🪷 Mahābhārata · Droṇa-Parva · Chapter 56

The Book of Droṇa · Parva 7 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 41 Shlokas

MBh 7.56.1
संजय उवाच ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे संतस्तार शुभां शय्यां दर्भैर्वैडूर्यसंनिभैः
MBh 7.56.2
ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः अलंचकार तां शय्यां परिवार्यायुधोत्तमैः
MBh 7.56.3
ततः स्पृष्टोदकं पार्थं विनीताः परिचारकाः दर्शयां नैत्यकं चक्रुर्नैशं त्रैयम्बकं बलिम्
MBh 7.56.4
ततः प्रीतमनाः पार्थो गन्धैर्माल्यैश्च माधवम् अलंकृत्योपहारं तं नैशमस्मै न्यवेदयत्
MBh 7.56.5
स्मयमानस्तु गोविन्दः फल्गुनं प्रत्यभाषत सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्यहम्
MBh 7.56.6
स्थापयित्वा ततो द्वाःस्थान्गोप्तॄंश्चात्तायुधान्नरान् दारुकानुगतः श्रीमान्विवेश शिबिरं स्वकम् शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन्
MBh 7.56.7
न पाण्डवानां शिबिरे कश्चित्सुष्वाप तां निशाम् प्रजागरः सर्वजनमाविवेश विशां पते
MBh 7.56.8
पुत्रशोकाभिभूतेन प्रतिज्ञातो महात्मना सहसा सिन्धुराजस्य वधो गाण्डीवधन्वना
MBh 7.56.9
तत्कथं नु महाबाहुर्वासविः परवीरहा प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन्
MBh 7.56.10
कष्टं हीदं व्यवसितं पाण्डवेन महात्मना पुत्रशोकाभितप्तेन प्रतिज्ञा महती कृता
MBh 7.56.11
भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च धृतराष्ट्रस्य पुत्रेण सर्वं तस्मै निवेदितम्
MBh 7.56.12
स हत्वा सैन्धवं संख्ये पुनरेतु धनंजयः जित्वा रिपुगणांश्चैव पारयत्वर्जुनो व्रतम्
MBh 7.56.13
अहत्वा सिन्धुराजं हि धूमकेतुं प्रवेक्ष्यति न ह्येतदनृतं कर्तुमर्हः पार्थो धनंजयः
MBh 7.56.14
धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने तस्मिन्हि विजयः कृत्स्नः पाण्डवेन समाहितः
MBh 7.56.15
यदि नः सुकृतं किंचिद्यदि दत्तं हुतं यदि फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन्
MBh 7.56.16
एवं कथयतां तेषां जयमाशंसतां प्रभो कृच्छ्रेण महता राजन्रजनी व्यत्यवर्तत
MBh 7.56.17
तस्यां रजन्यां मध्ये तु प्रतिबुद्धो जनार्दनः स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत
MBh 7.56.18
अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना जयद्रथं हनिष्यामि श्वोभूत इति दारुक
MBh 7.56.19
तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति यथा जयद्रथं पार्थो न हन्यादिति संयुगे
MBh 7.56.20
अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम् द्रोणश्च सह पुत्रेण सर्वास्त्रविधिपारगः
MBh 7.56.21
एको वीरः सहस्राक्षो दैत्यदानवमर्दिता सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम्
MBh 7.56.22
सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम्
MBh 7.56.23
न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः कश्चिन्नान्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात्
MBh 7.56.24
अनर्जुनमिमं लोकं मुहूर्तमपि दारुक उदीक्षितुं न शक्तोऽहं भविता न च तत्तथा
MBh 7.56.25
अहं ध्वजिन्यः शत्रूणां सहयाः सरथद्विपाः अर्जुनार्थे हनिष्यामि सकर्णाः ससुयोधनाः
MBh 7.56.26
श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे धनंजयार्थं समरे पराक्रान्तस्य दारुक
MBh 7.56.27
श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च साश्वद्विपरथान्याजौ विद्रविष्यन्ति दारुक
MBh 7.56.28
श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम् मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम्
MBh 7.56.29
श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः
MBh 7.56.30
यस्तं द्वेष्टि स मां द्वेष्टि यस्तमनु स मामनु इति संकल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः
MBh 7.56.31
यथा त्वमप्रभातायामस्यां निशि रथोत्तमम् कल्पयित्वा यथाशास्त्रमादाय व्रतसंयतः
MBh 7.56.32
गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान् आरोप्य वै रथे सूत सर्वोपकरणानि च
MBh 7.56.33
स्थानं हि कल्पयित्वा च रथोपस्थे ध्वजस्य मे वैनतेयस्य वीरस्य समरे रथशोभिनः
MBh 7.56.34
छत्रं जाम्बूनदैर्जालैरर्कज्वलनसंनिभैः विश्वकर्मकृतैर्दिव्यैरश्वानपि च भूषितान्
MBh 7.56.35
बलाहकं मेघपुष्पं सैन्यं सुग्रीवमेव च युक्त्वा वाजिवरान्यत्तः कवची तिष्ठ दारुक
MBh 7.56.36
पाञ्चजन्यस्य निर्घोषमार्षभेणैव पूरितम् श्रुत्वा तु भैरवं नादमुपयाया जवेन माम्
MBh 7.56.37
एकाह्नाहममर्षं च सर्वदुःखानि चैव ह भ्रातुः पितृष्वसेयस्य व्यपनेष्यामि दारुक
MBh 7.56.38
सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम्
MBh 7.56.39
यस्य यस्य च बीभत्सुर्वधे यत्नं करिष्यति आशंसे सारथे तत्र भवितास्य ध्रुवो जयः
MBh 7.56.40
दारुक उवाच जय एव ध्रुवस्तस्य कुत एव पराजयः यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान्
MBh 7.56.41
एवं चैतत्करिष्यामि यथा मामनुशाससि सुप्रभातामिमां रात्रिं जयाय विजयस्य हि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 41 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.56local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷