🪷 Mahābhārata · Droṇa-Parva · Chapter 92

The Book of Droṇa · Parva 7 · 44 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 44 Shlokas

MBh 7.92.1
संजय उवाच ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः त्वरमाणा महाराज युयुधानमयोधयन्
MBh 7.92.2
तं द्रोणः सप्तसप्तत्या जघान निशितैः शरैः दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः
MBh 7.92.3
विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा
MBh 7.92.4
दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष
MBh 7.92.5
दुर्योधनश्च महता शरवर्षेण माधवम् अपीडयद्रणे राजञ्शूराश्चान्ये महारथाः
MBh 7.92.6
सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः तान्प्रत्यविध्यच्छैनेयः पृथक्पृथगजिह्मगैः
MBh 7.92.7
भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिस्तथा विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः
MBh 7.92.8
दुर्मर्षणं द्वादशभिश्चतुर्भिश्च विविंशतिम् सत्यव्रतं च नवभिर्विजयं दशभिः शरैः
MBh 7.92.9
ततो रुक्माङ्गदं चापं विधुन्वानो महारथः अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम्
MBh 7.92.10
राजानं सर्वलोकस्य सर्वशस्त्रभृतां वरम् शरैरभ्याहनद्गाढं ततो युद्धमभूत्तयोः
MBh 7.92.11
विमुञ्चन्तौ शरांस्तीक्ष्णान्संदधानौ च सायकान् अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ
MBh 7.92.12
सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा
MBh 7.92.13
सात्वतेन च बाणौघैर्निर्विद्धस्तनयस्तव शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः
MBh 7.92.14
माधवस्तु रणे राजन्कुरुराजस्य धन्विनः धनुश्चिच्छेद सहसा क्षुरप्रेण हसन्निव अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत्
MBh 7.92.15
निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा नामृष्यत रणे राजा शत्रोर्विजयलक्षणम्
MBh 7.92.16
अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् विव्याध सात्यकिं तूर्णं सायकानां शतेन ह
MBh 7.92.17
सोऽतिविद्धो बलवता पुत्रेण तव धन्विना अमर्षवशमापन्नस्तव पुत्रमपीडयत्
MBh 7.92.18
पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः सात्वतं शरवर्षेण छादयामासुरञ्जसा
MBh 7.92.19
स छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः
MBh 7.92.20
दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम्
MBh 7.92.21
नागं मणिमयं चैव शरैर्ध्वजमपातयत् हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः सारथिं पातयामास क्षुरप्रेण महायशाः
MBh 7.92.22
एतस्मिन्नन्तरे चैव कुरुराजं महारथम् अवाकिरच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः
MBh 7.92.23
स वध्यमानः समरे शैनेयस्य शरोत्तमैः प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः
MBh 7.92.24
हाहाभूतं जगच्चासीद्दृष्ट्वा राजानमाहवे ग्रस्यमानं सात्यकिना खे सोममिव राहुणा
MBh 7.92.25
तं तु शब्दं महच्छ्रुत्वा कृतवर्मा महारथः अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः
MBh 7.92.26
विधुन्वानो धनुःश्रेष्ठं चोदयंश्चैव वाजिनः भर्त्सयन्सारथिं चोग्रं याहि याहीति सत्वरः
MBh 7.92.27
तमापतन्तं संप्रेक्ष्य व्यादितास्यमिवान्तकम् युयुधानो महाराज यन्तारमिदमब्रवीत्
MBh 7.92.28
कृतवर्मा रथेनैष द्रुतमापतते शरी प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम्
MBh 7.92.29
ततः प्रजविताश्वेन विधिवत्कल्पितेन च आससाद रणे भोजं प्रतिमानं धनुष्मताम्
MBh 7.92.30
ततः परमसंक्रुद्धौ ज्वलन्ताविव पावकौ समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ
MBh 7.92.31
कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत् निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य सप्तभिः
MBh 7.92.32
चतुरश्च हयोदारांश्चतुर्भिः परमेषुभिः अविध्यत्साधुदान्तान्वै सैन्धवान्सात्वतस्य ह
MBh 7.92.33
रुक्मध्वजो रुक्मपृष्ठं महद्विस्फार्य कार्मुकम् रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खानवाकिरत्
MBh 7.92.34
ततोऽशीतिं शिनेः पौत्रः सायकान्कृतवर्मणे प्राहिणोत्त्वरया युक्तो द्रष्टुकामो धनंजयम्
MBh 7.92.35
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः समकम्पत दुर्धर्षः क्षितिकम्पे यथाचलः
MBh 7.92.36
त्रिषष्ट्या चतुरोऽस्याश्वान्सप्तभिः सारथिं शरैः विव्याध निशितैस्तूर्णं सात्यकिः कृतवर्मणः
MBh 7.92.37
सुवर्णपुङ्खं विशिखं समाधाय स सात्यकिः व्यसृजत्तं महाज्वालं संक्रुद्धमिव पन्नगम्
MBh 7.92.38
सोऽविशत्कृतवर्माणं यमदण्डोपमः शरः जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत् अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः
MBh 7.92.39
संजातरुधिरश्चाजौ सात्वतेषुभिरर्दितः प्रचलन्धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमे
MBh 7.92.40
स सिंहदंष्ट्रो जानुभ्यामापन्नोऽमितविक्रमः शरार्दितः सात्यकिना रथोपस्थे नरर्षभः
MBh 7.92.41
सहस्रबाहोः सदृशमक्षोभ्यमिव सागरम् निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः
MBh 7.92.42
खड्गशक्तिधनुःकीर्णां गजाश्वरथसंकुलाम् प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः
MBh 7.92.43
प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुंगवः अभ्यगाद्वाहिनीं भित्त्वा वृत्रहेवासुरीं चमूम्
MBh 7.92.44
समाश्वास्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः तस्थौ तत्रैव बलवान्वारयन्युधि पाण्डवान्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 44 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.92local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷