🪷 Mahābhārata · Karṇa-Parva · Chapter 11

The Book of Karṇa · Parva 8 · 41 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 8.11local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 41 Shlokas

MBh 8.11.1
[स] भीमसेनं ततॊ दरौणी राजन विव्याध पत्रिणा तवरया परया युक्तॊ दर्शयन्न अस्त्रलाघवम
MBh 8.11.2
अथैनं पुनर आजघ्ने नवत्या निशितैः शरैः सर्वमर्माणि संप्रेक्ष्य मर्मज्ञॊ लघुहस्तवत
MBh 8.11.3
भीमसेनः समाकीर्णॊ दरौणिना निशितैः शरैः रराज समरे राजन रश्मिवान इव भास्करः
MBh 8.11.4
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः दरॊणपुत्रम अवच्छाद्य सिंहनादम अमुञ्चत
MBh 8.11.5
शरैः शरांस ततॊ दरौणिः संवार्य युधि पाण्डवम ललाटे ऽभयहनद राजन नाराचेन समयन्न इव
MBh 8.11.6
ललाटस्थं ततॊ बाणं धारयाम आस पाण्डवः यथा शृङ्गं वने दृप्तः खड्गॊ धारयते नृप
MBh 8.11.7
ततॊ दरौणिं रणे भीमॊ यतमानं पराक्रमी तरिभिर विव्याध नाराचैर ललाटे विस्मयन्न इव
MBh 8.11.8
ललाटस्थैस ततॊ बाणैर बराह्मणः स वयरॊचत परावृषीव यथा सिक्तस तरिशृङ्गः पर्वतॊत्तमः
MBh 8.11.9
ततः शरशतैर दरौणिर मदयाम आस पाण्डवः न चैनं कम्पयाम आस मातरिश्वेव पर्वतम
MBh 8.11.10
तथैव पाण्डवं युद्धे दरौणिः शरशतैः शितैः नाकम्पयत संहृष्टॊ वार्यॊघ इव पर्वतम
MBh 8.11.11
ताव अन्यॊन्यं शरैर घॊरैश छादयानौ महारथौ रथचर्या गतौ शूरौ शुशुभाते रणॊत्कटौ
MBh 8.11.12
आदित्याव इव संदीप्तौ लॊकक्षयकराव उभौ सवरश्मिभिर इवान्यॊन्यं तापयन्तौ शरॊत्तमैः
MBh 8.11.13
कृतप्रतिकृते यत्नं कुर्वाणौ च महारणे कृतप्रतिकृते यत्नं चक्राते ताव अभीतवत
MBh 8.11.14
वयाघ्राव इव च संग्रामे चेरतुस तौ महारथौ शरदंष्ट्रौ दुराधर्षौ चापव्यात्तौ भयानकौ
MBh 8.11.15
अभूतां ताव अदृश्यौ च शरजालैः समन्ततः मेघजालैर इव चछन्नौ गगने चन्द्रभास्करौ
MBh 8.11.16
परकाशौ च मुहूर्तेन तत्रैवास्ताम अरिंदमौ विमुक्तौ मेघजालेन शशिसूर्यौ यथा दिवि
MBh 8.11.17
अपसव्यं ततश चक्रे दरौणिस तत्र वृकॊदरम किरञ शरशतैर उग्रैर धाराभिर इव पर्वतम
MBh 8.11.18
न तु तन ममृषे भीमः शत्रॊर विजयलक्षणम परतिचक्रे च तं राजन पाण्डवॊ ऽपय अपसव्यतः
MBh 8.11.19
मण्डलानां विभागेषु गतप्रत्यागतेषु च बभूव तुमुलं युद्धं तयॊस तत्र महामृधे
MBh 8.11.20
चरित्वा विविधान मार्गान मण्डलं सथानम एव च शरैः पूर्णायतॊत्सृष्टैर अन्यॊन्यम अभिजघ्नतुः
MBh 8.11.21
अन्यॊन्यस्य वधे यत्नं चक्रतुस तौ महारथौ ईषतुर विरथं चैव कर्तुम अन्यॊन्यम आहवे
MBh 8.11.22
ततॊ दरौणिर महास्त्राणि परादुश्चक्रे महारथः तान्य अस्त्रैर एव समरे परतिजघ्ने ऽसय पाण्डवः
MBh 8.11.23
ततॊ घॊरं महाराज अस्त्रयुद्धम अवर्तत गरहयुद्धं यथा घॊरं परजासंहरणे अभूत
MBh 8.11.24
ते बाणाः समसज्जन्त कषिप्तास ताभ्यां तु भारत दयॊतयन्तॊ दिशः सर्वास तच च सैन्यं समन्ततः
MBh 8.11.25
बाणसंघावृतं घॊरम आकाशं समपद्यत उक्ला पातकृतं यद्वत परजानां संक्षये नृप
MBh 8.11.26
बाणाभिघातात संजज्ञे तत्र भारत पावकः स विस्फुलिङ्गॊ दीप्तार्चिः सॊ ऽदहद वाहिनी दवयम
MBh 8.11.27
तत्र सिद्धा महाराज संपतन्तॊ ऽबरुवन वचः अति युद्धानि सर्वाणि युद्धम एतत ततॊ ऽधिकम
MBh 8.11.28
सर्वयुद्धानि चैतस्य कलां नार्हन्ति षॊडशीम नैतादृशं पुनर युद्धं न भूतं न भविष्यति
MBh 8.11.29
अहॊ जञानेन संयुक्ताव उभौ चॊग्रपराक्रमौ अहॊ भीमे बलं भीमम एतयॊश च कृतास्त्रता
MBh 8.11.30
अहॊ वीर्यस्य सारत्वम अहॊ सौष्ठवम एतयॊः सथिताव एतौ हि समरे कालान्तकयमॊपमौ
MBh 8.11.31
रुद्रौ दवाव इव संभूतौ यथा दवाव इव भास्करौ यमौ वा पुरुषव्याघ्रौ घॊररूपाव इमौ रणे
MBh 8.11.32
शरूयन्ते सम तदा वाचः सिद्धानां वै मुहुर मुहुः सिंहनादश च संजज्ञे समेतानां दिवौकसाम अद्भुतं चाप्य अचिन्त्यं च दृष्ट्वा कर्म तयॊर मृधे
MBh 8.11.33
तौ शूरौ समरे राजन परस्परकृतागसौ परस्परम उदैक्षेतां करॊधाद उद्वृत्य चाक्षुषी
MBh 8.11.34
करॊधरक्तेक्षणौ तौ तु करॊधात परस्फुरिताधरौ करॊधात संदष्ट दशनौ संदष्ट दशनच छदौ
MBh 8.11.35
अन्यॊन्यं छादयन्तौ सम शरवृष्ट्या महारथौ शराम्बुधारौ समरे शस्त्रविद्युत परकाशिनौ
MBh 8.11.36
ताव अन्यॊन्यं धवजौ विद्ध्वा सारथी च महारथौ अन्यॊन्यस्य हयान विद्ध्वा बिभिदाते परस्परम
MBh 8.11.37
ततः करुद्धौ महाराज बाणौ गृह्य महाहवे उभौ चिक्षिपतुस तूर्णम अन्यॊन्यस्य वधैषिणौ
MBh 8.11.38
तौ सायकौ महाराज दयॊतमानौ चमूमुखे आजघ्राते समासाद्य वज्रवेगौ दुरासदौ
MBh 8.11.39
तौ परस्परवेगाच च शराभ्यां च भृशाहतौ निपेततुर महावीरौ सवरथॊपस्थयॊस तदा
MBh 8.11.40
ततस तु सारथिर जञात्वा दरॊणपुत्रम अचेतनम अपॊवाह रणाद राजन सर्वक्षत्रस्य पश्यतः
MBh 8.11.41
तथैव पाण्डवं राजन विह्वलन्तं मुहुर मुहुः अपॊवाह रथेनाजौ सारथिः शत्रुतापनम

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷