🪷 Mahābhārata · Droṇa-Parva · Chapter 6
The Book of Droṇa · Parva 7 · 43 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 43 Shlokas
MBh 7.6.1
संजय उवाच
सेनापत्यं तु संप्राप्य भारद्वाजो महारथः
युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह
MBh 7.6.2
सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः
दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः
MBh 7.6.3
प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः
ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः
MBh 7.6.4
कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः
दुःशासनमुखा यत्ताः सव्यं पार्श्वमपालयन्
MBh 7.6.5
तेषां प्रपक्षाः काम्बोजाः सुदक्षिणपुरःसराः
ययुरश्वैर्महावेगैः शकाश्च यवनैः सह
MBh 7.6.6
मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यवासिनः
शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह
MBh 7.6.7
सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः
तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः
MBh 7.6.8
हर्षयन्सर्वसैन्यानि बलेषु बलमादधत्
ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम्
MBh 7.6.9
तस्य दीप्तो महाकायः स्वान्यनीकानि हर्षयन्
हस्तिकक्ष्यामहाकेतुर्बभौ सूर्यसमद्युतिः
MBh 7.6.10
न भीष्मव्यसनं कश्चिद्दृष्ट्वा कर्णममन्यत
विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह
MBh 7.6.11
हृष्टाश्च बहवो योधास्तत्राजल्पन्त संगताः
न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः
MBh 7.6.12
कर्णो हि समरे शक्तो जेतुं देवान्सवासवान्
किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान्
MBh 7.6.13
भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना
तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यत्यसंशयम्
MBh 7.6.14
एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशां पते
राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः
MBh 7.6.15
अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत्
परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम्
प्रीयमाणेन विहितो धर्मराजेन भारत
MBh 7.6.16
व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ
वानरध्वजमुच्छ्रित्य विष्वक्सेनधनंजयौ
MBh 7.6.17
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम्
आदित्यपथगः केतुः पार्थस्यामिततेजसः
MBh 7.6.18
दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः
यथा प्रज्वलितः सूर्यो युगान्ते वै वसुंधराम्
MBh 7.6.19
अस्यतामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम्
वासुदेवश्च भूतानां चक्राणां च सुदर्शनम्
MBh 7.6.20
चत्वार्येतानि तेजांसि वहञ्श्वेतहयो रथः
परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम्
MBh 7.6.21
एवमेतौ महात्मानौ बलसेनाग्रगावुभौ
तावकानां मुखं कर्णः परेषां च धनंजयः
MBh 7.6.22
ततो जाताभिसंरम्भौ परस्परवधैषिणौ
अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ
MBh 7.6.23
ततः प्रयाते सहसा भारद्वाजे महारथे
अन्तर्नादेन घोरेण वसुधा समकम्पत
MBh 7.6.24
ततस्तुमुलमाकाशमावृणोत्सदिवाकरम्
वातोद्धूतं रजस्तीव्रं कौशेयनिकरोपमम्
MBh 7.6.25
अनभ्रे प्रववर्ष द्यौर्मांसास्थिरुधिराण्युत
गृध्राः श्येना बडाः कङ्का वायसाश्च सहस्रशः
उपर्युपरि सेनां ते तदा पर्यपतन्नृप
MBh 7.6.26
गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान्
अकार्षुरपसव्यं च बहुशः पृतनां तव
चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम्
MBh 7.6.27
अपतद्दीप्यमाना च सनिर्घाता सकम्पना
उल्का ज्वलन्ती संग्रामे पुच्छेनावृत्य सर्वशः
MBh 7.6.28
परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान्
भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ
MBh 7.6.29
एते चान्ये च बहवः प्रादुरासन्सुदारुणाः
उत्पाता युधि वीराणां जीवितक्षयकारकाः
MBh 7.6.30
ततः प्रववृते युद्धं परस्परवधैषिणाम्
कुरुपाण्डवसैन्यानां शब्देनानादयज्जगत्
MBh 7.6.31
ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह
प्रत्यघ्नन्निशितैर्बाणैर्जयगृद्धाः प्रहारिणः
MBh 7.6.32
स पाण्डवानां महतीं महेष्वासो महाद्युतिः
वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः
MBh 7.6.33
द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः
प्रत्यगृह्णंस्तदा राजञ्शरवर्षैः पृथक्पृथक्
MBh 7.6.34
संक्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः
व्यशीर्यत सपाञ्चाला वातेनेव बलाहकाः
MBh 7.6.35
बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे
अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान्
MBh 7.6.36
ते वध्यमाना द्रोणेन वासवेनेव दानवाः
पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः
MBh 7.6.37
ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः
अभिनच्छरवर्षेण द्रोणानीकमनेकधा
MBh 7.6.38
द्रोणस्य शरवर्षैस्तु शरवर्षाणि भागशः
संनिवार्य ततः सेनां कुरूनप्यवधीद्बली
MBh 7.6.39
संहृत्य तु ततो द्रोणः समवस्थाप्य चाहवे
स्वमनीकं महाबाहुः पार्षतं समुपाद्रवत्
MBh 7.6.40
स बाणवर्षं सुमहदसृजत्पार्षतं प्रति
मघवान्समभिक्रुद्धः सहसा दानवेष्विव
MBh 7.6.41
ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः
पुनः पुनरभज्यन्त सिंहेनेवेतरे मृगाः
MBh 7.6.42
अथ पर्यपतद्द्रोणः पाण्डवानां बलं बली
अलातचक्रवद्राजंस्तदद्भुतमिवाभवत्
MBh 7.6.43
खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या; चलदनिलपताकं ह्रादिनं वल्गिताश्वम्
स्फटिकविमलकेतुं तापनं शात्रवाणां; रथवरमधिरूढः संजहारारिसेनाम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 5
- Next chapter · Droṇa-Parva Ch 7 →
Sources and Connected Readings
Continue from these 43 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.6local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷