाला नदन्तो निशितायुधाः तान्नागानभिवर्षन्तो ज्यातन्त्रीशरनादितैः
MBh 8.17.8
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान्
MBh 8.17.9
ते म्लेच्छैः प्रेषिता नागा नरानश्वान्रथानपि हस्तैराक्षिप्य ममृदुः पद्भिश्चाप्यतिमन्यवः
MBh 8.17.10
बिभिदुश्च विषाणाग्रैः समाक्षिप्य च चिक्षिपुः विषाणलग्नैश्चाप्यन्ये परिपेतुर्विभीषणाः
MBh 8.17.11
प्रमुखे वर्तमानं तु द्विपं वङ्गस्य सात्यकिः नाराचेनोग्रवेगेन भित्त्वा मर्मण्यपातयत्
MBh 8.17.12
तस्यावर्जितनागस्य द्विरदादुत्पतिष्यतः नाराचेनाभिनद्वक्षः सोऽपतद्भुवि सात्यकेः
MBh 8.17.13
पुण्ड्रस्यापततो नागं चलन्तमिव पर्वतम् सहदेवः प्रयत्नात्तैर्नाराचैर्व्यहनत्त्रिभिः
MBh 8.17.14
विपताकं वियन्तारं विवर्मध्वजजीवितम् तं कृत्वा द्विरदं भूयः सहदेवोऽङ्गमभ्यगात्
MBh 8.17.15
सहदेवं तु नकुलो वारयित्वाङ्गमार्दयत् नाराचैर्यमदण्डाभैस्त्रिभिर्नागं शतेन च
MBh 8.17.16
दिवाकरकरप्रख्यानङ्गश्चिक्षेप तोमरान् नकुलाय शतान्यष्टौ त्रिधैकैकं तु सोऽच्छिनत्
MBh 8.17.17
तथार्धचन्द्रेण शिरस्तस्य चिच्छेद पाण्डवः स पपात हतो म्लेच्छस्तेनैव सह दन्तिना
MBh 8.17.18
आचार्यपुत्रे निहते हस्तिशिक्षाविशारदे अङ्गाः क्रुद्धा महामात्रा नागैर्नकुलमभ्ययुः
MBh 8.17.19
चलत्पताकैः प्रमुखैर्हेमकक्ष्यातनुच्छदैः मिमर्दिषन्तस्त्वरिताः प्रदीप्तैरिव पर्वतैः
MBh 8.17.20
मेकलोत्कलकालिङ्गा निषादास्ताम्रलिप्तकाः शरतोमरवर्षाणि विमुञ्चन्तो जिघांसवः
MBh 8.17.21
तैश्छाद्यमानं नकुलं दिवाकरमिवाम्बुदैः परि पेतुः सुसंरब्धाः पाण्डुपाञ्चालसोमकाः
MBh 8.17.22
ततस्तदभवद्युद्धं रथिनां हस्तिभिः सह सृजतां शरवर्षाणि तोमरांश्च सहस्रशः
MBh 8.17.23
नागानां प्रस्फुटुः कुम्भा मर्माणि विविधानि च दन्ताश्चैवातिविद्धानां नाराचैर्भूषणानि च
MBh 8.17.24
तेषामष्टौ महानागांश्चतुःषष्ट्या सुतेजनैः सहदेवो जघानाशु ते पेतुः सह सादिभिः
MBh 8.17.25
अञ्जोगतिभिरायम्य प्रयत्नाद्धनुरुत्तमम् नाराचैरहनन्नागान्नकुलः कुरुनन्दन
MBh 8.17.26
ततः शैनेयपाञ्चाल्यौ द्रौपदेयाः प्रभद्रकाः शिखण्डी च महानागान्सिषिचुः शरवृष्टिभिः
MBh 8.17.27
ते पाण्डुयोधाम्बुधरैः शत्रुद्विरदपर्वताः बाणवर्षैर्हताः पेतुर्वज्रवर्षैरिवाचलाः
MBh 8.17.28
एवं हत्वा तव गजांस्ते पाण्डुनरकुञ्जराः द्रुतं सेनामवैक्षन्त भिन्नकूलामिवापगाम्
MBh 8.17.29
ते तां सेनामवालोक्य पाण्डुपुत्रस्य सैनिकाः विक्षोभयित्वा च पुनः कर्णमेवाभिदुद्रुवुः
MBh 8.17.30
सहदेवं ततः क्रुद्धं दहन्तं तव वाहिनीम् दुःशासनो महाराज भ्राता भ्रातरमभ्ययात्
MBh 8.17.31
तौ समेतौ महायुद्धे दृष्ट्वा तत्र नराधिपाः सिंहनादरवांश्चक्रुर्वासांस्यादुधुवुश्च ह
MBh 8.17.32
ततो भारत क्रुद्धेन तव पुत्रेण धन्विना पाण्डुपुत्रस्त्रिभिर्बाणैर्वक्षस्यभिहतो बली
MBh 8.17.33
सहदेवस्ततो राजन्नाराचेन तवात्मजम् विद्ध्वा विव्याध सप्तत्या सारथिं च त्रिभिस्त्रिभिः
MBh 8.17.34
दुःशासनस्तदा राजंश्छित्त्वा चापं महाहवे सहदेवं त्रिसप्तत्या बाह्वोरुरसि चार्दयत्
MBh 8.17.35
सहदेवस्ततः क्रुद्धः खड्गं गृह्य महाहवे व्याविध्यत युधां श्रेष्ठः श्रीमांस्तव सुतं प्रति
MBh 8.17.36
समार्गणगणं चापं छित्त्वा तस्य महानसिः निपपात ततो भूमौ च्युतः सर्प इवाम्बरात्
MBh 8.17.37
अथान्यद्धनुरादाय सहदेवः प्रतापवान् दुःशासनाय चिक्षेप बाणमन्तकरं ततः
MBh 8.17.38
तमापतन्तं विशिखं यमदण्डोपमत्विषम् खड्गेन शितधारेण द्विधा चिच्छेद कौरवः
MBh 8.17.39
तमापतन्तं सहसा निस्त्रिंशं निशितैः शरैः पातयामास समरे सहदेवो हसन्निव
MBh 8.17.40
ततो बाणांश्चतुःषष्टिं तव पुत्रो महारणे सहदेवरथे तूर्णं पातयामास भारत
MBh 8.17.41
ताञ्शरान्समरे राजन्वेगेनापततो बहून् एकैकं पञ्चभिर्बाणैः सहदेवो न्यकृन्तत
MBh 8.17.42
स निवार्य महाबाणांस्तव पुत्रेण प्रेषितान् अथास्मै सुबहून्बाणान्माद्रीपुत्रः समाचिनोत्
MBh 8.17.43
ततः क्रुद्धो महाराज सहदेवः प्रतापवान् समाधत्त शरं घोरं मृत्युकालान्तकोपमम् विकृष्य बलवच्चापं तव पुत्राय सोऽसृजत्
MBh 8.17.44
स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत् प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः ततः स मुमुहे राजंस्तव पुत्रो महारथः
MBh 8.17.45
मूढं चैनं समालक्ष्य सारथिस्त्वरितो रथम् अपोवाह भृशं त्रस्तो वध्यमानं शितैः शरैः
MBh 8.17.46
पराजित्य रणे तं तु पाण्डवः पाण्डुपूर्वज दुर्योधनबलं हृष्टः प्रामथद्वै समन्ततः
MBh 8.17.47
पिपीलिकापुटं राजन्यथामृद्नान्नरो रुषा तथा सा कौरवी सेना मृदिता तेन भारत
MBh 8.17.48
नकुलं रभसं युद्धे दारयन्तं वरूथिनीम् कर्णो वैकर्तनो राजन्वारयामास वै तदा
MBh 8.17.49
नकुलश्च तदा कर्णं प्रहसन्निदमब्रवीत् चिरस्य बत दृष्टोऽहं दैवतैः सौम्यचक्षुषा
MBh 8.17.50
यस्य मे त्वं रणे पाप चक्षुर्विषयमागतः त्वं हि मूलमनर्थानां वैरस्य कलहस्य च
MBh 8.17.51
त्वद्दोषात्कुरवः क्षीणाः समासाद्य परस्परम् त्वामद्य समरे हत्वा कृतकृत्योऽस्मि विज्वरः
MBh 8.17.52
एवमुक्तः प्रत्युवाच नकुलं सूतनन्दनः सदृशं राजपुत्रस्य धन्विनश्च विशेषतः
MBh 8.17.53
प्रहरस्व रणे बाल पश्यामस्तव पौरुषम् कर्म कृत्वा रणे शूर ततः कत्थितुमर्हसि
MBh 8.17.54
अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः स युध्यस्व मया शक्त्या विनेष्ये दर्पमद्य ते
MBh 8.17.55
इत्युक्त्वा प्राहरत्तूर्णं पाण्डुपुत्राय सूतजः विव्याध चैनं समरे त्रिसप्तत्या शिलीमुखैः
MBh 8.17.56
नकुलस्तु ततो विद्धः सूतपुत्रेण भारत अशीत्याशीविषप्रख्यैः सूतपुत्रमविध्यत
MBh 8.17.57
तस्य कर्णो धनुश्छित्त्वा स्वर्णपुङ्खैः शिलाशितैः त्रिंशता परमेष्वासः शरैः पाण्डवमार्दयत्
MBh 8.17.58
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः
MBh 8.17.59
अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् कर्णं विव्याध विंशत्या सारथिं च त्रिभिः शरैः
MBh 8.17.60
ततः क्रुद्धो महाराज नकुलः परवीरहा क्षुरप्रेण सुतीक्ष्णेन कर्णस्य धनुरच्छिनत्
MBh 8.17.61
अथैनं छिन्नधन्वानं सायकानां शतैस्त्रिभिः आजघ्ने प्रहसन्वीरः सर्वलोकमहारथम्
MBh 8.17.62
कर्णमभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष विस्मयं परमं जग्मू रथिनः सह दैवतैः
MBh 8.17.63
अथान्यद्धनुरादाय कर्णो वैकर्तनस्तदा नकुलं पञ्चभिर्बाणैर्जत्रुदेशे समार्दयत्
MBh 8.17.64
उरःस्थैरथ तैर्बाणैर्माद्रीपुत्रो व्यरोचत स्वरश्मिभिरिवादित्यो भुवने विसृजन्प्रभाम्
MBh 8.17.65
नकुलस्तु ततः कर्णं विद्ध्वा सप्तभिरायसैः अथास्य धनुषः कोटिं पुनश्चिच्छेद मारिष
MBh 8.17.66
सोऽन्यत्कार्मुकमादाय समरे वेगवत्तरम् नकुलस्य ततो बाणैः सर्वतोऽवारयद्दिशः
MBh 8.17.67
संछाद्यमानः सहसा कर्णचापच्युतैः शरैः चिच्छेद स शरांस्तूर्णं शरैरेव महारथः
MBh 8.17.68
ततो बाणमयं जालं विततं व्योम्न्यदृश्यत खद्योतानां गणैरेव संपतद्भिर्यथा नभः
MBh 8.17.69
तैर्विमुक्तैः शरशतैश्छादितं गगनं तदा शलभानां यथा व्रातैस्तद्वदासीत्समाकुलम्
MBh 8.17.70
ते शरा हेमविकृताः संपतन्तो मुहुर्मुहुः श्रेणीकृता अभासन्त हंसाः श्रेणीगता इव
MBh 8.17.71
बाणजालावृते व्योम्नि छादिते च दिवाकरे समसर्पत्ततो भूतं किंचिदेव विशां पते
MBh 8.17.72
निरुद्धे तत्र मार्गे तु शरसंघैः समन्ततः व्यरोचतां महाभागौ बालसूर्याविवोदितौ
MBh 8.17.73
कर्णचापच्युतैर्बाणैर्वध्यमानास्तु सोमकाः अवालीयन्त राजेन्द्र वेदनार्ताः शरार्दिताः
MBh 8.17.74
नकुलस्य तथा बाणैर्वध्यमाना चमूस्तव व्यशीर्यत दिशो राजन्वातनुन्ना इवाम्बुदाः
MBh 8.17.75
ते सेने वध्यमाने तु ताभ्यां दिव्यैर्महाशरैः शरपातमपक्रम्य ततः प्रेक्षकवत्स्थिते
MBh 8.17.76
प्रोत्सारिते जने तस्मिन्कर्णपाण्डवयोः शरैः विव्याधाते महात्मानावन्योन्यं शरवृष्टिभिः
MBh 8.17.77
निदर्शयन्तौ त्वस्त्राणि दिव्यानि रणमूर्धनि छादयन्तौ च सहसा परस्परवधैषिणौ
MBh 8.17.78
नकुलेन शरा मुक्ताः कङ्कबर्हिणवाससः ते तु कर्णमवच्छाद्य व्यतिष्ठन्त यथा परे
MBh 8.17.79
शरवेश्मप्रविष्टौ तौ ददृशाते न कैश्चन चन्द्रसूर्यौ यथा राजंश्छाद्यमानौ जलागमे
MBh 8.17.80
ततः क्रुद्धो रणे कर्णः कृत्वा घोरतरं वपुः पाण्डवं छादयामास समन्ताच्छरवृष्टिभिः
MBh 8.17.81
स च्छाद्यमानः समरे सूतपुत्रेण पाण्डवः न चकार व्यथां राजन्भास्करो जलदैर्यथा
MBh 8.17.82
ततः प्रहस्याधिरथिः शरजालानि मारिष प्रेषयामास समरे शतशोऽथ सहस्रशः
MBh 8.17.83
एकच्छायमभूत्सर्वं तस्य बाणैर्महात्मनः अभ्रच्छायेव संजज्ञे संपतद्भिः शरोत्तमैः
MBh 8.17.84
ततः कर्णो महाराज धनुश्छित्त्वा महात्मनः सारथिं पातयामास रथनीडाद्धसन्निव
MBh 8.17.85
तथाश्वांश्चतुरश्चास्य चतुर्भिर्निशितैः शरैः यमस्य सदनं तूर्णं प्रेषयामास भारत
MBh 8.17.86
अथास्य तं रथं तूर्णं तिलशो व्यधमच्छरैः पताकां चक्ररक्षौ च ध्वजं खड्गं च मारिष शतचन्द्रं ततश्चर्म सर्वोपकरणानि च
MBh 8.17.87
हताश्वो विरथश्चैव विवर्मा च विशां पते अवतीर्य रथात्तूर्णं परिघं गृह्य विष्ठितः
MBh 8.17.88
तमुद्यतं महाघोरं परिघं तस्य सूतजः व्यहनत्सायकै राजञ्शतशोऽथ सहस्रशः
MBh 8.17.89
व्यायुधं चैनमालक्ष्य शरैः संनतपर्वभिः आर्दयद्बहुशः कर्णो न चैनं समपीडयत्
MBh 8.17.90
स वध्यमानः समरे कृतास्त्रेण बलीयसा प्राद्रवत्सहसा राजन्नकुलो व्याकुलेन्द्रियः
MBh 8.17.91
तमभिद्रुत्य राधेयः प्रहसन्वै पुनः पुनः सज्यमस्य धनुः कण्ठे सोऽवासृजत भारत
MBh 8.17.92
ततः स शुशुभे राजन्कण्ठासक्तमहाधनुः परिवेषमनुप्राप्तो यथा स्याद्व्योम्नि चन्द्रमाः यथैव च सितो मेघः शक्रचापेन शोभितः
MBh 8.17.93
तमब्रवीत्तदा कर्णो व्यर्थं व्याहृतवानसि वदेदानीं पुनर्हृष्टो वध्यं मां त्वं पुनः पुनः
MBh 8.17.94
मा योत्सीर्गुरुभिः सार्धं बलवद्भिश्च पाण्डव सदृशैस्तात युध्यस्व व्रीडां मा कुरु पाण्डव गृहं वा गच्छ माद्रेय यत्र वा कृष्णफल्गुनौ
MBh 8.17.95
एवमुक्त्वा महाराज व्यसर्जयत तं ततः वधप्राप्तं तु तं राजन्नावधीत्सूतनन्दनः स्मृत्वा कुन्त्या वचो राजंस्तत एनं व्यसर्जयत्
MBh 8.17.96
विसृष्टः पाण्डवो राजन्सूतपुत्रेण धन्विना व्रीडन्निव जगामाथ युधिष्ठिररथं प्रति
MBh 8.17.97
आरुरोह रथं चापि सूतपुत्रप्रतापितः निःश्वसन्दुःखसंतप्तः कुम्भे क्षिप्त इवोरगः
MBh 8.17.98
तं विसृज्य रणे कर्णः पाञ्चालांस्त्वरितो ययौ रथेनातिपताकेन चन्द्रवर्णहयेन च
MBh 8.17.99
तत्राक्रन्दो महानासीत्पाण्डवानां विशां पते दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान्
MBh 8.17.100
तत्राकरोन्महाराज कदनं सूतनन्दनः मध्यं गते दिनकरे चक्रवत्प्रचरन्प्रभुः
MBh 8.17.101
भग्नचक्रै रथैः केचिच्छिन्नध्वजपताकिभिः ससूतैर्हतसूतैश्च भग्नाक्षैश्चैव मारिष ह्रियमाणानपश्याम पाञ्चालानां रथव्रजान्
MBh 8.17.102
तत्र तत्र च संभ्रान्ता विचेरुर्मत्तकुञ्जराः दवाग्निना परीताङ्गा यथैव स्युर्महावने
MBh 8.17.103
भिन्नकुम्भा विरुधिराश्छिन्नहस्ताश्च वारणाः भिन्नगात्रवराश्चैव च्छिन्नवालाश्च मारिष छिन्नाभ्राणीव संपेतुर्वध्यमाना महात्मना
MBh 8.17.104
अपरे त्रासिता नागा नाराचशततोमरैः तमेवाभिमुखा यान्ति शलभा इव पावकम्
MBh 8.17.105
अपरे निष्टनन्तः स्म व्यदृश्यन्त महाद्विपाः क्षरन्तः शोणितं गात्रैर्नगा इव जलप्लवम्
MBh 8.17.106
उरश्छदैर्विमुक्ताश्च वालबन्धैश्च वाजिनः राजतैश्च तथा कांस्यैः सौवर्णैश्चैव भूषणैः
MBh 8.17.107
हीना आस्तरणैश्चैव खलीनैश्च विवर्जिताः चामरैश्च कुथाभिश्च तूणीरैः पतितैरपि
MBh 8.17.108
निहतैः सादिभिश्चैव शूरैराहवशोभिभिः अपश्याम रणे तत्र भ्राम्यमाणान्हयोत्तमान्
MBh 8.17.109
प्रासैः खड्गैश्च संस्यूतानृष्टिभिश्च नराधिप हययोधानपश्याम कञ्चुकोष्णीषधारिणः
MBh 8.17.110
रथान्हेमपरिष्कारान्सुयुक्ताञ्जवनैर्हयैः भ्रममाणानपश्याम हतेषु रथिषु द्रुतम्
MBh 8.17.111
भग्नाक्षकूबरान्कांश्चिच्छिन्नचक्रांश्च मारिष विपताकाध्वजांश्चान्याञ्छिन्नेषायुगबन्धुरान्
MBh 8.17.112
विहीनान्रथिनस्तत्र धावमानान्समन्ततः सूर्यपुत्रशरैस्त्रस्तानपश्याम विशां पते
MBh 8.17.113
विशस्त्रांश्च तथैवान्यान्सशस्त्रांश्च बहून्हतान् तावकाञ्जालसंछन्नानुरोघण्टाविभूषितान्
MBh 8.17.114
नानावर्णविचित्राभिः पताकाभिरलंकृतान् पदातीनन्वपश्याम धावमानान्समन्ततः
MBh 8.17.115
शिरांसि बाहूनूरूंश्च छिन्नानन्यांस्तथा युधि कर्णचापच्युतैर्बाणैरपश्याम विनाकृतान्
MBh 8.17.116
महान्व्यतिकरो रौद्रो योधानामन्वदृश्यत कर्णसायकनुन्नानां हतानां निशितैः शरैः
MBh 8.17.117
ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः तमेवाभिमुखा यान्ति पतंगा इव पावकम्
MBh 8.17.118
तं दहन्तमनीकानि तत्र तत्र महारथम् क्षत्रिया वर्जयामासुर्युगान्ताग्निमिवोल्बणम्
MBh 8.17.119
हतशेषास्तु ये वीराः पाञ्चालानां महारथाः तान्प्रभग्नान्द्रुतान्कर्णः पृष्ठतो विकिरञ्शरैः अभ्यधावत तेजस्वी विशीर्णकवचध्वजान्
MBh 8.17.120
तापयामास तान्बाणैः सूतपुत्रो महारथः मध्यंदिनमनुप्राप्तो भूतानीव तमोनुदः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 120 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.17local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷