🪷 Mahābhārata · Droṇa-Parva · Chapter 31

The Book of Droṇa · Parva 7 · 77 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 77 Shlokas

MBh 7.31.1
संजय उवाच प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः सोऽभिनद्बाह्लिकं षष्ट्या कर्णं च दशभिः शरैः
MBh 7.31.2
तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरयस्मयैः जीवितान्तमभिप्रेप्सुर्मर्मण्याशु जघान ह
MBh 7.31.3
कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः षड्भिर्दुर्योधनो राजा तत एनमवाकिरत्
MBh 7.31.4
भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः
MBh 7.31.5
दुर्योधनं द्वादशभिर्द्रौणिं चाष्टाभिराशुगैः आरावं तुमुलं कुर्वन्नभ्यवर्तत तान्रणे
MBh 7.31.6
तस्मिन्संत्यजति प्राणान्मृत्युसाधारणीकृते अजातशत्रुस्तान्योधान्भीमं त्रातेत्यचोदयत्
MBh 7.31.7
ते ययुर्भीमसेनस्य समीपममितौजसः युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ
MBh 7.31.8
ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः महेष्वासवरैर्गुप्तं द्रोणानीकं बिभित्सवः
MBh 7.31.9
समापेतुर्महावीर्या भीमप्रभृतयो रथाः तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः
MBh 7.31.10
महाबलानतिरथान्वीरान्समरशोभिनः बाह्यं मृत्युभयं कृत्वा तावकाः पाण्डवान्ययुः
MBh 7.31.11
सादिनः सादिनोऽभ्यघ्नंस्तथैव रथिनो रथान् आसीच्छक्त्यसिसंपातो युद्धमासीत्परश्वधैः
MBh 7.31.12
निकृष्टमसियुद्धं च बभूव कटुकोदयम् कुञ्जराणां च संघातैर्युद्धमासीत्सुदारुणम्
MBh 7.31.13
अपतत्कुञ्जरादन्यो हयादन्यस्त्ववाक्शिराः नरो बाणेन निर्भिन्नो रथादन्यश्च मारिष
MBh 7.31.14
तत्रान्यस्य च संमर्दे पतितस्य विवर्मणः शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः
MBh 7.31.15
अपरेऽप्यपराञ्जघ्नुर्वारणाः पतितान्नरान् विषाणैश्चावनिं गत्वा व्यभिन्दन्रथिनो बहून्
MBh 7.31.16
नरान्त्रैः केचिदपरे विषाणालग्नसंस्रवैः बभ्रमुः शतशो नागा मृद्नन्तः शतशो नरान्
MBh 7.31.17
कांस्यायसतनुत्राणान्नराश्वरथकुञ्जरान् पतितान्पोथयां चक्रुर्द्विपाः स्थूलनडानिव
MBh 7.31.18
गृध्रपत्राधिवासांसि शयनानि नराधिपाः ह्रीमन्तः कालसंपक्वाः सुदुःखान्यधिशेरते
MBh 7.31.19
हन्ति स्मात्र पिता पुत्रं रथेनाभ्यतिवर्तते पुत्रश्च पितरं मोहान्निर्मर्यादमवर्तत
MBh 7.31.20
अक्षो भग्नो ध्वजश्छिन्नश्छत्रमुर्व्यां निपातितम् युगार्धं छिन्नमादाय प्रदुद्राव तथा हयः
MBh 7.31.21
सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम् गजेनाक्षिप्य बलिना रथः संचूर्णितः क्षितौ
MBh 7.31.22
रथिना ताडितो नागो नाराचेनापतद्व्यसुः सारोहश्चापतद्वाजी गजेनाताडितो भृशम्
MBh 7.31.23
निर्मर्यादं महद्युद्धमवर्तत सुदारुणम् हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि
MBh 7.31.24
प्रहराहर जह्येनं स्मितक्ष्वेडितगर्जितैः इत्येवमुच्चरन्त्यः स्म श्रूयन्ते विविधा गिरः
MBh 7.31.25
नरस्याश्वस्य नागस्य समसज्जत शोणितम् उपाशाम्यद्रजो भौमं भीरून्कश्मलमाविशत्
MBh 7.31.26
आसीत्केशपरामर्शो मुष्टियुद्धं च दारुणम् नखैर्दन्तैश्च शूराणामद्वीपे द्वीपमिच्छताम्
MBh 7.31.27
तत्राच्छिद्यत वीरस्य सखड्गो बाहुरुद्यतः सधनुश्चापरस्यापि सशरः साङ्कुशस्तथा
MBh 7.31.28
प्राक्रोशदन्यमन्योऽत्र तथान्यो विमुखोऽद्रवत् अन्यः प्राप्तस्य चान्यस्य शिरः कायादपाहरत्
MBh 7.31.29
शब्दमभ्यद्रवच्चान्यः शब्दादन्योऽद्रवद्भृशम् स्वानन्योऽथ परानन्यो जघान निशितैः शरैः
MBh 7.31.30
गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे
MBh 7.31.31
तथैव रथिनं नागः क्षरन्गिरिरिवारुजत् अध्यतिष्ठत्पदा भूमौ सहाश्वं सहसारथिम्
MBh 7.31.32
शूरान्प्रहरतो दृष्ट्वा कृतास्त्रान्रुधिरोक्षितान् बहूनप्याविशन्मोहो भीरून्हृदयदुर्बलान्
MBh 7.31.33
सर्वमाविग्नमभवन्न प्राज्ञायत किंचन सैन्ये च रजसा ध्वस्ते निर्मर्यादमवर्तत
MBh 7.31.34
ततः सेनापतिः शीघ्रमयं काल इति ब्रुवन् नित्याभित्वरितानेव त्वरयामास पाण्डवान्
MBh 7.31.35
कुर्वन्तः शासनं तस्य पाण्डवेया यशस्विनः सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति
MBh 7.31.36
गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति
MBh 7.31.37
ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः विन्दानुविन्दावावन्त्यौ शल्यश्चैनानवारयन्
MBh 7.31.38
ते त्वार्यधर्मसंरब्धा दुर्निवार्या दुरासदाः शरार्ता न जहुर्द्रोणं पाञ्चालाः पाण्डवैः सह
MBh 7.31.39
ततो द्रोणोऽभिसंक्रुद्धो विसृजञ्शतशः शरान् चेदिपाञ्चालपाण्डूनामकरोत्कदनं महत्
MBh 7.31.40
तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षु मारिष वज्रसंघातसंकाशस्त्रासयन्पाण्डवान्बहून्
MBh 7.31.41
एतस्मिन्नन्तरे जिष्णुर्हत्वा संशप्तकान्बली अभ्ययात्तत्र यत्र स्म द्रोणः पाण्डून्प्रमर्दति
MBh 7.31.42
तं शरौघमहावर्तं शोणितोदं महाह्रदम् तीर्णः संशप्तकान्हत्वा प्रत्यदृश्यत फल्गुनः
MBh 7.31.43
तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः दीप्यमानमपश्याम तेजसा वानरध्वजम्
MBh 7.31.44
संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः स पाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत्
MBh 7.31.45
प्रददाह कुरून्सर्वानर्जुनः शस्त्रतेजसा युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः
MBh 7.31.46
तेन बाणसहस्रौघैर्गजाश्वरथयोधिनः ताड्यमानाः क्षितिं जग्मुर्मुक्तशस्त्राः शरार्दिताः
MBh 7.31.47
केचिदार्तस्वरं चक्रुर्विनेदुरपरे पुनः पार्थबाणहताः केचिन्निपेतुर्विगतासवः
MBh 7.31.48
तेषामुत्पततां कांश्चित्पतितांश्च पराङ्मुखान् न जघानार्जुनो योधान्योधव्रतमनुस्मरन्
MBh 7.31.49
ते विशीर्णरथाश्वेभाः प्रायशश्च पराङ्मुखाः कुरवः कर्ण कर्णेति हा हेति च विचुक्रुशुः
MBh 7.31.50
तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम् मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम्
MBh 7.31.51
स भारतरथश्रेष्ठः सर्वभारतहर्षणः प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वरः
MBh 7.31.52
तस्य दीप्तशरौघस्य दीप्तचापधरस्य च शरौघाञ्शरजालेन विदुधाव धनंजयः अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजञ्शरान्
MBh 7.31.53
धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः
MBh 7.31.54
अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः तेषां त्रयाणां चापानि चिच्छेद विशिखैस्त्रिभिः
MBh 7.31.55
ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन्
MBh 7.31.56
ता भुजाग्रैर्महावेगा विसृष्टा भुजगोपमाः दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति
MBh 7.31.57
ता निकृत्य शितैर्बाणैस्त्रिभिस्त्रिभिरजिह्मगैः ननाद बलवान्कर्णः पार्थाय विसृजञ्शरान्
MBh 7.31.58
अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः कर्णादवरजं बाणैर्जघान निशितैस्त्रिभिः
MBh 7.31.59
ततः शत्रुंजयं हत्वा पार्थः षड्भिरजिह्मगैः जहार सद्यो भल्लेन विपाटस्य शिरो रथात्
MBh 7.31.60
पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः
MBh 7.31.61
ततो भीमः समुत्पत्य स्वरथाद्वैनतेयवत् वरासिना कर्णपक्षाञ्जघान दश पञ्च च
MBh 7.31.62
पुनः स्वरथमास्थाय धनुरादाय चापरम् विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः
MBh 7.31.63
धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम् जघान चन्द्रवर्माणं बृहत्क्षत्रं च पौरवम्
MBh 7.31.64
ततः स्वरथमास्थाय पाञ्चाल्योऽन्यच्च कार्मुकम् आदाय कर्णं विव्याध त्रिसप्तत्या नदन्रणे
MBh 7.31.65
शैनेयोऽप्यन्यदादाय धनुरिन्द्रायुधद्युति सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत्
MBh 7.31.66
भल्लभ्यां साधुमुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम् पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्
MBh 7.31.67
ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः निमज्जमानं राधेयमुज्जह्रुः सात्यकार्णवात्
MBh 7.31.68
धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च नकुलः सहदेवश्च सात्यकिं जुगुपू रणे
MBh 7.31.69
एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम् तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः
MBh 7.31.70
पदातिरथनागाश्वैर्गजाश्वरथपत्तयः रथिनो नागपत्त्यश्वै रथपत्ती रथद्विपैः
MBh 7.31.71
अश्वैरश्वा गजैर्नागा रथिनो रथिभिः सह संसक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः
MBh 7.31.72
एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम् महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम्
MBh 7.31.73
ततो हता नररथवाजिकुञ्जरै;रनेकशो द्विपरथवाजिपत्तयः गजैर्गजा रथिभिरुदायुधा रथा; हयैर्हयाः पत्तिगणैश्च पत्तयः
MBh 7.31.74
रथैर्द्विपा द्विरदवरैर्महाहया; हयैर्नरा वररथिभिश्च वाजिनः निरस्तजिह्वादशनेक्षणाः क्षितौ; क्षयं गताः प्रमथितवर्मभूषणाः
MBh 7.31.75
तथा परैर्बहुकरणैर्वरायुधै;र्हता गताः प्रतिभयदर्शनाः क्षितिम् विपोथिता हयगजपादताडिता; भृशाकुला रथखुरनेमिभिर्हताः
MBh 7.31.76
प्रमोदने श्वापदपक्षिरक्षसां; जनक्षये वर्तति तत्र दारुणे महाबलास्ते कुपिताः परस्परं; निषूदयन्तः प्रविचेरुरोजसा
MBh 7.31.77
ततो बले भृशलुलिते परस्परं; निरीक्षमाणे रुधिरौघसंप्लुते दिवाकरेऽस्तंगिरिमास्थिते शनै;रुभे प्रयाते शिबिराय भारत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 77 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.31local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷