🪷 Mahābhārata · Droṇa-Parva · Chapter 77
The Book of Droṇa · Parva 7 · 38 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 38 Shlokas
MBh 7.77.1
वासुदेव उवाच
सुयोधनमतिक्रान्तमेनं पश्य धनंजय
आपद्गतमिमं मन्ये नास्त्यस्य सदृशो रथः
MBh 7.77.2
दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः
दृढास्त्रश्चित्रयोधी च धार्तराष्ट्रो महाबलः
MBh 7.77.3
अत्यन्तसुखसंवृद्धो मानितश्च महारथैः
कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान्
MBh 7.77.4
तेन युद्धमहं मन्ये प्राप्तकालं तवानघ
अत्र वो द्यूतमायातं विजयायेतराय वा
MBh 7.77.5
अत्र क्रोधविषं पार्थ विमुञ्च चिरसंभृतम्
एष मूलमनर्थानां पाण्डवानां महारथः
MBh 7.77.6
सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः
कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम्
MBh 7.77.7
दिष्ट्या त्विदानीं संप्राप्त एष ते बाणगोचरम्
स यथा जीवितं जह्यात्तथा कुरु धनंजय
MBh 7.77.8
ऐश्वर्यमदसंमूढो नैष दुःखमुपेयिवान्
न च ते संयुगे वीर्यं जानाति पुरुषर्षभ
MBh 7.77.9
त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानुषाः
नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः
MBh 7.77.10
स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम्
जह्येनं वै महाबाहो यथा वृत्रं पुरंदरः
MBh 7.77.11
एष ह्यनर्थे सततं पराक्रान्तस्तवानघ
निकृत्या धर्मराजं च द्यूते वञ्चितवानयम्
MBh 7.77.12
बहूनि सुनृशंसानि कृतान्येतेन मानद
युष्मासु पापमतिना अपापेष्वेव नित्यदा
MBh 7.77.13
तमनार्यं सदा क्षुद्रं पुरुषं कामचारिणम्
आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन्
MBh 7.77.14
निकृत्या राज्यहरणं वनवासं च पाण्डव
परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रम
MBh 7.77.15
दिष्ट्यैष तव बाणानां गोचरे परिवर्तते
प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः
MBh 7.77.16
दिष्ट्या जानाति संग्रामे योद्धव्यं हि त्वया सह
दिष्ट्या च सफलाः पार्थ सर्वे कामा हि कामिताः
MBh 7.77.17
तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम्
यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे
MBh 7.77.18
अस्मिन्हते त्वया सैन्यमनाथं भिद्यतामिदम्
वैरस्यास्यास्त्ववभृथो मूलं छिन्धि दुरात्मनाम्
MBh 7.77.19
संजय उवाच
तं तथेत्यब्रवीत्पार्थः कृत्यरूपमिदं मम
सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः
MBh 7.77.20
येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम्
अप्यस्य युधि विक्रम्य छिन्द्यां मूर्धानमाहवे
MBh 7.77.21
अपि तस्या अनर्हायाः परिक्लेशस्य माधव
कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे
MBh 7.77.22
इत्येवं वादिनौ हृष्टौ कृष्णौ श्वेतान्हयोत्तमान्
प्रेषयामासतुः संख्ये प्रेप्सन्तौ तं नराधिपम्
MBh 7.77.23
तयोः समीपं संप्राप्य पुत्रस्ते भरतर्षभ
न चकार भयं प्राप्ते भये महति मारिष
MBh 7.77.24
तदस्य क्षत्रियास्तत्र सर्व एवाभ्यपूजयन्
यदर्जुनहृषीकेशौ प्रत्युद्यातोऽविचारयन्
MBh 7.77.25
ततः सर्वस्य सैन्यस्य तावकस्य विशां पते
महान्नादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे
MBh 7.77.26
तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति
कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत्
MBh 7.77.27
आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना
संरम्भमगमद्भूयः स च तस्मिन्परंतपः
MBh 7.77.28
तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनंजयौ
अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः
MBh 7.77.29
दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष
प्रहसन्निव पुत्रस्ते योद्धुकामः समाह्वयत्
MBh 7.77.30
ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनंजयः
व्याक्रोशेतां महानादं दध्मतुश्चाम्बुजोत्तमौ
MBh 7.77.31
तौ हृष्टरूपौ संप्रेक्ष्य कौरवेयाश्च सर्वशः
निराशाः समपद्यन्त पुत्रस्य तव जीविते
MBh 7.77.32
शोकमीयुः परं चैव कुरवः सर्व एव ते
अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम्
MBh 7.77.33
तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ
हतो राजा हतो राजेत्यूचुरेवं भयार्दिताः
MBh 7.77.34
जनस्य संनिनादं तु श्रुत्वा दुर्योधनोऽब्रवीत्
व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे
MBh 7.77.35
इत्युक्त्वा सैनिकान्सर्वाञ्जयापेक्षी नराधिपः
पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत्
MBh 7.77.36
पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं मानुषमेव च
तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना
MBh 7.77.37
यद्बलं तव वीर्यं च केशवस्य तथैव च
तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम्
MBh 7.77.38
अस्मत्परोक्षं कर्माणि प्रवदन्ति कृतानि ते
स्वामिसत्कारयुक्तानि यानि तानीह दर्शय
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 76
- Next chapter · Droṇa-Parva Ch 78 →
Sources and Connected Readings
Continue from these 38 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.77local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷