🪷 Mahābhārata · Karṇa-Parva · Chapter 12

The Book of Karṇa · Parva 8 · 71 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 71 Shlokas

MBh 8.12.1
धृतराष्ट्र उवाच यथा संशप्तकैः सार्धमर्जुनस्याभवद्रणः अन्येषां च मदीयानां पाण्डवैस्तद्ब्रवीहि मे
MBh 8.12.2
संजय उवाच शृणु राजन्यथावृत्तं संग्रामं ब्रुवतो मम वीराणां शत्रुभिः सार्धं देहपाप्मप्रणाशनम्
MBh 8.12.3
पार्थः संशप्तकगणं प्रविश्यार्णवसंनिभम् व्यक्षोभयदमित्रघ्नो महावात इवार्णवम्
MBh 8.12.4
शिरांस्युन्मथ्य वीराणां शितैर्भल्लैर्धनंजयः पूर्णचन्द्राभवक्त्राणि स्वक्षिभ्रूदशनानि च संतस्तार क्षितिं क्षिप्रं विनालैर्नलिनैरिव
MBh 8.12.5
सुवृत्तानायतान्पुष्टांश्चन्दनागुरुभूषितान् सायुधान्सतनुत्राणान्पञ्चास्योरगसंनिभान् बाहून्क्षुरैरमित्राणां विचकर्तार्जुनो रणे
MBh 8.12.6
धुर्यान्धुर्यतरान्सूतान्ध्वजांश्चापानि सायकान् पाणीनरत्नीनसकृद्भल्लैश्चिच्छेद पाण्डवः
MBh 8.12.7
द्विपान्हयान्रथांश्चैव सारोहानर्जुनो रणे शरैरनेकसाहस्रै राजन्निन्ये यमक्षयम्
MBh 8.12.8
तं प्रवीरं प्रतीयाता नर्दमाना इवर्षभाः वाशितार्थमभिक्रुद्धा हुंकृत्वा चाभिदुद्रुवुः निघ्नन्तमभिजघ्नुस्ते शरैः शृङ्गैरिवर्षभाः
MBh 8.12.9
तस्य तेषां च तद्युद्धमभवल्लोमहर्षणम् त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा
MBh 8.12.10
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः इषुभिर्बहुभिस्तूर्णं विद्ध्वा प्राणान्ररास सः
MBh 8.12.11
छिन्नत्रिवेणुचक्राक्षान्हतयोधाश्वसारथीन् विध्वस्तायुधतूणीरान्समुन्मथितकेतनान्
MBh 8.12.12
संछिन्नयोक्त्ररश्मीकान्वित्रिवेणून्विकूबरान् विध्वस्तबन्धुरयुगान्विशस्तायुधमण्डलान् रथान्विशकलीकुर्वन्महाभ्राणीव मारुतः
MBh 8.12.13
विस्मापयन्प्रेक्षणीयं द्विषातां भयवर्धनम् महारथसहस्रस्य समं कर्मार्जुनोऽकरोत्
MBh 8.12.14
सिद्धदेवर्षिसंघाश्च चारणाश्चैव तुष्टुवुः देवदुन्दुभयो नेदुः पुष्पवर्षाणि चापतन् केशवार्जुनयोर्मूर्ध्नि प्राह वाक्चाशरीरिणी
MBh 8.12.15
चन्द्रार्कानिलवह्नीनां कान्तिदीप्तिबलद्युतीः यौ सदा बिभ्रतुर्वीरौ ताविमौ केशवार्जुनौ
MBh 8.12.16
ब्रह्मेशानाविवाजय्यौ वीरावेकरथे स्थितौ सर्वभूतवरौ वीरौ नरनारायणावुभौ
MBh 8.12.17
इत्येतन्महदाश्चर्यं दृष्ट्वा श्रुत्वा च भारत अश्वत्थामा सुसंयत्तः कृष्णावभ्यद्रवद्रणे
MBh 8.12.18
अथ पाण्डवमस्यन्तं यमकालान्तकाञ्शरान् सेषुणा पाणिनाहूय हसन्द्रौणिरथाब्रवीत्
MBh 8.12.19
यदि मां मन्यसे वीर प्राप्तमर्हमिवातिथिम् ततः सर्वात्मनाद्य त्वं युद्धातिथ्यं प्रयच्छ मे
MBh 8.12.20
एवमाचार्यपुत्रेण समाहूतो युयुत्सया बहु मेनेऽर्जुनोऽऽत्मानमिदं चाह जनार्दनम्
MBh 8.12.21
संशप्तकाश्च मे वध्या द्रौणिराह्वयते च माम् यदत्रानन्तरं प्राप्तं प्रशाधि त्वं महाभुज
MBh 8.12.22
एवमुक्तोऽवहत्पार्थं कृष्णो द्रोणात्मजान्तिकम् जैत्रेण विधिनाहूतं वायुरिन्द्रमिवाध्वरे
MBh 8.12.23
तमामन्त्र्यैकमनसा केशवो द्रौणिमब्रवीत् अश्वत्थामन्स्थिरो भूत्वा प्रहराशु सहस्व च
MBh 8.12.24
निर्वेष्टुं भर्तृपिण्डं हि कालोऽयमुपजीविनाम् सूक्ष्मो विवादो विप्राणां स्थूलौ क्षात्रौ जयाजयौ
MBh 8.12.25
यां न संक्षमसे मोहाद्दिव्यां पार्थस्य सत्क्रियाम् तामाप्तुमिच्छन्युध्यस्व स्थिरो भूत्वाद्य पाण्डवम्
MBh 8.12.26
इत्युक्तो वासुदेवेन तथेत्युक्त्वा द्विजोत्तमः विव्याध केशवं षष्ट्या नाराचैरर्जुनं त्रिभिः
MBh 8.12.27
तस्यार्जुनः सुसंक्रुद्धस्त्रिभिर्भल्लैः शरासनम् चिच्छेदाथान्यदादत्त द्रौणिर्घोरतरं धनुः
MBh 8.12.28
सज्यं कृत्वा निमेषात्तद्विव्याधार्जुनकेशवौ त्रिभिः शरैर्वासुदेवं सहस्रेण च पाण्डवम्
MBh 8.12.29
ततः शरसहस्राणि प्रयुतान्यर्बुदानि च ससृजे द्रौणिरायस्तः संस्तभ्य च रणेऽर्जुनम्
MBh 8.12.30
इषुधेर्धनुषो ज्याया अङ्गुलीभ्यश्च मारिष बाह्वोः कराभ्यामुरसो वदनघ्राणनेत्रतः
MBh 8.12.31
कर्णाभ्यां शिरसोऽङ्गेभ्यो लोमवर्त्मभ्य एव च रथध्वजेभ्यश्च शरा निष्पेतुर्ब्रह्मवादिनः
MBh 8.12.32
शरजालेन महता विद्ध्वा केशवपाण्डवौ ननाद मुदितो द्रौणिर्महामेघौघनिस्वनः
MBh 8.12.33
तस्य नानदतः श्रुत्वा पाण्डवोऽच्युतमब्रवीत् पश्य माधव दौरात्म्यं द्रोणपुत्रस्य मां प्रति
MBh 8.12.34
वधप्राप्तौ मन्यते नौ प्रवेश्य शरवेश्मनि एषोऽस्य हन्मि संकल्पं शिक्षया च बलेन च
MBh 8.12.35
अश्वत्थाम्नः शरानस्तांश्छित्त्वैकैकं त्रिधा त्रिधा व्यधमद्भरतश्रेष्ठो नीहारमिव मारुतः
MBh 8.12.36
ततः संशप्तकान्भूयः साश्वसूतरथद्विपान् ध्वजपत्तिगणानुग्रैर्बाणैर्विव्याध पाण्डवः
MBh 8.12.37
ये ये ददृशिरे तत्र यद्यद्रूपं यथा यथा ते ते तत्तच्छरैर्व्याप्तं मेनिरेऽऽत्मानमेव च
MBh 8.12.38
ते गाण्डीवप्रणुदिता नानारूपाः पतत्रिणः क्रोशे साग्रे स्थितान्घ्नन्ति द्विपांश्च पुरुषान्रणे
MBh 8.12.39
भल्लैश्छिन्नाः कराः पेतुः करिणां मदकर्षिणाम् छिन्ना यथा परशुभिः प्रवृद्धाः शरदि द्रुमाः
MBh 8.12.40
पश्चात्तु शैलवत्पेतुस्ते गजाः सह सादिभिः वज्रिवज्रप्रमथिता यथैवाद्रिचयास्तथा
MBh 8.12.41
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् विनीतजवनान्युक्तानास्थितान्युद्धदुर्मदान्
MBh 8.12.42
शरैर्विशकलीकुर्वन्नमित्रानभ्यवीवृषत् अलंकृतानश्वसादीन्पत्तींश्चाहन्धनंजयः
MBh 8.12.43
धनंजययुगान्तार्कः संशप्तकमहार्णवम् व्यशोषयत दुःशोषं तीव्रैः शरगभस्तिभिः
MBh 8.12.44
पुनर्द्रौणिमहाशैलं नाराचैः सूर्यसंनिभैः निर्बिभेद महावेगैस्त्वरन्वज्रीव पर्वतम्
MBh 8.12.45
तमाचार्यसुतः क्रुद्धः साश्वयन्तारमाशुगैः युयुत्सुर्नाशकद्योद्धुं पार्थस्तानन्तराच्छिनत्
MBh 8.12.46
ततः परमसंक्रुद्धः काण्डकोशानवासृजत् अश्वत्थामाभिरूपाय गृहानतिथये यथा
MBh 8.12.47
अथ संशप्तकांस्त्यक्त्वा पाण्डवो द्रौणिमभ्ययात् अपाङ्क्तेयमिव त्यक्त्वा दाता पाङ्क्तेयमर्थिनम्
MBh 8.12.48
ततः समभवद्युद्धं शुक्राङ्गिरसवर्चसोः नक्षत्रमभितो व्योम्नि शुक्राङ्गिरसयोरिव
MBh 8.12.49
संतापयन्तावन्योन्यं दीप्तैः शरगभस्तिभिः लोकत्रासकरावास्तां विमार्गस्थौ ग्रहाविव
MBh 8.12.50
ततोऽविध्यद्भ्रुवोर्मध्ये नाराचेनार्जुनो भृशम् स तेन विबभौ द्रौणिरूर्ध्वरश्मिर्यथा रविः
MBh 8.12.51
अथ कृष्णौ शरशतैरश्वत्थाम्नार्दितौ भृशम् सरश्मिजालनिकरौ युगान्तार्काविवासतुः
MBh 8.12.52
ततोऽर्जुनः सर्वतोधारमस्त्र;मवासृजद्वासुदेवाभिगुप्तः द्रौणायनिं चाभ्यहनत्पृषत्कै;र्वज्राग्निवैवस्वतदण्डकल्पैः
MBh 8.12.53
स केशवं चार्जुनं चातितेजा; विव्याध मर्मस्वतिरौद्रकर्मा बाणैः सुमुक्तैरतितीव्रवेगै;र्यैराहतो मृत्युरपि व्यथेत
MBh 8.12.54
द्रौणेरिषूनर्जुनः संनिवार्य; व्यायच्छतस्तद्द्विगुणैः सुपुङ्खैः तं साश्वसूतध्वजमेकवीर;मावृत्य संशप्तकसैन्यमार्छत्
MBh 8.12.55
धनूंषि बाणानिषुधीर्धनुर्ज्याः; पाणीन्भुजान्पाणिगतं च शस्त्रम् छत्राणि केतूंस्तुरगानथैषां; वस्त्राणि माल्यान्यथ भूषणानि
MBh 8.12.56
चर्माणि वर्माणि मनोरथांश्च; प्रियाणि सर्वाणि शिरांसि चैव चिच्छेद पार्थो द्विषतां प्रमुक्तै;र्बाणैः स्थितानामपराङ्मुखानाम्
MBh 8.12.57
सुकल्पिताः स्यन्दनवाजिनागाः; समास्थिताः कृतयत्नैर्नृवीरैः पार्थेरितैर्बाणगणैर्निरस्ता;स्तैरेव सार्धं नृवरैर्निपेतुः
MBh 8.12.58
पद्मार्कपूर्णेन्दुसमाननानि; किरीटमालामुकुटोत्कटानि भल्लार्धचन्द्रक्षुरहिंसितानि; प्रपेतुरुर्व्यां नृशिरांस्यजस्रम्
MBh 8.12.59
अथ द्विपैर्देवपतिद्विपाभै;र्देवारिदर्पोल्बणमन्युदर्पैः कलिङ्गवङ्गाङ्गनिषादवीरा; जिघांसवः पाण्डवमभ्यधावन्
MBh 8.12.60
तेषां द्विपानां विचकर्त पार्थो; वर्माणि मर्माणि करान्नियन्तॄन् ध्वजाः पताकाश्च ततः प्रपेतु;र्वज्राहतानीव गिरेः शिरांसि
MBh 8.12.61
तेषु प्ररुग्णेषु गुरोस्तनूजं; बाणैः किरीटी नवसूर्यवर्णैः प्रच्छादयामास महाभ्रजालै;र्वायुः समुद्युक्तमिवांशुमन्तम्
MBh 8.12.62
ततोऽर्जुनेषूनिषुभिर्निरस्य; द्रौणिः शरैरर्जुनवासुदेवौ प्रच्छादयित्व दिवि चन्द्रसूर्यौ; ननाद सोऽम्भोद इवातपान्ते
MBh 8.12.63
तमर्जुनस्तांश्च पुनस्त्वदीया;नभ्यर्दितस्तैरविकृत्तशस्त्रैः बाणान्धकारं सहसैव कृत्वा; विव्याध सर्वानिषुभिः सुपुङ्खैः
MBh 8.12.64
नाप्याददत्संदधन्नैव मुञ्च;न्बाणान्रणेऽदृश्यत सव्यसाची हतांश्च नागांस्तुरगान्पदाती;न्संस्यूतदेहान्ददृशू रथांश्च
MBh 8.12.65
संधाय नाराचवरान्दशाशु; द्रौणिस्त्वरन्नेकमिवोत्ससर्ज तेषां च पञ्चार्जुनमभ्यविध्य;न्पञ्चाच्युतं निर्बिभिदुः सुमुक्ताः
MBh 8.12.66
तैराहतौ सर्वमनुष्यमुख्या;वसृक्क्षरन्तौ धनदेन्द्रकल्पौ समाप्तविद्येन यथाभिभूतौ; हतौ स्विदेतौ किमु मेनिरेऽन्ये
MBh 8.12.67
अथार्जुनं प्राह दशार्हनाथः; प्रमाद्यसे किं जहि योधमेतम् कुर्याद्धि दोषं समुपेक्षितोऽसौ; कष्टो भवेद्व्याधिरिवाक्रियावान्
MBh 8.12.68
तथेति चोक्त्वाच्युतमप्रमादी; द्रौणिं प्रयत्नादिषुभिस्ततक्ष छित्त्वाश्वरश्मींस्तुरगानविध्य;त्ते तं रणादूहुरतीव दूरम्
MBh 8.12.69
आवृत्य नेयेष पुनस्तु युद्धं; पार्थेन सार्धं मतिमान्विमृश्य जानञ्जयं नियतं वृष्णिवीरे; धनंजये चाङ्गिरसां वरिष्ठः
MBh 8.12.70
प्रतीपकाये तु रणादश्वत्थाम्नि हृते हयैः मन्त्रौषधिक्रियादानैर्व्याधौ देहादिवाहृते
MBh 8.12.71
संशप्तकानभिमुखौ प्रयातौ केशवार्जुनौ वातोद्धूतपताकेन स्यन्दनेनौघनादिना

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 71 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.12local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷