🪷 Mahābhārata · Droṇa-Parva · Chapter 32

The Book of Droṇa · Parva 7 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 26 Shlokas

MBh 7.32.1
संजय उवाच पूर्वमस्मासु भग्नेषु फल्गुनेनामितौजसा द्रोणे च मोघसंकल्पे रक्षिते च युधिष्ठिरे
MBh 7.32.2
सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश
MBh 7.32.3
अवहारं ततः कृत्वा भारद्वाजस्य संमते लब्धलक्ष्यैः परैर्दीना भृशावहसिता रणे
MBh 7.32.4
श्लाघमानेषु भूतेषु फल्गुनस्यामितान्गुणान् केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति अभिशस्ता इवाभूवन्ध्यानमूकत्वमास्थिताः
MBh 7.32.5
ततः प्रभातसमये द्रोणं दुर्योधनोऽब्रवीत् प्रणयादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः शृण्वतां सर्वभूतानां संरब्धो वाक्यकोविदः
MBh 7.32.6
नूनं वयं वध्यपक्षे भवतो ब्रह्मवित्तम तथा हि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम्
MBh 7.32.7
इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः
MBh 7.32.8
वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथंचन
MBh 7.32.9
ततोऽप्रीतस्तथोक्तः स भारद्वाजोऽब्रवीन्नृपम् नार्हसे मान्यथा ज्ञातुं घटमानं तव प्रिये
MBh 7.32.10
ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः नालं लोका रणे जेतुं पाल्यमानं किरीटिना
MBh 7.32.11
विश्वसृग्यत्र गोविन्दः पृतनारिस्तथार्जुनः तत्र कस्य बलं क्रामेदन्यत्र त्र्यम्बकात्प्रभोः
MBh 7.32.12
सत्यं तु ते ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत् अद्यैषां प्रवरं वीरं पातयिष्ये महारथम्
MBh 7.32.13
तं च व्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि योगेन केनचिद्राजन्नर्जुनस्त्वपनीयताम्
MBh 7.32.14
न ह्यज्ञातमसाध्यं वा तस्य संख्येऽस्ति किंचन तेन ह्युपात्तं बलवत्सर्वज्ञानमितस्ततः
MBh 7.32.15
द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः आह्वयन्नर्जुनं संख्ये दक्षिणामभितो दिशम्
MBh 7.32.16
तत्रार्जुनस्याथ परैः सार्धं समभवद्रणः तादृशो यादृशो नान्यः श्रुतो दृष्टोऽपि वा क्वचित्
MBh 7.32.17
ततो द्रोणेन विहितो राजन्व्यूहो व्यरोचत चरन्मध्यंदिने सूर्यः प्रतपन्निव दुर्दृशः
MBh 7.32.18
तं चाभिमन्युर्वचनात्पितुर्ज्येष्ठस्य भारत बिभेद दुर्भिदं संख्ये चक्रव्यूहमनेकधा
MBh 7.32.19
स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः
MBh 7.32.20
वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः सौभद्रे निहते राजन्नवहारमकुर्वत
MBh 7.32.21
धृतराष्ट्र उवाच पुत्रं पुरुषसिंहस्य संजयाप्राप्तयौवनम् रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः
MBh 7.32.22
दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन्
MBh 7.32.23
बालमत्यन्तसुखिनं विचरन्तमभीतवत् कृतास्त्रा बहवो जघ्नुर्ब्रूहि गावल्गणे कथम्
MBh 7.32.24
बिभित्सता रथानीकं सौभद्रेणामितौजसा विक्रीडितं यथा संख्ये तन्ममाचक्ष्व संजय
MBh 7.32.25
संजय उवाच यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम् तत्ते कार्त्स्न्येन वक्ष्यामि शृणु राजन्समाहितः विक्रीडितं कुमारेण यथानीकं बिभित्सता
MBh 7.32.26
दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे वनौकसामिवारण्ये त्वदीयानामभूद्भयम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 26 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.32local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷