🪷 Mahābhārata · Droṇa-Parva · Chapter 57
The Book of Droṇa · Parva 7 · 81 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 81 Shlokas
MBh 7.57.1
संजय उवाच
कुन्तीपुत्रस्तु तं मन्त्रं स्मरन्नेव धनंजयः
प्रतिज्ञामात्मनो रक्षन्मुमोहाचिन्त्यविक्रमः
MBh 7.57.2
तं तु शोकेन संतप्तं स्वप्ने कपिवरध्वजम्
आससाद महातेजा ध्यायन्तं गरुडध्वजः
MBh 7.57.3
प्रत्युत्थानं तु कृष्णस्य सर्वावस्थं धनंजयः
नालोपयत धर्मात्मा भक्त्या प्रेम्णा च सर्वदा
MBh 7.57.4
प्रत्युत्थाय च गोविन्दं स तस्मायासनं ददौ
न चासने स्वयं बुद्धिं बीभत्सुर्व्यदधात्तदा
MBh 7.57.5
ततः कृष्णो महातेजा जानन्पार्थस्य निश्चयम्
कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमब्रवीत्
MBh 7.57.6
मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः
कालः सर्वाणि भूतानि नियच्छति परे विधौ
MBh 7.57.7
किमर्थं च विषादस्ते तद्ब्रूहि वदतां वर
न शोचितव्यं विदुषा शोकः कार्यविनाशनः
MBh 7.57.8
शोचन्नन्दयते शत्रून्कर्शयत्यपि बान्धवान्
क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि
MBh 7.57.9
इत्युक्तो वासुदेवेन बीभत्सुरपराजितः
आबभाषे तदा विद्वानिदं वचनमर्थवत्
MBh 7.57.10
मया प्रतिज्ञा महती जयद्रथवधे कृता
श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव
MBh 7.57.11
मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत
पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः
MBh 7.57.12
दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः
प्रतिज्ञायां च हीनायां कथं जीवेत मद्विधः
MBh 7.57.13
दुःखोपायस्य मे वीर विकाङ्क्षा परिवर्तते
द्रुतं च याति सविता तत एतद्ब्रवीम्यहम्
MBh 7.57.14
शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः
संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखः समवस्थितः
MBh 7.57.15
इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः
हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे वृतः
MBh 7.57.16
पार्थ पाशुपतं नाम परमास्त्रं सनातनम्
येन सर्वान्मृधे दैत्याञ्जघ्ने देवो महेश्वरः
MBh 7.57.17
यदि तद्विदितं तेऽद्य श्वो हन्तासि जयद्रथम्
अथ ज्ञातुं प्रपद्यस्व मनसा वृषभध्वजम्
MBh 7.57.18
तं देवं मनसा ध्यायञ्जोषमास्स्व धनंजय
ततस्तस्य प्रसादात्त्वं भक्तः प्राप्स्यसि तन्महत्
MBh 7.57.19
ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनंजयः
भूमावासीन एकाग्रो जगाम मनसा भवम्
MBh 7.57.20
ततः प्रणिहिते ब्राह्मे मुहूर्ते शुभलक्षणे
आत्मानमर्जुनोऽपश्यद्गगने सहकेशवम्
MBh 7.57.21
ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम्
वायुवेगगतिः पार्थः खं भेजे सहकेशवः
MBh 7.57.22
केशवेन गृहीतः स दक्षिणे विभुना भुजे
प्रेक्षमाणो बहून्भावाञ्जगामाद्भुतदर्शनान्
MBh 7.57.23
उदीच्यां दिशि धर्मात्मा सोऽपश्यच्छ्वेतपर्वतम्
कुबेरस्य विहारे च नलिनीं पद्मभूषिताम्
MBh 7.57.24
सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो बहूदकाम्
सदापुष्पफलैर्वृक्षैरुपेतां स्फटिकोपलाम्
MBh 7.57.25
सिंहव्याघ्रसमाकीर्णां नानामृगगणाकुलाम्
पुण्याश्रमवतीं रम्यां मनोज्ञाण्डजसेविताम्
MBh 7.57.26
मन्दरस्य प्रदेशांश्च किंनरोद्गीतनादितान्
हेमरूप्यमयैः शृङ्गैर्नानौषधिविदीपितान्
तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान्
MBh 7.57.27
स्निग्धाञ्जनचयाकारं संप्राप्तः कालपर्वतम्
पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम्
ब्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि
MBh 7.57.28
सुशृङ्गं शतशृङ्गं च शर्यातिवनमेव च
पुण्यमश्वशिरःस्थानं स्थानमाथर्वणस्य च
MBh 7.57.29
वृषदंशं च शैलेन्द्रं महामन्दरमेव च
अप्सरोभिः समाकीर्णं किंनरैश्चोपशोभितम्
MBh 7.57.30
तांश्च शैलान्व्रजन्पार्थः प्रेक्षते सहकेशवः
शुभैः प्रस्रवणैर्जुष्टान्हेमधातुविभूषितान्
MBh 7.57.31
चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम्
समुद्रांश्चाद्भुताकारानपश्यद्बहुलाकरान्
MBh 7.57.32
वियद्द्यां पृथिवीं चैव पश्यन्विष्णुपदे व्रजन्
विस्मितः सह कृष्णेन क्षिप्तो बाण इवात्यगात्
MBh 7.57.33
ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम्
अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम्
MBh 7.57.34
समासाद्य तु तं शैलं शैलाग्रे समवस्थितम्
तपोनित्यं महात्मानमपश्यद्वृषभध्वजम्
MBh 7.57.35
सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा
शूलिनं जटिलं गौरं वल्कलाजिनवाससम्
MBh 7.57.36
नयनानां सहस्रैश्च विचित्राङ्गं महौजसम्
पार्वत्या सहितं देवं भूतसंघैश्च भास्वरैः
MBh 7.57.37
गीतवादित्रसंह्रादैस्ताललास्यसमन्वितम्
वल्गितास्फोटितोत्क्रुष्टैः पुण्यगन्धैश्च सेवितम्
MBh 7.57.38
स्तूयमानं स्तवैर्दिव्यैर्मुनिभिर्ब्रह्मवादिभिः
गोप्तारं सर्वभूतानामिष्वासधरमच्युतम्
MBh 7.57.39
वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम्
पार्थेन सह धर्मात्मा गृणन्ब्रह्म सनातनम्
MBh 7.57.40
लोकादिं विश्वकर्माणमजमीशानमव्ययम्
मनसः परमां योनिं खं वायुं ज्योतिषां निधिम्
MBh 7.57.41
स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम्
देवदानवयक्षाणां मानवानां च साधनम्
MBh 7.57.42
योगिनां परमं ब्रह्म व्यक्तं ब्रह्मविदां निधिम्
चराचरस्य स्रष्टारं प्रतिहर्तारमेव च
MBh 7.57.43
कालकोपं महात्मानं शक्रसूर्यगुणोदयम्
अवन्दत तदा कृष्णो वाङ्मनोबुद्धिकर्मभिः
MBh 7.57.44
यं प्रपश्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः
तमजं कारणात्मानं जग्मतुः शरणं भवम्
MBh 7.57.45
अर्जुनश्चापि तं देवं भूयो भूयोऽभ्यवन्दत
ज्ञात्वैकं भूतभव्यादिं सर्वभूतभवोद्भवम्
MBh 7.57.46
ततस्तावागतौ शर्वः प्रोवाच प्रहसन्निव
स्वागतं वां नरश्रेष्ठावुत्तिष्ठेतां गतक्लमौ
किं च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम्
MBh 7.57.47
येन कार्येण संप्राप्तौ युवां तत्साधयामि वाम्
व्रियतामात्मनः श्रेयस्तत्सर्वं प्रददानि वाम्
MBh 7.57.48
ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली
वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती
MBh 7.57.49
नमो भवाय शर्वाय रुद्राय वरदाय च
पशूनां पतये नित्यमुग्राय च कपर्दिने
MBh 7.57.50
महादेवाय भीमाय त्र्यम्बकाय च शंभवे
ईशानाय भगघ्नाय नमोऽस्त्वन्धकघातिने
MBh 7.57.51
कुमारगुरवे नित्यं नीलग्रीवाय वेधसे
विलोहिताय धूम्राय व्याधायानपराजिते
MBh 7.57.52
नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे
हन्त्रे गोप्त्रे त्रिनेत्राय व्याधाय वसुरेतसे
MBh 7.57.53
अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च
वृषध्वजाय पिङ्गाय जटिने ब्रह्मचारिणे
MBh 7.57.54
तप्यमानाय सलिले ब्रह्मण्यायाजिताय च
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते
MBh 7.57.55
नमो नमस्ते सेव्याय भूतानां प्रभवे सदा
ब्रह्मवक्त्राय शर्वाय शंकराय शिवाय च
MBh 7.57.56
नमोऽस्तु वाचस्पतये प्रजानां पतये नमः
नमो विश्वस्य पतये महतां पतये नमः
MBh 7.57.57
नमः सहस्रशिरसे सहस्रभुजमन्यवे
सहस्रनेत्रपादाय नमोऽसंख्येयकर्मणे
MBh 7.57.58
नमो हिरण्यवर्णाय हिरण्यकवचाय च
भक्तानुकम्पिने नित्यं सिध्यतां नौ वरः प्रभो
MBh 7.57.59
एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः
प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये
MBh 7.57.60
ततोऽर्जुनः प्रीतमना ववन्दे वृषभध्वजम्
ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम्
MBh 7.57.61
तं चोपहारं स्वकृतं नैशं नैत्यकमात्मनः
ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम्
MBh 7.57.62
ततोऽभिपूज्य मनसा शर्वं कृष्णं च पाण्डवः
इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शंकरम्
MBh 7.57.63
ततः पार्थस्य विज्ञाय वरार्थे वचनं प्रभुः
वासुदेवार्जुनौ देवः स्मयमानोऽभ्यभाषत
MBh 7.57.64
सरोऽमृतमयं दिव्यमभ्याशे शत्रुसूदनौ
तत्र मे तद्धनुर्दिव्यं शरश्च निहितः पुरा
MBh 7.57.65
येन देवारयः सर्वे मया युधि निपातिताः
तत आनीयतां कृष्णौ सशरं धनुरुत्तमम्
MBh 7.57.66
तथेत्युक्त्वा तु तौ वीरौ तं शर्वं पार्षदैः सह
प्रस्थितौ तत्सरो दिव्यं दिव्याश्चर्यशतैर्वृतम्
MBh 7.57.67
निर्दिष्टं यद्वृषाङ्केन पुण्यं सर्वार्थसाधकम्
तज्जग्मतुरसंभ्रान्तौ नरनारायणावृषी
MBh 7.57.68
ततस्तु तत्सरो गत्वा सूर्यमण्डलसंनिभम्
नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ
MBh 7.57.69
द्वितीयं चापरं नागं सहस्रशिरसं वरम्
वमन्तं विपुलां ज्वालां ददृशातेऽग्निवर्चसम्
MBh 7.57.70
ततः कृष्णश्च पार्थश्च संस्पृश्यापः कृताञ्जली
तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम्
MBh 7.57.71
गृणन्तौ वेदविदुषौ तद्ब्रह्म शतरुद्रियम्
अप्रमेयं प्रणमन्तौ गत्वा सर्वात्मना भवम्
MBh 7.57.72
ततस्तौ रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ
धनुर्बाणश्च शत्रुघ्नं तद्द्वंद्वं समपद्यत
MBh 7.57.73
ततो जगृहतुः प्रीतौ धनुर्बाणं च सुप्रभम्
आजह्रतुर्महात्मानौ ददतुश्च महात्मने
MBh 7.57.74
ततः पार्श्वाद्वृषाङ्कस्य ब्रह्मचारी न्यवर्तत
पिङ्गाक्षस्तपसः क्षेत्रं बलवान्नीललोहितः
MBh 7.57.75
स तद्गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः
व्यकर्षच्चापि विधिवत्सशरं धनुरुत्तमम्
MBh 7.57.76
तस्य मौर्वीं च मुष्टिं च स्थानं चालक्ष्य पाण्डवः
श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः
MBh 7.57.77
सरस्येव च तं बाणं मुमोचातिबलः प्रभुः
चकार च पुनर्वीरस्तस्मिन्सरसि तद्धनुः
MBh 7.57.78
ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा
वरमारण्यकं दत्तं दर्शनं शंकरस्य च
मनसा चिन्तयामास तन्मे संपद्यतामिति
MBh 7.57.79
तस्य तन्मतमाज्ञाय प्रीतः प्रादाद्वरं भवः
तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम्
MBh 7.57.80
संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत
ववन्दतुश्च संहृष्टौ शिरोभ्यां तौ महेश्वरम्
MBh 7.57.81
अनुज्ञातौ क्षणे तस्मिन्भवेनार्जुनकेशवौ
प्राप्तौ स्वशिबिरं वीरौ मुदा परमया युतौ
इन्द्राविष्णू यथा प्रीतौ जम्भस्य वधकाङ्क्षिणौ
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 56
- Next chapter · Droṇa-Parva Ch 58 →
Sources and Connected Readings
Continue from these 81 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.57local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷