🪷 Mahābhārata · Droṇa-Parva · Chapter 7

The Book of Droṇa · Parva 7 · 36 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 36 Shlokas

MBh 7.7.1
संजय उवाच तथा द्रोणमभिघ्नन्तं साश्वसूतरथद्विपान् व्यथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन्
MBh 7.7.2
ततो युधिष्ठिरो राजा धृष्टद्युम्नधनंजयौ अब्रवीत्सर्वतो यत्तैः कुम्भयोनिर्निवार्यताम्
MBh 7.7.3
तत्रैनमर्जुनश्चैव पार्षतश्च सहानुगः पर्यगृह्णंस्ततः सर्वे समायान्तं महारथाः
MBh 7.7.4
केकया भीमसेनश्च सौभद्रोऽथ घटोत्कचः युधिष्ठिरो यमौ मत्स्या द्रुपदस्यात्मजास्तथा
MBh 7.7.5
द्रौपदेयाश्च संहृष्टा धृष्टकेतुः ससात्यकिः चेकितानश्च संक्रुद्धो युयुत्सुश्च महारथः
MBh 7.7.6
ये चान्ये पार्थिवा राजन्पाण्डवस्यानुयायिनः कुलवीर्यानुरूपाणि चक्रुः कर्माण्यनेकशः
MBh 7.7.7
संगृह्यमाणां तां दृष्ट्वा पाण्डवैर्वाहिनीं रणे व्यावृत्य चक्षुषी कोपाद्भारद्वाजोऽन्ववैक्षत
MBh 7.7.8
स तीव्रं कोपमास्थाय रथे समरदुर्मदः व्यधमत्पाण्डवानीकमभ्राणीव सदागतिः
MBh 7.7.9
रथानश्वान्नरान्नागानभिधावंस्ततस्ततः चचारोन्मत्तवद्द्रोणो वृद्धोऽपि तरुणो यथा
MBh 7.7.10
तस्य शोणितदिग्धाङ्गाः शोणास्ते वातरंहसः आजानेया हया राजन्नविभ्रान्ताः श्रियं दधुः
MBh 7.7.11
तमन्तकमिव क्रुद्धमापतन्तं यतव्रतम् दृष्ट्वा संप्राद्रवन्योधाः पाण्डवस्य ततस्ततः
MBh 7.7.12
तेषां प्रद्रवतां भीमः पुनरावर्ततामपि वीक्षतां तिष्ठतां चासीच्छब्दः परमदारुणः
MBh 7.7.13
शूराणां हर्षजननो भीरूणां भयवर्धनः द्यावापृथिव्योर्विवरं पूरयामास सर्वतः
MBh 7.7.14
ततः पुनरपि द्रोणो नाम विश्रावयन्युधि अकरोद्रौद्रमात्मानं किरञ्शरशतैः परान्
MBh 7.7.15
स तथा तान्यनीकानि पाण्डवेयस्य धीमतः कालवन्न्यवधीद्द्रोणो युवेव स्थविरो बली
MBh 7.7.16
उत्कृत्य च शिरांस्युग्रो बाहूनपि सभूषणान् कृत्वा शून्यान्रथोपस्थानुदक्रोशन्महारथः
MBh 7.7.17
तस्य हर्षप्रणादेन बाणवेगेन चाभिभो प्राकम्पन्त रणे योधा गावः शीतार्दिता इव
MBh 7.7.18
द्रोणस्य रथघोषेण मौर्वीनिष्पेषणेन च धनुःशब्देन चाकाशे शब्दः समभवन्महान्
MBh 7.7.19
अथास्य बहुशो बाणा निश्चरन्तः सहस्रशः व्याप्य सर्वा दिशः पेतुर्गजाश्वरथपत्तिषु
MBh 7.7.20
तं कार्मुकमहावेगमस्त्रज्वलितपावकम् द्रोणमासादयां चक्रुः पाञ्चालाः पाण्डवैः सह
MBh 7.7.21
तान्वै सरथहस्त्यश्वान्प्राहिणोद्यमसादनम् द्रोणोऽचिरेणाकरोच्च महीं शोणितकर्दमाम्
MBh 7.7.22
तन्वता परमास्त्राणि शरान्सततमस्यता द्रोणेन विहितं दिक्षु बाणजालमदृश्यत
MBh 7.7.23
पदातिषु रथाश्वेषु वारणेषु च सर्वशः तस्य विद्युदिवाभ्रेषु चरन्केतुरदृश्यत
MBh 7.7.24
स केकयानां प्रवरांश्च पञ्च; पाञ्चालराजं च शरैः प्रमृद्य युधिष्ठिरानीकमदीनयोधी; द्रोणोऽभ्ययात्कार्मुकबाणपाणिः
MBh 7.7.25
तं भीमसेनश्च धनंजयश्च; शिनेश्च नप्ता द्रुपदात्मजश्च शैब्यात्मजः काशिपतिः शिबिश्च; हृष्टा नदन्तो व्यकिरञ्शरौघैः
MBh 7.7.26
तेषामथो द्रोणधनुर्विमुक्ताः; पतत्रिणः काञ्चनचित्रपुङ्खाः भित्त्वा शरीराणि गजाश्वयूनां; जग्मुर्महीं शोणितदिग्धवाजाः
MBh 7.7.27
सा योधसंघैश्च रथैश्च भूमिः; शरैर्विभिन्नैर्गजवाजिभिश्च प्रच्छाद्यमाना पतितैर्बभूव; समन्ततो द्यौरिव कालमेघैः
MBh 7.7.28
शैनेयभीमार्जुनवाहिनीपा;ञ्शैब्याभिमन्यू सह काशिराज्ञा अन्यांश्च वीरान्समरे प्रमृद्ना;द्द्रोणः सुतानां तव भूतिकामः
MBh 7.7.29
एतानि चान्यानि च कौरवेन्द्र; कर्माणि कृत्वा समरे महात्मा प्रताप्य लोकानिव कालसूर्यो; द्रोणो गतः स्वर्गमितो हि राजन्
MBh 7.7.30
एवं रुक्मरथः शूरो हत्वा शतसहस्रशः पाण्डवानां रणे योधान्पार्षतेन निपातितः
MBh 7.7.31
अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम् निहत्य पश्चाद्धृतिमानगच्छत्परमां गतिम्
MBh 7.7.32
पाण्डवैः सह पाञ्चालैरशिवैः क्रूरकर्मभिः हतो रुक्मरथो राजन्कृत्वा कर्म सुदुष्करम्
MBh 7.7.33
ततो निनादो भूतानामाकाशे समजायत सैन्यानां च ततो राजन्नाचार्ये निहते युधि
MBh 7.7.34
द्यां धरां खं दिशो वारि प्रदिशश्चानुनादयन् अहो धिगिति भूतानां शब्दः समभवन्महान्
MBh 7.7.35
देवताः पितरश्चैव पूर्वे ये चास्य बान्धवाः ददृशुर्निहतं तत्र भारद्वाजं महारथम्
MBh 7.7.36
पाण्डवास्तु जयं लब्ध्वा सिंहनादान्प्रचक्रिरे तेन नादेन महता समकम्पत मेदिनी

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 36 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.7local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷