🪷 Mahābhārata · Karṇa-Parva · Chapter 13
The Book of Karṇa · Parva 8 · 25 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 25 Shlokas
MBh 8.13.1
संजय उवाच
अथोत्तरेण पाण्डूनां सेनायां ध्वनिरुत्थितः
रथनागाश्वपत्तीनां दण्डधारेण वध्यताम्
MBh 8.13.2
निवर्तयित्वा तु रथं केशवोऽर्जुनमब्रवीत्
वाहयन्नेव तुरगान्गरुडानिलरंहसः
MBh 8.13.3
मागधोऽथाप्यतिक्रान्तो द्विरदेन प्रमाथिना
भगदत्तादनवरः शिक्षया च बलेन च
MBh 8.13.4
एनं हत्वा निहन्तासि पुनः संशप्तकानिति
वाक्यान्ते प्रापयत्पार्थं दण्डधारान्तिकं प्रति
MBh 8.13.5
स मागधानां प्रवरोऽङ्कुशग्रहो; ग्रहेष्वसह्यो विकचो यथा ग्रहः
सपत्नसेनां प्रममाथ दारुणो; महीं समग्रां विकचो यथा ग्रहः
MBh 8.13.6
सुकल्पितं दानवनागसंनिभं; महाभ्रसंह्रादममित्रमर्दनम्
रथाश्वमातङ्गगणान्सहस्रशः; समास्थितो हन्ति शरैर्द्विपानपि
MBh 8.13.7
रथानधिष्ठाय सवाजिसारथी;न्रथांश्च पद्भिस्त्वरितो व्यपोथयत्
द्विपांश्च पद्भ्यां चरणैः करेण च; द्विपास्थितो हन्ति स कालचक्रवत्
MBh 8.13.8
नरांश्च कार्ष्णायसवर्मभूषणा;न्निपात्य साश्वानपि पत्तिभिः सह
व्यपोथयद्दन्तिवरेण शुष्मिणा; सशब्दवत्स्थूलनडान्यथा तथा
MBh 8.13.9
अथार्जुनो ज्यातलनेमिनिस्वने; मृदङ्गभेरीबहुशङ्खनादिते
नराश्वमातङ्गसहस्रनादितै; रथोत्तमेनाभ्यपतद्द्विपोत्तमम्
MBh 8.13.10
ततोऽर्जुनं द्वादशभिः शरोत्तमै;र्जनार्दनं षोडशभिः समार्दयत्
स दण्डधारस्तुरगांस्त्रिभिस्त्रिभि;स्ततो ननाद प्रजहास चासकृत्
MBh 8.13.11
ततोऽस्य पार्थः सगुणेषुकार्मुकं; चकर्त भल्लैर्ध्वजमप्यलंकृतम्
पुनर्नियन्तॄन्सह पादगोप्तृभि;स्ततस्तु चुक्रोध गिरिव्रजेश्वरः
MBh 8.13.12
ततोऽर्जुनं भिन्नकटेन दन्तिना; घनाघनेनानिलतुल्यरंहसा
अतीव चुक्षोभयिषुर्जनार्दनं; धनंजयं चाभिजघान तोमरैः
MBh 8.13.13
अथास्य बाहू द्विपहस्तसंनिभौ; शिरश्च पूर्णेन्दुनिभाननं त्रिभिः
क्षुरैः प्रचिच्छेद सहैव पाण्डव;स्ततो द्विपं बाणशतैः समार्दयत्
MBh 8.13.14
स पार्थबाणैस्तपनीयभूषणैः; समारुचत्काञ्चनवर्मभृद्द्विपः
तथा चकाशे निशि पर्वतो यथा; दवाग्निना प्रज्वलितौषधिद्रुमः
MBh 8.13.15
स वेदनार्तोऽम्बुदनिस्वनो नदं;श्चलन्भ्रमन्प्रस्खलितोऽऽतुरो द्रवन्
पपात रुग्णः सनियन्तृकस्तथा; यथा गिरिर्वज्रनिपातचूर्णितः
MBh 8.13.16
हिमावदातेन सुवर्णमालिना; हिमाद्रिकूटप्रतिमेन दन्तिना
हते रणे भ्रातरि दण्ड आव्रज;ज्जिघांसुरिन्द्रावरजं धनंजयम्
MBh 8.13.17
स तोमरैरर्ककरप्रभैस्त्रिभि;र्जनार्दनं पञ्चभिरेव चार्जुनम्
समर्पयित्वा विननाद चार्दयं;स्ततोऽस्य बाहू विचकर्त पाण्डवः
MBh 8.13.18
क्षुरप्रकृत्तौ सुभृशं सतोमरौ; च्युताङ्गदौ चन्दनरूषितौ भुजौ
गजात्पतन्तौ युगपद्विरेजतु;र्यथाद्रिशृङ्गात्पतितौ महोरगौ
MBh 8.13.19
अथार्धचन्द्रेण हृतं किरीटिना; पपात दण्डस्य शिरः क्षितिं द्विपात्
तच्छोणिताभं निपतद्विरेजे; दिवाकरोऽस्तादिव पश्चिमां दिशम्
MBh 8.13.20
अथ द्विपं श्वेतनगाग्रसंनिभं; दिवाकरांशुप्रतिमैः शरोत्तमैः
बिभेद पार्थः स पपात नानद;न्हिमाद्रिकूटः कुलिशाहतो यथा
MBh 8.13.21
ततोऽपरे तत्प्रतिमा गजोत्तमा; जिगीषवः संयति सव्यसाचिनम्
तथा कृतास्तेन यथैव तौ द्विपौ; ततः प्रभग्नं सुमहद्रिपोर्बलम्
MBh 8.13.22
गजा रथाश्वाः पुरुषाश्च संघशः; परस्परघ्नाः परिपेतुराहवे
परस्परप्रस्खलिताः समाहता; भृशं च तत्तत्कुलभाषिणो हताः
MBh 8.13.23
अथार्जुनं स्वे परिवार्य सैनिकाः; पुरंदरं देवगणा इवाब्रुवन्
अभैष्म यस्मान्मरणादिव प्रजाः; स वीर दिष्ट्या निहतस्त्वया रिपुः
MBh 8.13.24
न चेत्परित्रास्य इमाञ्जनान्भया;द्द्विषद्भिरेवं बलिभिः प्रपीडितान्
तथाभविष्यद्द्विषतां प्रमोदनं; यथा हतेष्वेष्विह नोऽरिषु त्वया
MBh 8.13.25
इतीव भूयश्च सुहृद्भिरीरिता; निशम्य वाचः सुमनास्ततोऽर्जुनः
यथानुरूपं प्रतिपूज्य तं जनं; जगाम संशप्तकसंघहा पुनः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 12
- Next chapter · Karṇa-Parva Ch 14 →
Sources and Connected Readings
Continue from these 25 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.13local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷