🪷 Mahābhārata · Droṇa-Parva · Chapter 73

The Book of Droṇa · Parva 7 · 53 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 53 Shlokas

MBh 7.73.1
धृतराष्ट्र उवाच बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते तेन वृष्णिप्रवीरेण युयुधानेन संजय
MBh 7.73.2
अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद्युधि
MBh 7.73.3
संजय उवाच संप्रद्रुतः क्रोधविषो व्यादितास्यशरासनः तीक्ष्णधारेषुदशनः शितनाराचदंष्ट्रवान्
MBh 7.73.4
संरम्भामर्षताम्राक्षो महाहिरिव निःश्वसन् नरवीरप्रमुदितैः शोणैरश्वैर्महाजवैः
MBh 7.73.5
उत्पतद्भिरिवाकाशं क्रमद्भिरिव सर्वतः रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत्
MBh 7.73.6
शरपातमहावर्षं रथघोषबलाहकम् कार्मुकाकर्षविक्षिप्तं नाराचबहुविद्युतम्
MBh 7.73.7
शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम् द्रोणमेघमनावार्यं हयमारुतचोदितम्
MBh 7.73.8
दृष्ट्वैवाभिपतन्तं तं शूरः परपुरंजयः उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः
MBh 7.73.9
एतं वै ब्राह्मणं क्रूरं स्वकर्मण्यनवस्थितम् आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयावहम्
MBh 7.73.10
शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत् आचार्यं राजपुत्राणां सततं शूरमानिनम्
MBh 7.73.11
ततो रजतसंकाशा माधवस्य हयोत्तमाः द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः
MBh 7.73.12
इषुजालावृतं घोरमन्धकारमनन्तरम् अनाधृष्यमिवान्येषां शूराणामभवत्तदा
MBh 7.73.13
ततः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा नान्तरं शरवृष्टीनां दृश्यते नरसिंहयोः
MBh 7.73.14
इषूणां संनिपातेन शब्दो धाराभिघातजः शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः
MBh 7.73.15
नाराचैरतिविद्धानां शराणां रूपमाबभौ आशीविषविदष्टानां सर्पाणामिव भारत
MBh 7.73.16
तयोर्ज्यातलनिर्घोषो व्यश्रूयत सुदारुणः अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव
MBh 7.73.17
उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी रुक्मपुङ्खैः शरैश्छन्नाश्चित्ररूपा बभुस्तदा
MBh 7.73.18
निर्मलानामजिह्मानां नाराचानां विशां पते निर्मुक्ताशीविषाभानां संपातोऽभूत्सुदारुणः
MBh 7.73.19
उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ
MBh 7.73.20
स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ अन्योन्यमभिविध्येतां जीवितान्तकरैः शरैः
MBh 7.73.21
गर्जितोत्क्रुष्टसंनादाः शङ्खदुन्दुभिनिस्वनाः उपारमन्महाराज व्याजहार न कश्चन
MBh 7.73.22
तूष्णींभूतान्यनीकानि योधा युद्धादुपारमन् ददृशे द्वैरथं ताभ्यां जातकौतूहलो जनः
MBh 7.73.23
रथिनो हस्तियन्तारो हयारोहाः पदातयः अवैक्षन्ताचलैर्नेत्रैः परिवार्य रथर्षभौ
MBh 7.73.24
हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम् तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः
MBh 7.73.25
मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः
MBh 7.73.26
वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः
MBh 7.73.27
जातरूपमयीभिश्च राजतीभिश्च मूर्धसु गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत
MBh 7.73.28
सबलाकाः सखद्योताः सैरावतशतह्रदाः अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः
MBh 7.73.29
अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः
MBh 7.73.30
विमानाग्रगता देवा ब्रह्मशक्रपुरोगमाः सिद्धचारणसंघाश्च विद्याधरमहोरगाः
MBh 7.73.31
गतप्रत्यागताक्षेपैश्चित्रैः शस्त्रविघातिभिः विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः
MBh 7.73.32
हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ अन्योन्यं समविध्येतां शरैस्तौ द्रोणसात्यकी
MBh 7.73.33
ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युते
MBh 7.73.34
निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः सज्यं चकार तच्चाशु चिच्छेदास्य स सात्यकिः
MBh 7.73.35
ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत सज्यं सज्यं पुनश्चास्य चिच्छेद निशितैः शरैः
MBh 7.73.36
ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् युयुधानस्य राजेन्द्र मनसेदमचिन्तयत्
MBh 7.73.37
एतदस्त्रबलं रामे कार्तवीर्ये धनंजये भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे
MBh 7.73.38
तं चास्य मनसा द्रोणः पूजयामास विक्रमम् लाघवं वासवस्येव संप्रेक्ष्य द्विजसत्तमः
MBh 7.73.39
तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः न तामालक्षयामासुर्लघुतां शीघ्रकारिणः
MBh 7.73.40
देवाश्च युयुधानस्य गन्धर्वाश्च विशां पते सिद्धचारणसंघाश्च विदुर्द्रोणस्य कर्म तत्
MBh 7.73.41
ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत
MBh 7.73.42
तस्यास्त्राण्यस्त्रमायाभिः प्रतिहन्य स सात्यकिः जघान निशितैर्बाणैस्तदद्भुतमिवाभवत्
MBh 7.73.43
तस्यातिमानुषं कर्म दृष्ट्वान्यैरसमं रणे युक्तं योगेन योगज्ञास्तावकाः समपूजयन्
MBh 7.73.44
यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः तमाचार्योऽप्यसंभ्रान्तोऽयोधयच्छत्रुतापनः
MBh 7.73.45
ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत्
MBh 7.73.46
तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः अस्त्रं दिव्यं महेष्वासो वारुणं समुदैरयत्
MBh 7.73.47
हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ न विचेरुस्तदाकाशे भूतान्याकाशगान्यपि
MBh 7.73.48
अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते न तावदभिषज्येते व्यावर्तदथ भास्करः
MBh 7.73.49
ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम्
MBh 7.73.50
धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः मत्स्याः शाल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा
MBh 7.73.51
दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम्
MBh 7.73.52
ततो युद्धमभूद्राजंस्तव तेषां च धन्विनाम् रजसा संवृते लोके शरजालसमावृते
MBh 7.73.53
सर्वमाविग्नमभवन्न प्राज्ञायत किंचन सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 53 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.73local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷