🪷 Mahābhārata · Droṇa-Parva · Chapter 74

The Book of Droṇa · Parva 7 · 58 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 58 Shlokas

MBh 7.74.1
संजय उवाच परिवर्तमाने त्वादित्ये तत्र सूर्यस्य रश्मिभिः रजसा कीर्यमाणाश्च मन्दीभूताश्च सैनिकाः
MBh 7.74.2
तिष्ठतां युध्यमानानां पुनरावर्ततामपि भज्यतां जयतां चैव जगाम तदहः शनैः
MBh 7.74.3
तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः
MBh 7.74.4
रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः चकार तत्र पन्थानं ययौ येन जनार्दनः
MBh 7.74.5
यत्र यत्र रथो याति पाण्डवस्य महात्मनः तत्र तत्रैव दीर्यन्ते सेनास्तव विशां पते
MBh 7.74.6
रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान् उत्तमाधममध्यानि मण्डलानि विदर्शयन्
MBh 7.74.7
ते तु नामाङ्किताः पीताः कालज्वलनसंनिभाः स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः
MBh 7.74.8
वैणवायस्मयशराः स्वायता विविधाननाः रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे
MBh 7.74.9
रथस्थितः क्रोशमात्रे यानस्यत्यर्जुनः शरान् रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान्
MBh 7.74.10
तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः तथागच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत्
MBh 7.74.11
न तथा गच्छति रथस्तपनस्य विशां पते नेन्द्रस्य न च रुद्रस्य नापि वैश्रवणस्य च
MBh 7.74.12
नान्यस्य समरे राजन्गतपूर्वस्तथा रथः यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः
MBh 7.74.13
प्रविश्य तु रणे राजन्केशवः परवीरहा सेनामध्ये हयांस्तूर्णं चोदयामास भारत
MBh 7.74.14
ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासाश्रमान्विताः
MBh 7.74.15
क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः
MBh 7.74.16
हतानां वाजिनागानां रथानां च नरैः सह उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः
MBh 7.74.17
एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप सहसेनौ समार्छेतां पाण्डवं क्लान्तवाहनम्
MBh 7.74.18
तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम् शराणां च शतेनाश्वानविध्येतां मुदान्वितौ
MBh 7.74.19
तावर्जुनो महाराज नवभिर्नतपर्वभिः आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः
MBh 7.74.20
ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम् आच्छादयेतां संरब्धौ सिंहनादं च नेदतुः
MBh 7.74.21
तयोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः चिच्छेद समरे तूर्णं ध्वजौ च कनकोज्ज्वलौ
MBh 7.74.22
अथान्ये धनुषी राजन्प्रगृह्य समरे तदा पाण्डवं भृशसंक्रुद्धावर्दयामासतुः शरैः
MBh 7.74.23
तयोस्तु भृशसंक्रुद्धः शराभ्यां पाण्डुनन्दनः चिच्छेद धनुषी तूर्णं भूय एव धनंजयः
MBh 7.74.24
तथान्यैर्विशिखैस्तूर्णं हेमपुङ्खैः शिलाशितैः जघानाश्वान्सपदातांस्तथोभौ पार्ष्णिसारथी
MBh 7.74.25
ज्येष्ठस्य च शिरः कायात्क्षुरप्रेण न्यकृन्तत स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः
MBh 7.74.26
विन्दं तु निहतं दृष्ट्वा अनुविन्दः प्रतापवान् हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः
MBh 7.74.27
अभ्यद्रवत संग्रामे भ्रातुर्वधमनुस्मरन् गदया गदिनां श्रेष्ठो नृत्यन्निव महारथः
MBh 7.74.28
अनुविन्दस्तु गदया ललाटे मधुसूदनम् स्पृष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम्
MBh 7.74.29
तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः निचकर्त स संछिन्नः पपाताद्रिचयो यथा
MBh 7.74.30
ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः अभ्यद्रवन्त संक्रुद्धाः किरन्तः शतशः शरान्
MBh 7.74.31
तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये
MBh 7.74.32
तयोः सेनामतिक्रम्य कृच्छ्रान्निर्याद्धनंजयः विबभौ जलदान्भित्त्वा दिवाकर इवोदितः
MBh 7.74.33
तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः अभ्यवर्षंस्तदा पार्थं समन्ताद्भरतर्षभ
MBh 7.74.34
श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम् सिंहनादेन महता सर्वतः पर्यवारयन्
MBh 7.74.35
तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्षभः शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत्
MBh 7.74.36
शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः किमिहानन्तरं कार्यं ज्यायिष्ठं तव रोचते
MBh 7.74.37
ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः
MBh 7.74.38
मम त्वनन्तरं कृत्यं यद्वै तत्संनिबोध मे हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव
MBh 7.74.39
एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम् ममाप्येतन्मतं पार्थ यदिदं ते प्रभाषितम्
MBh 7.74.40
अर्जुन उवाच अहमावारयिष्यामि सर्वसैन्यानि केशव त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम्
MBh 7.74.41
संजय उवाच सोऽवतीर्य रथोपस्थादसंभ्रान्तो धनंजयः गाण्डीवं धनुरादाय तस्थौ गिरिरिवाचलः
MBh 7.74.42
तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनंजयम्
MBh 7.74.43
तमेकं रथवंशेन महता पर्यवारयन् विकर्षन्तश्च चापानि विसृजन्तश्च सायकान्
MBh 7.74.44
अस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन् छादयन्तः शरैः पार्थं मेघा इव दिवाकरम्
MBh 7.74.45
अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम् रथसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः
MBh 7.74.46
तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत्
MBh 7.74.47
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः इषुभिर्बहुभिस्तूर्णं सर्वानेव समावृणोत्
MBh 7.74.48
तत्रान्तरिक्षे बाणानां प्रगाढानां विशां पते संघर्षेण महार्चिष्मान्पावकः समजायत
MBh 7.74.49
तत्र तत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः हयैर्नागैश्च संभिन्नैर्नदद्भिश्चारिकर्शनैः
MBh 7.74.50
संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत
MBh 7.74.51
शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम् पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिस्वनम्
MBh 7.74.52
असंख्येयमपारं च रजोऽऽभीलमतीव च उष्णीषकमठच्छन्नं पताकाफेनमालिनम्
MBh 7.74.53
रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम् वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत्
MBh 7.74.54
ततो जनार्दनः संख्ये प्रियं पुरुषसत्तमम् असंभ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत्
MBh 7.74.55
उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम्
MBh 7.74.56
इदमस्तीत्यसंभ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम् अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम्
MBh 7.74.57
शरवंशं शरस्थूणं शराच्छादनमद्भुतम् शरवेश्माकरोत्पार्थस्त्वष्टेवाद्भुतकर्मकृत्
MBh 7.74.58
ततः प्रहस्य गोविन्दः साधु साध्वित्यथाब्रवीत् शरवेश्मनि पार्थेन कृते तस्मिन्महारणे

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 58 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.74local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷