🪷 Mahābhārata · Droṇa-Parva · Chapter 76
The Book of Droṇa · Parva 7 · 42 shlokas in canonical Devanāgarī Sanskrit
Mahābhārata Detail Source-Anchor Spine
This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.
MBh 7.76local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
The Devanāgarī Yathārtha · 42 Shlokas
MBh 7.76.1
[स]
सरंसन्त इव मज्जानस तावकानां भयान नृप
तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनंजयौ
MBh 7.76.2
सर्वे तु परतिसंरब्धा हरीमन्तः सत्त्वचॊदिताः
सथिरी बूता महात्मानः परत्यगच्छन धनंजयम
MBh 7.76.3
ये गताः पाण्डवं युद्धे करॊधामर्षसमन्विताः
ते ऽदयापि न निवर्तन्ते सिन्धवः सागराद इव
MBh 7.76.4
असन्तस तु नयवर्तन्त वेदेभ्य इव नास्तिकाः
नरकं भजमानास ते परत्यपद्यन्त किल्बिषम
MBh 7.76.5
ताव अतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ
ददृशाते यथा राहॊर आस्यान मुक्तौ परभा करौ
MBh 7.76.6
मत्स्याव इव महाजालं विदार्य विगतज्वरौ
तथा कृष्णाव अदृश्येतां सेना जालं विदार्य तत
MBh 7.76.7
विमुक्तौ शस्त्रसंबाधाद दरॊणानीकात सुदुर्भिदात
अदृश्येतां महात्मानौ कालसूर्याव इवॊदितौ
MBh 7.76.8
अस्त्रसंबाध निर्मुक्तौ विमुक्तौ शस्त्रसंकटात
अदृश्येतां महात्मानौ शत्रुसंबाध कारिणौ
MBh 7.76.9
विमुक्तौ जवलनस्पर्शान मकरास्याज झषाव इव
वयक्षॊभयेतां सेनां तौ समुद्रं मकराव इव
MBh 7.76.10
तावकास तव पुत्राश च दरॊणानीकस्थयॊस तयॊः
नैतौ तरिष्यतॊ दरॊणम इति चक्रुस तदा मतिम
MBh 7.76.11
तौ तु दृष्ट्वा वयतिक्रान्तौ दरॊणानीकं महाद्युती
नाशशंसुर महाराज सिन्धुराजस्य जीवितम
MBh 7.76.12
आशा बलवती राजन पुत्राणाम अभवत तव
दरॊण हार्दिक्ययॊः कृष्णौ न मॊक्ष्येते इति परभॊ
MBh 7.76.13
ताम आशां विफलां कृत्वा निस्तीर्णौ तौ परंतपौ
दरॊणानीकं महाराज भॊजानीकं च दुस्तरम
MBh 7.76.14
अथ दृष्ट्वा वयतिक्रान्तौ जवलिताव इव पावकौ
निराशाः सिन्धुराजस्य जीवितं नाशशंसिरे
MBh 7.76.15
मिथश च समभाषेताम अभीतौ भयवर्धनौ
जयद्रथ वदे वाचस तास ताः कृष्ण धनंजयौ
MBh 7.76.16
असौ मध्ये कृतः षड्भिर धार्तराष्ट्रैर महारथैः
चक्षुर्विषयसंप्राप्तॊ न नौ मॊक्ष्यति सैन्धवः
MBh 7.76.17
यद्य अस्य समरे गॊप्ता शक्रॊ देवगणैः सह
तथाप्य एनं हनिष्याव इति कृष्णाव अभाषताम
MBh 7.76.18
इति कृष्णौ महाबाहू मिथः कथयतां तदा
सिन्धुराजम अवेक्षन्तौ तत पुत्रास तव शुश्रुवुः
MBh 7.76.19
अतीत्य मरु धन्वेव परयान्तौ तृषितौ गजौ
पीत्वा वारि समाश्वस्तौ तथैवास्ताम अरिंदमौ
MBh 7.76.20
वयाघ्रसिंहगजाकीर्णान अतिक्रम्येव पर्वतान
अदृश्येतां महाबाहू यथा मृत्युजरातिगौ
MBh 7.76.21
तथा हि मुखवर्णॊ ऽयम अनयॊर इति मेनिरे
तावका दृश्यमुक्तौ तौ विक्रॊशन्ति सम सर्वतः
MBh 7.76.22
दॊणाद आशीविषाकाराज जवलिताद इव पावकात
अन्येभ्यः पार्थिवेभ्यश च भास्वन्ताव इव भास्करौ
MBh 7.76.23
तौ मुक्तौ सागरप्रख्याद दरॊणानीकाद अरिंदमौ
अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा
MBh 7.76.24
शस्त्रौघान महतॊ मुक्तौ दरॊण हार्दिक्य रक्षितान
रॊचमानाव अदृश्येताम इन्द्राग्न्यॊः सदृशौ रणे
MBh 7.76.25
उद्भिन्न रुधिरौ कृष्णौ भारद्वाजस्य सायकैः
शितैश चितौ वयरॊचेतां कर्णिकारैर इवाचलौ
MBh 7.76.26
दरॊण गराहह्रदान मुक्तौ शक्त्याशीविषसंकटात
अयः शरॊग्रम अकरॊत कषत्रिय परवराम्भसः
MBh 7.76.27
जयाघॊषतलनिर्ह्रादाद गदा निस्त्रिंशविद्युतः
दरॊणास्त्र मेघान निर्मुक्तौ सूर्येन्दू तिमिराद इव
MBh 7.76.28
बाहुभ्याम इव संतीर्णौ सिन्धुषष्ठाः समुद्रगाः
तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः
MBh 7.76.29
इति कृष्णा महेष्वासौ यशसा लॊकविश्रुतौ
सर्वभूतान्य अमन्यन्त दरॊणास्त्र बलविस्मयात
MBh 7.76.30
जयद्रथं समीपस्थम अवेक्षन्तौ जिघांसया
रुरुं निपाने लिप्सन्तौ वयाघ्रवत ताव अतिष्ठताम
MBh 7.76.31
यथा हि मुखवर्णॊ ऽयम अनयॊर इति मेनिरे
तव यॊधा महाराज हतम एव जयद्रथम
MBh 7.76.32
लॊहिताक्षौ महाबाहू संयत्तौ कृष्ण पाण्डवौ
सिन्धुराजम अभिप्रेक्ष्य हृष्टौ वयनदतां मुहुः
MBh 7.76.33
शौरेर अभीशु हस्तस्य पार्थस्य च धनुष्मतः
तयॊर आसीत परतिभ्राजः सूर्यपावकयॊर इव
MBh 7.76.34
हर्ष एव तयॊर आसीद दरॊणानीक परमुक्तयॊः
समीपे सैन्धवं दृष्ट्वा शयेनयॊर आमिषं यथा
MBh 7.76.35
तौ तु सैन्धवम आलॊक्य वर्तमानम इवान्तिके
सहसा पेततुः करुद्धौ कषिप्रं शयेनाव इवामिषे
MBh 7.76.36
तौ तु दृष्ट्वा वयतिक्रान्तौ हृषीकेश धनंजयौ
सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस तव
MBh 7.76.37
दरॊणेनाबद्ध कवचॊ राजा दुर्यॊधनस तदा
ययाव एकरथेनाजौ हयसंस्कारवित परभॊ
MBh 7.76.38
कृष्ण पार्थौ महेष्वासौ वयतिक्रम्याथ ते सुतः
अग्रतः पुण्डरीकाक्षं परतीयाय नराधिप
MBh 7.76.39
ततः सर्वेषु सैन्येषु वादित्राणि परहृष्टवत
परावाद्यन समतिक्रान्ते तव पुत्रे धनंजयम
MBh 7.76.40
सिंहनाद रवाश चासञ शङ्खदुन्दुभिमिश्रिताः
दृष्ट्वा दुर्यॊधनं तत्र कृष्णयॊः परमुखे सथितम
MBh 7.76.41
ये च ते सिन्धुराजस्य गॊप्तारः पावकॊपमाः
ते परहृष्यन्त समरे दृष्ट्वा पुत्रं तवाभिभॊ
MBh 7.76.42
दृष्ट्वा दुर्यॊधनं कृष्णस तव अतिक्रान्तं सहानुगम
अब्रवीद अर्जुनं राजन पराप्तकालम इदं वचः
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 75
- Next chapter · Droṇa-Parva Ch 77 →
🪷 जय व्यास भगवान् 🪷